Sutra: | चतुर्विधोऽर्शसां साधनोपायः। तद्यथा- भेषजं क्षारोऽग्निः शस्त्रमिति। तत्रअचिरकालजातान्यल्पदोषलिङ्गोपद्रव्याणि भेषजसाध्यानि, मृदुप्रसृतावगाढन्युच्छ्रितानि क्षारेण, कर्कशस्थिरपृथुकठिनान्यग्निना, तनुमूलान्युच्छ्रितानि क्लेदवन्ति च शस्त्रेण। तत्र भेषजसाध्यानामर्शसामदृश्यानां च भेषजं भवति, क्षाराग्निशस्त्रसाध्यानां तु विधानमुच्यमानमुपधारय॥ |