"मनुस्मृति-अन्वेषण-पृष्ठ"



Author : योगेश कुमार (Yogesh Kumar)
Center/School : Sanskrit Center, JNU
Course : Computer Applications for Sanskrit, Special Center for Sanskrit Studies,J.N.U.
Semester/Year : Winter13
Under the supervision of : Dr. Girish Nath Jha (डॉ. गिरीशनाथ झा)

Enter the search (utf-8) use ITRANS for direct typing or the Devanagari keyboard

search other resources

Results for ' संस्कृत '


text reference
न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः । होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा11.36
स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः । यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः5.72
संस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् । उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः3.245
अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः । गुरौ वसन् सञ्चिनुयाद्ब्रह्माधिगमिकं तपः2.164
स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात्पुत्रं प्राथमकल्पिकम्9.166
सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया । सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया5.150
अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः2.39
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् । प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः10.110
संस्कृतान् पशून्मन्त्रैर्नाद्याद्विप्रः कदा चन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः5.36
दास्यं तु कारयंल्लोभाद्ब्राह्मणः संस्कृतान् द्विजान् । अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट्8.412