कालिदासकृत रघुवंशम् की स्वचालित अनुक्रमणी
Automatic Indexing for Raghuvamsha



Author : बंदिता प्रियदर्शिनी राउत
Center/School : संस्कृत एवं प्राच्यविद्या संस्थान
Course : M.Phil in Sanskrit (Computational Linguistics), School of Sanskrit & Indic Studies, J.N.U.
Semester/Year : 2020-2022
Under the supervision of : Prof. Girish Nath Jha, School of Sanskrit & Indic Studies, J.N.U.

Enter the search (utf-8) use ITRANS for direct typing or the Devanagari keyboard

search other resources

Results for ' रघु '


श्लोक संदर्भ
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा । गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥सर्ग=५,पद्य=२६
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् । निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥सर्ग=३,पद्य=४७
ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कार्धमुखेन पत्रिणा शरासनज्यामलुनाद्बिडौजसः ॥सर्ग=३,पद्य=५९
दुर्जातबन्धुरयमृक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरःप्रहर्ता । इत्यादृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥सर्ग=१३,पद्य=७२
रघुवंशप्रदीपेन तेनाप्रतिमतेजसा । रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन्॥सर्ग=१०,पद्य=६८
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता । चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥सर्ग=६,पद्य=७६
तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् । कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥सर्ग=४,पद्य=६८
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् । रघुरप्यजयत्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥सर्ग=८,पद्य=२१
आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः॥सर्ग=४,पद्य=३७
दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम् । तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥सर्ग=९,पद्य=५
अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः । तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥सर्ग=८,पद्य=२४
अथेतरे सप्तरघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च । चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुकारि ॥सर्ग=१६,पद्य=१
ततः प्रहास्यापभयः पुरन्दरं पुनर्बभाषे तुरगस्य रक्षिता । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥सर्ग=३,पद्य=५१
प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् । तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू- न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥सर्ग=७,पद्य=७१
रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना । महौजसा संयुयुजे शरत्काल इवेन्दुना॥सर्ग=१५,पद्य=५४
अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ । शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ॥सर्ग=१५,पद्य=९०
अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः । निर्वर्तयामासुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः॥सर्ग=१४,पद्य=७
श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् । प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः॥सर्ग=१४,पद्य=१३
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः । न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥सर्ग=८,पद्य=१३
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥सर्ग=८,पद्य=१६
युवा युगव्यायतबाहुरंसलः कवाटवक्षाः परिणद्धकंधरः । वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ॥सर्ग=३,पद्य=३४
शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः । अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥सर्ग=३,पद्य=४३
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया । विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥सर्ग=८,पद्य=१०
रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि बिभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥सर्ग=१२,पद्य=१०४
तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भाम्। रम्यां रघुप्रतिनिधिः स नवोपकार्यां बाल्यात्परामिव दशां मदनोऽध्युवास ॥सर्ग=५,पद्य=६३
भूयस्ततो रघुपतिर्विलसत्पताक- मध्यास्त कामगति सावरजो विमानम् । दोषातनं बुधबृहस्पतियोगदृश्य- स्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् ॥सर्ग=१३,पद्य=७६
तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये । रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ॥सर्ग=६,पद्य=६
अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् । सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥सर्ग=५,पद्य=२८
श्रुतस्य यायादयमन्तमर्भकः तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम् ॥सर्ग=३,पद्य=२१
ततः सपर्यां सपशूपहारां पुरः परार्घ्यप्रतिमागृहायाः । उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुप्रवीरः ॥सर्ग=१६,पद्य=३९
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः । अनुपायिपदोपप्राप्तये रघुराप्तैः समियाय योगिभिः ॥सर्ग=८,पद्य=१७
रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वरं प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥सर्ग=८,पद्य=५
सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः । आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ॥सर्ग=६,पद्य=८३
महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव । रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः ॥सर्ग=३,पद्य=३२
ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥सर्ग=४,पद्य=६६
वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ । प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥सर्ग=४,पद्य=१६
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ॥सर्ग=३,पद्य=६१
तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पार्श्वचरानुयातः । आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहमारुरोह॥सर्ग=१४,पद्य=२९