Sutra: | कालबलप्रवृत्ता ये शीतोष्णवातवर्षातपप्रभृतिनिमित्ताः; तेऽपि द्विविधाः- व्यापन्नर्तुकृता अव्यापन्नर्तुकृताश्च। दैवबलप्रवृत्ता ये देवद्रोहादभिशप्तका अथर्वणकृता उपसर्गजाश्च; तेऽपि द्विविधाः- विद्युदशनिकृताः, पिशाचादिकृताश्च; पुनश्च द्विविधाः- संसर्गजा, आकस्मिकाश्च। स्वभावबलप्रवृत्ता ये क्षुत्पिपासाजजरामृत्युनिद्राप्रभृतयः; तेऽपि द्विविधाः- कालजा, अकालजाश्च; तत्र परिरक्षणकृताः कालजाः, अपरिरक्षणकृताअकालजाः। एते आधिदैविकाः। अत्र सर्वव्याध्यवरोधः। |