पदमाद्यं पृथक् सर्वं पदं साकाङ्ख्यमित्यपि
।
वाक्यं प्रति मतिर्भिन्ना बहुधा
न्यायवादिनाम् ॥२॥
निघातादिव्यवस्थार्थं शास्त्रे
यत् परिभाषितम् ।
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणम्
॥३॥
साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम्
।
कर्मप्रधानं गुणवदेकार्थं वाक्यमुच्यते
॥४॥
संबोधनपदं यच्च तत् क्रियाया विशेषकम्
।
व्रजानि देवदत्तेति निघातोऽत्र
तथा सति ॥५॥
यथानेकमपि क्त्वान्तं तिङन्तस्य
विशेषकम् ।
तथा तिङन्तं तत्राहुस्तिङन्तस्य
विशेषकम् ॥६॥
यथैक एव सर्वार्थप्रत्ययः प्रविभज्यते
।
दृश्यभेदानुकारेण वाक्यार्थानुगमस्तथा
॥७॥
चित्रस्यैकस्वरूपस्य यथा भेदनिदर्शनैः
।
नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः
॥८॥
तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य
सर्वतः ।
शब्दान्तरैः समाख्यानं साकाङ्क्षैरनुगम्यते
॥९॥
यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः
।
अपोद्धारस्तथा वाक्ये पदानामुपवर्ण्यते
॥१०॥
वर्णान्तरसरूपं च वर्णभागेषु दृश्यते
।
पदान्तरसरूपाश्च पदभागा अवस्थिताः
॥११॥
भागैरनर्थकैर्युक्ता वृषभोदकयावकाः
।
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम्
॥१२॥
शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य
भविष्यति ।
विभागैः प्रक्रियाभेदमविद्वान्
प्रतिपद्यते ॥१३॥
ब्राह्मणार्थो यथा नास्ति कश्चिद्
ब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः
॥१४॥
सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते
।
उपात्तस्य कुतस्त्यागो निवृत्तः
क्वावतिष्ठताम् ॥१५॥
अशब्दो यदि वाक्यार्थः पदार्थोऽपि
तथा भवेत् ।
एवं च सति सम्बन्धः शब्दस्यार्थेन
हीयते ॥१६॥
विशेषशब्दाः केषाञ्चित् सामान्यप्रतिरूपकाः
।
शब्दान्तराभिसम्बन्धाद् व्यज्यन्ते
प्रतिपत्तृषु ॥१७॥
तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं
समाप्यते ।
व्यक्तोपव्यञ्जना सिद्धिरर्थस्य
प्रतिपत्तृषु ॥१८॥
अव्यक्तः क्रमवाञ्शब्दः उपांश्वयमधीयते
।
अक्रमस्तु वितत्येव बुद्धिर्यत्रावतिष्ठते
॥१९॥
यथाक्षेपविशेषेऽपि कर्मभेदो न
गृह्यते ।
आवृत्तौ व्यज्यते जातिः कर्मभिर्भ्रमणादिभिः
॥२०॥
वर्णवाक्यपदेष्वेवं तुल्योपव्यञ्जना
श्रुतिः ।
अत्यन्तभेदे तत्त्वस्य सरूपेव
प्रतीयते ॥२१॥
नित्येषु च कुतः पूर्वं परं वा परमार्थतः
।
एकस्यैव तु सा शक्तिर्यदेवमवभासते
॥२२॥
चिरं क्षिप्रमिति ज्ञाने कालभेदादृते
यथा ।
भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः
॥२३॥
न नित्यः परमात्राभिः कालो भेदमिहाहति
।
व्यावर्तिनीनां मात्राणामभावे
कीदृशः क्रमः ॥२४॥
ताभ्यो या जायते बुद्धिरेका सा भागवर्तिनी
।
सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी
॥२५॥
क्रमोल्लेखानुषङ्गेण तस्यां यद्
बीजमाहितम् ।
तत्त्वनानात्वयोस्तस्य निरुक्तिर्नावतिष्ठते
॥२६॥
भावनासमये त्वेतत् क्रमसामर्थ्यमक्रमम्
।
व्यावृत्तभेदो येनार्थो भेदवानुपलभ्यते
॥२७॥
पदानि वाक्ये तान्येव वर्णास्ते
च पदे यदि ।
वर्णेषु वर्णभागानां भेदः स्यात्
परमाणुवत् ॥२८॥
भागानामनुपश्लेषान्न वर्णो न पदं
भवेत् ।
तेषामव्यपदेश्यत्वात् किमन्यदपदिश्यताम्
॥२९॥
यदन्तः शब्दतत्त्वं तु नादैरेकं
प्रकाशितम् ।
तदाहुरपरे शब्दं तस्य वाक्ये तथैकता
॥३०॥
अर्थभागैस्तथा तेषामान्तरोऽर्थः
प्रकाश्यते ।
अस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ
॥३१॥
प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता
।
अन्तर्मात्रात्मनस्तस्य शब्दतत्त्वस्य
सर्वदा ॥३२॥
तस्यैवास्तित्वनास्तित्वसामर्थ्ये
समवस्थिते ।
अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने
॥३३॥
संप्रत्ययप्रमाणत्वात् पदार्थास्तित्वकल्पने
।
पदार्थाभ्युच्चये त्यागादानर्थक्यं
प्रसज्यते ॥३४॥
राजशब्देन राजार्थो भिन्नरूपेण
गम्यते ।
वृत्तावाख्यातसदृशं पदमन्यत्र
युज्यते ॥३५॥
यथाश्वकर्ण इत्युक्ते विनैवाश्वेन
गम्यते ।
कश्चिदेव विशिष्टोऽर्थः सर्वेषु
प्रत्ययस्तथा ॥३६॥
वाक्येष्वर्थान्तरगतेः सादृश्यं
परिकल्पते ।
केषाञ्चिद् रूढिशब्दत्वं शास्त्र
एवानुगम्यते ॥३७॥
उपादायापि ये हेयास्तानुपायान्
प्रचक्षते ।
उपायानां च नियमो नावश्यमवतिष्ठते
॥३८॥
अर्थं कथञ्चित् पुरुषः कश्चित्
संप्रतिपद्यते ।
संसृष्टा वा विभक्ता वा भेदा वाक्यनिबन्धनाः
॥३९॥
सोऽयमित्यभिसम्बन्धो बुद्ध्या
प्रक्रम्यते यदा ।
वाक्यार्थस्य तदैकोऽपि वर्णः प्रत्यायकः
क्वचित् ॥४०॥
केवलेन पदेनार्थो यावानेवाभिधीयते
।
वाक्यस्थं तावतोऽर्थस्य तदाहुरभिधायकम्
॥४१॥
सम्बन्धे सति यत्त्वन्यदाधिक्यमुपजायते
।
वाक्यार्थमेव तं प्राहुरनेकपदसंश्रयम्
॥४२॥
स त्वनेकपदस्थोऽपि प्रतिभेदं समाप्यते
।
जातिवत्समुदायेऽपि सङ्ख्यावत्कल्प्यते
परैः ॥४३॥
सर्वभेदानुगुण्यं तु सामान्यमपरे
विदुः ।
तदर्थान्तरसंसर्गाद् भजते भेदरूपताम्
॥४४॥
भेदानाकाङ्क्षतस्तस्य या परिप्लवमानता
।
अवच्छिनत्ति सम्बन्धस्तां विशेषे
निवेशयन् ॥४५॥
कार्यानुमेयः सम्बन्धो रूपं तस्य
न दृश्यते ।
असत्त्वभूतमत्यन्तमतस्तं प्रतिजानते
॥४६॥
नियतं साधने साध्यं क्रिया नियतसाधना
।
स सन्निधानमात्रेण नियमः सन् प्रकाशते
॥४७॥
गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते
।
साध्यत्वेन निमित्तानि क्रियापदमपेक्षते
॥४८॥
सन्त एव विशेषा ये पदार्थेषु व्यवस्थिताः
।
ते क्रमादनुगम्यन्ते न वाक्यमभिधायकम्
॥४९॥
शब्दानां क्रममात्रे च नान्यः शब्दोऽस्ति
वाचकः ।
क्रमो हि धर्मः कालस्य तेन वाक्यं
न विद्यते ॥५०॥
वर्णानां च पदानां च क्रममात्रनिवेशिनी
।
पदाख्या वाक्यसंज्ञा च शब्दत्वं
नेष्यते तयोः ॥५२॥
समानेऽपि तु शब्दत्वे दृष्टः संप्रत्ययः
पदात् ।
प्रतिवर्णं त्वसौ नास्ति पदस्यार्थमतो
विदुः ॥५३॥
यथाऽस्यावयवा वर्णा विना वाच्येन
केनचित् ।
अर्थवन्तः समुदिता वाक्यमप्येवमिष्यते
॥५४॥
अनर्थकान्युपायत्वात् पदार्थेनार्थवन्ति
वा ।
क्रमेणोच्चरितान्याहुर्वाक्यार्थं
भिन्नलक्षणम् ॥५५॥
नित्यत्वे समुदायानां जातेर्वा
परिकल्पने ।
एकस्यैकार्थतामाहुर्वाक्यस्याव्यभिचारिणीम्
॥५६॥
अभेदपूर्वका भेदाः कल्पिता वाक्यवादिभिः
।
भेदपूर्वानभेदांस्तु मन्यन्ते
पददर्शिनः ॥५७॥
पदप्रकृतिभावश्च वृत्तिभेदेन वर्ण्यते
।
पदानां संहिता योनिः संहिता वा पदाश्रया
॥५८॥
पदाम्नायश्च यद्यन्यः संहिताया
निदर्शकः ।
नित्यस्तत्र कथं कार्यं पदं लक्षणदर्शनात्
॥५९॥
प्रतिवर्णमसंवेद्यः पदार्थप्रत्ययो
यथा ।
पदेष्वेवमसंवेद्यं वाक्यार्थस्य
निरूपणम् ॥६०॥
वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु
।
यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु
॥६१॥
सूक्ष्मं ग्राह्यं यथाऽन्येन संसृष्टं
सह गृह्यते ।
वर्णोऽप्यन्येन वर्णेन सम्बद्धो
वाचकस्तथा ॥६२॥
पदस्योच्चारणादर्थो यथा कश्चिन्निरूप्यते
।
वर्णानामपि सान्निध्यात्तथा सोऽर्थः
प्रतीयते ॥६३॥
प्राप्तस्य यस्य सामर्थ्यान्नियमार्था
यतः श्रुतिः ।
तेनात्यन्तं विशेषेण सामान्यं
यदि बाध्यते ॥६४॥
यजेतेति यदा द्रव्यं प्राप्तं सामर्थ्यलक्षणम्
।
व्रीहिश्रुत्या निवर्तेत न स्यात्
प्रतिनिधिस्तदा ॥६५॥
तस्माद् व्रीहित्वमधिकं व्रीहिशब्दः
प्रकल्पयन् ।
द्रव्यत्वमविरुद्धत्वात् प्राप्त्यर्थः
सन्न बाधते ॥६६॥
तेन चापि व्यवच्छिन्ने द्रव्यत्वे
सहचारिणि ।
असम्भवाद् विशेषाणां तत्रान्येषामदर्शनम्
॥६७॥
न च सामान्यवत् सर्वे क्रियाशब्देन
लक्षिताः ।
विशेषा न हि सर्वेषां सतां शब्दोऽभिधायकः
॥६८॥
शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः
।
तथाऽविवक्षा भेदानां द्रव्यत्वसहचारिणाम्
॥६९॥
असंनिधौ प्रतिनिधिर्मा भून्नित्यस्य
कर्मणः ।
काम्यस्य वा प्रवृत्तस्य लोप इत्यपदिश्यते
॥७०॥
विशिष्टैव क्रिया येन वाक्यार्थः
परिकल्प्यते ।
द्रव्याभावे प्रतिनिधौ तस्य तत्
स्यात् क्रियान्तरम् ॥७१॥
विज्ञातार्थं पदं यच्च तदर्थे प्रतिपादिते
।
पिकादि यदविज्ञातं तत् किमित्यनुयुज्यते
॥७२॥
सामर्थ्यप्रापितं यच्च व्यक्त्यर्थमनुषज्यते
।
श्रुतिरेवानुषङ्गे सा बाधिका लिङ्गवाक्ययोः
॥७३॥
अप्राप्तो यस्तु शुक्लादिः सन्निधानेन
गम्यते ।
स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः
॥७४॥
अभिन्नमेव वाक्यं तु यद्यभिन्नार्थमिष्यते
।
तत्सर्वं श्रुतिभूतत्वान्न श्रुत्यैव
विरोत्स्यते ॥७५॥
वाक्यानां समुदायश्च य एकार्थप्रसिद्धये
।
साकाङ्क्षावयवस्तत्र वाक्यार्थोऽपि
न विद्यते ॥७६॥
प्रासङ्गिकमिदं कार्यमिदं तन्त्रेण
लभ्यते ।
इदमावृत्तिभेदाभ्यामत्र बाधसमुच्चयौ
॥७७॥
ऊहोऽस्मिन् विषये न्याय्यः सम्बन्धोऽस्य
न बाध्यते ।
सामान्यस्यातिदेशोऽयं विशेषोऽत्रातिदिश्यते
॥७८॥
अर्थित्वमत्र सामर्थ्यमस्मिन्नर्थो
न भिद्यते ।
शास्त्रात् प्राप्ताधिकारोऽयं
व्युदासोऽस्य क्रियान्तरे ॥७९॥
इयं श्रुत्या क्रमप्राप्तिरियमुच्चारणादिभिः
।
क्रमोऽयमत्र बलवानस्मिंस्तु न
विवक्षितः ॥८०॥
इदं पराङ्गैः संबद्धमङ्गानामप्रयोजकम्
।
प्रयोजकमिदं तेषामत्रेदं नान्तरीयकम्
॥८१॥
इदं प्रधानं शेषोऽयं विनियोगक्रमस्त्वयम्
।
साक्षादस्योपकारीदमिदमाराद् विशेषकम्
॥८२॥
शक्तिव्यापारभेदोऽस्मिन् फलमत्र
तु भिद्यते ।
संबन्धाज्जातभेदोऽयं भेदस्तत्राविवक्षितः
॥८३॥
प्रसज्यप्रतिषेधोऽयं पर्युदासोऽयमत्र
तु ।
इदं गौणमिदं मुख्यं व्यापीदं गुरु
लघ्विदम् ॥८४॥
भेदेनाङ्गाङ्गिभावोऽस्य बहुधेदं
विकल्प्यते ।
इदं नियम्यतेऽस्यात्र योग्यत्वमुपजायते
॥८५॥
अस्य वाक्यान्तरे दृष्टाल्लिङ्गाद्भेदोऽनुमीयते
।
अयं शब्दादपोद्धृत्य पदार्थः प्रविभज्यते
॥८६॥
इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः
।
सर्वे ते न प्रकल्पेरन् पदं चेत्
स्यादवाचकम् ॥८७॥
अविभक्तेऽपि वाक्यार्थे शक्तिभेदादपोद्धृते
।
वाक्यान्तरविभागेन यथोक्तं न विरुध्यते
॥८८॥
यथैवैकस्य गन्धस्य भेदेन परिकल्पना
।
पुष्पादिषु तथा वाक्येऽप्यर्थभेदो
विधीयते ॥८९॥
गवये नरसिंहे वाप्येकज्ञानावृते
यथा ।
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते
॥९०॥
अप्रसिद्धं तु यं भागमदृष्टमनुपश्यति
।
तावत्यसंविदं मूढः सर्वत्र प्रतिपद्यते
॥९१॥
तथा पिकादियोगेन वाक्येऽत्यन्तविलक्षणे
।
सदृशस्यैव संज्ञानमसतोऽर्थस्य
मन्यते ॥९२॥
एकस्य भागे सादृश्यं भागे भेदश्च
लक्ष्यते ।
निर्भागस्य प्रकाशस्य निर्भागेणैव
चेतसा ॥९३॥
तथैव भागे सादृश्यं भागे भेदोऽवसीयते
।
भागाभावेऽपि वाक्यानामत्यन्तं
भिन्नधर्मणाम् ॥९४॥
रूपनाशे पदानां स्यात् कथं चावधिकल्पना
।
अगृहीतावधौ शब्दे कथं चार्थो विविच्यते
॥९५॥
संसर्ग इव रूपाणां शब्देऽन्यत्र
व्यवस्थितः ।
नानारूपेषु तद्रूपं तन्त्रेणापरमिष्यते
॥९६॥
तस्मिन्नभेदे भेदानां संसर्ग इव
वर्तते ।
रूपं रूपान्तरात्तस्मादनन्यत्
प्रविभज्यते ॥९७॥
शास्त्रे प्रत्यायकस्यापि क्वचिदेकत्वमाश्रितम्
।
प्रत्याय्येन क्वचिद्भेदो ग्रहणग्राह्ययोः
स्थितः ॥९८॥
ऊ इत्यभेदमाश्रित्य यथासंख्यं
प्रकल्पितम् ।
ऌङ् ऌटोर्ग्रहणे भेदो ग्राह्याभ्यां
सह कल्पितः ॥९९॥
यस्येत्येतदणो रूपं संज्ञिनामभिधायकम्
।
नहि प्रतीयमानेन ग्रहणस्यास्ति
सम्भवः ॥१००॥
प्लुतस्याङ्गविवृद्धिं च समाहारमचोस्तथा
।
व्युदस्यता पुनर्भेदः शब्देष्वत्यन्तमाश्रितः
॥१०२॥
अर्द्धर्चादिषु शब्देषु रूपभेदः
क्रमाद्यथा ।
तन्त्रात्तथैकशब्दत्वे भिन्नानां
श्रुतिरन्यथा ॥१०३॥
संहिताविषये वर्णाः स्वरूपेणाविकारिणः
।
शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात्
॥१०४॥
इन्द्रियादिविकारेण दृष्टं ग्राह्येषु
वस्तुषु ।
आत्मत्यागादृते भिन्नं ग्रहणं
स क्रमः श्रुतौ ॥१०५॥
अभिधानक्रियायोगाच्छब्देष्वविकृतेष्वपि
।
रूपमत्यन्तभेदेन तदेवैकं प्रकाशते
॥१०६॥
ऋचो वा गीतिमात्रे वा साम द्रव्यान्तरं
न तु ।
गीतिभेदाद्विगृह्यन्ते ता एव विकृता
ऋचः ॥१०७॥
उपायाच्छ्रुतिसंहारे(रो) भिन्नानामेकशेषिणाम्
।
तन्त्रेणोच्चारणे तेषां शास्त्रे
साधुत्वमिष्यते ॥१०८॥
परिगृह्य श्रुतिं चैकां रूपभेदवतामपि
।
तन्त्रेणोच्चारणं कार्यमन्यथा
ते न साधवः ॥१०९॥
सरूपाणां च वाक्यानां शास्त्रेण
प्रतिपादितम् ।
तन्त्रेणोच्चारणादेकं रूपं साधूपलभ्यते
॥११०॥
एकस्यानेकरूपत्वं नालिकादिपरिग्रहात्
।
यथा तथैव तन्त्रात् स्याद् बहूनामेकरूपता
॥१११॥
यथा पदसरूपाणां वाक्यानां सम्भवः
पृथक् ।
तथा वाक्यान्तराभावे स्यादेषां
पृथगर्थता ॥११२॥
अभिधेयः पदस्यार्थो वाक्यस्यार्थः
प्रयोजनम् ।
यस्य तस्य न सम्बन्धो वाक्यानामुपपद्यते
॥११३॥
तत्र क्रियापदान्येव व्यपेक्षन्ते
परस्परम् ।
क्रियापदानुषक्तस्तु सम्बन्धोऽतः
प्रतीयते ॥११४॥
आवृत्तिरनुवादो वा पदार्थव्यक्तिकल्पने
।
प्रत्येकं तु समाप्तोऽर्थः सहभूतेषु
वर्तते ॥११५॥
अविकल्पेऽपि वाक्यार्थे विकल्पा
भावनाश्रयाः ।
अत्राधिकरणे वादाः पूर्वेषां बहुधा
गताः ॥११६॥
अभ्यासात् प्रतिभाहेतुः शब्दो
सर्वोऽपरैः स्मृतः ।
बालानां च तिरश्चां च यथार्थप्रतिपादने
॥११७॥
अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यते
।
अनन्तरमिदं कार्यमस्मादित्युपदर्शनम्
॥११८॥
अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम्
।
अपूर्वदेवतास्वर्गैः सममाहुर्गवादिषु
॥११९॥
प्रयोगदर्शनाभ्यासादाकारावग्रहस्तु
यः ।
न स शब्दस्य विषयः स हि यत्नान्तराश्रयः
॥१२०॥
केचिद् भेदाः प्रकाश्यन्ते शब्दैस्तदभिधायिभिः
।
अनुनिष्पादिनः कांश्चिच्छब्दार्थ
इति मन्वते ॥१२१॥
जातेः प्रत्यायके शब्दे या व्यक्तिरनुषङ्गिणी
।
न तद् व्यक्तिगतान् भेदान् जातिशब्दोऽवलम्बते
॥१२२॥
घटादीनां न चाकारान् प्रत्याययति
वाचकः ।
वस्तुमात्रनिवेशित्वात् तद्गतिर्नान्तरीयकी
॥१२३॥
क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता
।
प्रयोगस्त्वनुनिष्पादी शब्दार्थ
इति गम्यते ॥१२४॥
नियतास्तु प्रयोगा ये नियतं यच्च
साधनम् ।
तेषां शब्दाभिधेयत्वमपरैरनुगम्यते
॥१२५॥
समुदायोऽभिधेयो वाऽप्यविकल्पसमुच्चयः
।
असत्यो वाऽपि संसर्गः शब्दार्थः
कैश्चिदिष्यते ॥१२६॥
असत्योपाधि यत्सत्यं तद्वा शब्दनिबन्धनम्
।
शब्दो वाप्यभिजल्पत्वमागतो याति
वाच्यतम् ॥१२७॥
सोऽयमित्यभिसम्बन्धाद् रूपमेकीकृतं
यदा ।
शब्दस्यार्थेन तं शब्दमभिजल्पं
प्रचक्षते ॥१२८॥
तयोरपृथगर्थत्वे रूढिरव्यभिचारिणि
।
किञ्चिदेव क्वचिद् रूपं प्राधान्येनावतिष्ठते
॥१२९॥
लोकेऽर्थरूपतां शब्दः प्रतिपन्नः
प्रवर्तते ।
शास्त्रे तूभयरूपत्वं प्रविभक्तं
विवक्षया ॥१३०॥
अशक्तेः सर्वशक्तेर्वा शब्दैरेव
प्रकल्पिता ।
एकस्यार्थस्य नियता क्रियादिपरिकल्पना
॥१३१॥
यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः
।
स बाह्यवस्त्विति ज्ञातः शब्दार्थः
कैश्चिदिष्यते ॥१३२॥
आकारवन्तः संवेद्या व्यक्तस्मृतिनिबन्धनाः
।
ये ते प्रत्यवभासन्ते संविन्मात्रं
त्वतोऽन्यथा ॥१३३॥
यथेन्द्रियं सन्निपतद्वैचित्र्येणोपदर्शकम्
।
तथैव शब्दादर्थस्य प्रतिपत्तिरनेकधा
॥१३४॥
वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु
प्रतिपत्तृषु ।
स्वप्रत्ययानुसारेण शब्दार्थः
प्रविभज्यते ॥१३५॥
एकस्मिन्नपि दृश्येऽर्थे दर्शनं
भिद्यते पृथक् ।
कालान्तरेण चैकोऽपि तं पश्यत्यन्यथा
पुनः ॥१३६॥
एकस्यापि च शब्दस्य निमित्तैरव्यवस्थितैः
।
एकेन बहुभिश्चार्थो बहुधा परिकल्प्यते
॥१३७॥
तस्माददृष्टतत्त्वानां सापराधं
बहुच्छलम् ।
दर्शनं वचनं चापि नित्यमेवानवस्थितम्
॥१३८॥
ऋषीणां दर्शनं यच्च तत्त्वे किञ्चिदवस्थितम्
।
न तेन व्यवहारोऽस्ति न तच्छब्दनिबन्धनम्
॥१३९॥
तलवद् दृश्यते व्योम खद्योतो हव्यवाडिव
।
नैव चास्ति तलं व्योम्नि न खद्योते
हुताशनः ॥१४०॥
तस्मात् प्रत्यक्षमप्यर्थं विद्वानीक्षेत
युक्तितः ।
न दर्शनस्य प्रामाण्याद् दृश्यमर्थं
प्रकल्पयेत् ॥१४१॥
असमाख्येयतत्त्वानामर्थानां लौकिकैर्यथा
।
व्यवहारे समाख्यानं तत्प्राज्ञो
न विकल्पयेत् ॥१४२॥
विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव
जायते ।
वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम्
॥१४३॥
इदं तदिति सान्येषामनाख्येया कथञ्चन
।
प्रत्यात्मवृत्तिसिद्धा सा कर्त्रापि
न निरूप्यते ॥१४४॥
उपश्लेषमिवार्थानां सा करोत्यविचारिता
।
सार्वरूप्यमिवापन्ना विषयत्वेन
वर्तते ॥१४५॥
साक्षाच्छब्देन जनितां भावनानुगमेन
वा ।
इतिकर्तव्यतायां तां न कश्चिदतिवर्तते
॥१४६॥
प्रमाणत्वेन तां लोकः सर्वः समनुपश्यति
।
समारम्भाः प्रतायन्ते तिरश्चामपि
तद्वशात् ॥१४७॥
यथा द्रव्यविशेषाणां परिपाकैरयत्नजाः
।
मदादिशक्तयो दृष्टाः प्रतिभास्तद्वतां
तथा ॥१४८॥
स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य
कः ।
जन्त्वादयः कुलायादिकरणे केन शिक्षिताः
॥१४९॥
आहारप्रीत्यपद्वेषप्लवनादिक्रियासु
कः ।
जात्यान्वयप्रसिद्धासु प्रयोक्ता
मृगपक्षिणाम् ॥१५०॥
स्वभावचरणाभ्यास-योगादृष्टोपपादिताम्
।
विशिष्टोपहितां चेति प्रतिभां
षड्विधां विदुः ॥१५२॥
यथा संयोगिभिर्द्रव्यैर्लक्षितेऽर्थे
प्रयुज्यते ।
गोशब्दो न त्वसौ तेषां विशेषाणां
प्रकाशकः ॥१५३॥
आकारवर्णावयवैः संसृष्टेषु गवादिषु
।
शब्दः प्रवर्तमानोऽपि न तानऽङ्गीकरोत्यसौ
॥१५४॥
संस्थानवर्णावयवैर्विशिष्टे यः
प्रयुज्यते ।
शब्दो न तस्यावयवे प्रवृत्तिरुपलभ्यते
॥१५५॥
संख्याप्रमाणसंस्थाननिरपेक्षः
प्रवर्तते ।
बिन्दौ च समुदाये च वाचकः सलिलादिषु
॥१५६॥
संस्कारादिपरिच्छिन्ने तैलादौ
यो व्यवस्थितः ।
आहैकदेशं तत्त्वेन तस्यावयववर्तिता
॥१५७॥
येनार्थेनाभिसम्बद्धमभिधानं प्रयुज्यते
।
तदर्थापगमे तस्य प्रयोगो विनिवर्तते
॥१५८॥
यांस्तु संभविनो धर्मानन्तर्नीय
प्रयुज्यते ।
शब्दस्तेषां न सान्निध्यं नियमेन
व्यपेक्षते ॥१५९॥
यथा रोमशफादीनां व्यभिचारेऽपि
दृश्यते ।
गोशब्दो न तथा जातेर्विप्रयोगे
प्रवर्तते ॥१६०॥
दुर्लभं कस्यचिल्लोके सर्वावयवदर्शनम्
।
कैश्चित्त्ववयवैर्दृष्टैरर्थः
कृत्स्नोऽनुमीयते ॥१६१॥
तथा जात्युत्पलादीनां गन्धेन सहचारिणाम्
।
नित्यसम्बन्धिनां दृष्टं गुणानामवधारणम्
॥१६२॥
तस्मात् संभविनोऽर्थस्य शब्दात्
संप्रत्यये सति ।
अदृष्टविप्रयोगोऽर्थः सम्बन्धित्वेन
गम्यते ॥१६३॥
वाचिका द्योतिका वा स्युर्द्वित्वादीनां
विभक्तयः ।
स्याद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः
॥१६४॥
विना संख्याभिधानाद्वा संख्याभेदसमन्वितान्
।
अर्थान् स्वरूपभेदेन कांश्चिदाहुर्गवादयः
॥१६५॥
ये शब्दा नित्यसम्बन्धा विवेके
ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां तेषामर्थो
विभज्यते ॥१६६॥
यत्र चाव्यभिचारेण तयोः शक्यं प्रकल्पनम्
।
नियमस्तत्र न त्वेवं नियमो नुट्शबादिषु
॥१६७॥
सम्भवे वाभिधानस्य लक्षणं तु न कल्प्यते
।
आपेक्षिक्यो हि संसर्गे नियताः
शब्दशक्तयः ॥१६८॥
न कूपसूपयूपानामन्वयोऽर्थस्य दृश्यते
।
अतोऽर्थान्तरवाचित्वं संघातस्यैव
गम्यते ॥१६९॥
अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु
।
बहूनां सम्भवेऽर्थानां निमित्तं
किञ्चिदिष्यते ॥१७०॥
वैरवासिष्ठगिरिशास्तथैकागारिकादयः
।
कैश्चित् कथञ्चिदाख्याता निमित्तावधिसङ्करैः
॥१७१॥
यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः
।
अविरुद्धं गवादीनां भिन्नैश्च
सहचारिभिः ॥१७२॥
अन्यथा च समाख्यानमवस्थाभेददर्शिभिः
।
क्रियते किंशुकादीनामेकदेशावधारणम्
॥१७३॥
कैश्चिन्निर्वचनं भिन्नं गिरतेर्गर्जतेर्गमेः
।
गवतेर्गदतेर्वापि गौरित्यत्रानुदर्शितम्
॥१७४॥
गौरित्येव स्वरूपाद्वा गोशब्दो
गोषु वर्तते ।
व्युत्पाद्यते न वा सर्वं कैश्चिच्चोभयथेष्यते
॥१७५॥
सामान्येनोपदेशश्च शास्त्रे लघ्वर्थमाश्रितः
।
जात्यन्तरवदस्यापि विशेषाः प्रतिपादकाः
॥१७६॥
अर्थान्तरे च यद् वृत्तं तत्प्रकृत्यन्तरं
विदुः ।
तुल्यरूपं न तद् रूढावन्यस्मिन्ननुषज्यते
॥१७७॥
भिन्नाविजियजी धातू नियतौ विषयान्तरे
।
कैश्चित् कथञ्चिदुद्दिष्टौ चित्रं
हि प्रतिपादनम् ॥१७८॥
एवं च बालवायादिजित्वरीवदुपाचरेत्
।
भेदाभेदाभ्युपगमे न विरोधोऽस्ति
कश्चन ॥१७९॥
अडादीनां व्यवस्थार्थं पृथक्त्वेन
प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धातुरेव
तु तादृशः ॥१८०॥
तथाहि संग्रामयतेः सोपसर्गाद्विधिः
स्मृतः ।
क्रियाविशेषाः संघाते प्रक्रम्यन्ते
तथाविधाः ॥१८१॥
कार्याणामन्तरङ्गत्वमेवं धातूपसर्गयोः
।
साधनैर्याति सम्बन्धं तथाभूतैव
सा क्रिया ॥१८२॥
प्रयोगाहेषु सिद्धः सन् भेत्तव्योऽर्थो
विशिष्यते ।
प्राक् च साधनसम्बन्धात् क्रिया
नैवोपजायते ॥१८३॥
धातोः साधनयोगस्य भाविनः प्रक्रमाद्यथा
।
धातुत्वं कर्मभावश्च तथान्यदपि
दृश्यताम् ॥१८४॥
बीजकालेषु सम्बन्धा यथा लाक्षारसादयः
।
वर्णादिपरिणामेन फलानामुपकुर्वते
॥१८५॥
बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः
।
अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते
॥१८६॥
क्वचित् सम्भविनो भेदाः केवलैरनिदर्शिताः
।
उपसर्गेण सम्बन्धे व्यज्यन्ते
प्रपरादिना ॥१८७॥
स वाचको विशेषाणां सम्भवाद् द्योतकोऽपि
वा ।
शक्त्याधानाय धातोर्वा सहकारी
प्रयुज्यते ॥१८८॥
स्थादिभिः केवलैर्यच्च गमनादि
तु गम्यते ।
तत्रानुमानाद् द्विविधात्तद्धर्मा
प्रादिरुच्यते ॥१८९॥
अप्रयोगेऽधिपर्योश्च यावद् दृष्टं
क्रियान्तरम् ।
तस्याभिधायको धातुः सह ताभ्यामनर्थकः
॥१९०॥
तथैव स्वार्थिकाः केचित् संघातान्तरवृत्तयः
।
अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः
॥१९१॥
निपाता द्योतकाः केचित् पृथगर्थाभिधायिनः
।
आगमा इव केऽपि स्युः संभूयार्थस्य
वाचकाः ॥१९२॥
उपरिष्टात् पुरस्ताद्वा द्योतकत्वं
न भिद्यते ।
तेषु प्रयुज्यमानेषु भिन्नार्थेष्वपि
सर्वथा ॥१९३॥
चादयो न प्रयुज्यन्ते पदत्वे सति
केवलाः ।
प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते
॥१९४॥
समुच्चिताभिधानेऽपि व्यतिरेको
न विद्यते ।
असत्त्वभूतो भावश्च क्रियाऽन्येनाभिधीयते
॥१९५॥
समुच्चिताभिधानेऽपि विशिष्टार्थाभिधायिनाम्
।
गुणैः पदानां सम्बन्धः परतन्त्रास्तु
चादयः ॥१९६॥
जनयित्वा क्रिया काचित् सम्बन्धं
विनिवर्तते ।
श्रूयमाणे क्रियाशब्दे सम्बन्धो
जायते क्वचित् ॥१९७॥
तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये
।
विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम्
॥१९८॥
स चोपजातः सम्बन्धो विनिवृत्ते
क्रियापदे ।
कर्मप्रवचनीयेन तत्र तत्र नियम्यते
॥१९९॥
येन क्रियापदाक्षेपः स कारकविभक्तिभिः
।
युज्यते विर्यथा तस्य लिखावनुपसर्गता
॥२००॥
कर्मप्रवचनीयत्वं क्रियायोगे विधीयते
।
षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां
विधर्मणाम् ॥२०२॥
हेतुहेतुमतोर्योगपरिच्छेदेऽनुना
कृते ।
आरम्भाद्बाध्यते प्राप्ता तृतीया
हेतुलक्षणा ॥२०३॥
क्रियाया द्योतको नायं न सम्बन्धस्य
वाचकः ।
नापि क्रियापदाक्षेपी सम्बन्धस्य
तु भेदकः ॥२०४॥
अनर्थकानां संघातः सार्थकोऽनर्थकस्तथा
।
वर्णानां पदमर्थेन युक्तं नावयवाः
पदे ॥२०५॥
पदानामर्थयुक्तानां संघातो भिद्यते
पुनः ।
अर्थान्तरावरोधेन सम्बन्धविगमेन
च ॥२०६॥
सार्थकानर्थकौ भेदे सम्बन्धं नाधिगच्छतः
।
अधिगच्छत इत्येके कुटीरादिनिदर्शनात्
॥२०७॥
अर्थवद्भ्यो विशिष्टार्थः संघात
उपजायते ।
नोपजायत इत्येके समासस्वार्थिकादिषु
॥२०८॥
केचित्तु युतसिद्धार्था भेदे निर्ज्ञातशक्तयः
।
अन्वयव्यतिरेकाभ्यां केचित् कल्पितशक्तयः
॥२०९॥
शास्त्रार्थ एव वर्णानामर्थवत्त्वे
प्रदर्शितः ।
धात्वादीनां विशुद्धानां लौकिकोऽर्थो
न विद्यते ॥२१०॥
कृत्तद्धितानामर्थश्च केवलानामलौकिकः
।
प्राग्विभक्तेस्तदन्तस्य तथैवार्थो
न विद्यते ॥२११॥
अभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु
लक्ष्यते ।
अर्थवत्ताप्रकरणादाश्रितः स तथाविधः
॥२१२॥
आत्मभेदो न चेत् कश्चिद् वर्णेभ्यः
पदवाक्ययोः ।
अन्योन्यापेक्षया शक्त्या वर्णः
स्यादभिधायकः ॥२१३॥
वर्णेन केनचिन्न्यूनः सङ्घातो
योऽभिधायकः ।
न चेच्छब्दान्तरमसावन्यूनस्तेन
गम्यते ॥२१४॥
स तस्मिन् वाचके शब्दे निमित्तात्
स्मृतिमादधत् ।
साक्षादिव व्यवहितं शब्देनार्थमुपोहते
॥२१५॥
पदवाच्यो यथा नार्थः कश्चिद् गौरखरादिषु
।
सत्यपि प्रत्ययेऽत्यन्तं समुदाये
न गम्यते ॥२१६॥
समन्वित इवार्थात्मा पदार्थैर्यः
प्रतीयते ।
पदार्थदर्शनं तत्र तथैवानुपकारकम्
॥२१७॥
समुदायावयवयोर्भिन्नार्थत्वे
च वृत्तिषु ।
युगपद् भेदसंसर्गौ विरुद्धावनुषङ्गिणौ
॥२१८॥
कश्च साधनमात्रार्थानध्यादीन्
परिकल्पयेत् ।
अप्रयुक्तपदश्चार्थो बहुव्रीहौ
कथं भवेत् ॥२१९॥
प्रज्ञुसंज्ञ्वाद्यवयवैर्न चास्त्यर्थावधारणम्
।
तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम्
॥२२०॥
गर्गा इत्येक एवायं बहुष्वर्थेषु
वर्तते ।
द्वन्द्वसंज्ञोऽपि सङ्घातो बहूनामभिधायकः
॥२२१॥
यथैकदेशे भुज्यादिः प्रत्येकमवतिष्ठते
।
क्रियैवं द्वन्द्ववाच्येऽर्थे
प्रत्येकं प्रविभज्यते ॥२२२॥
यच्च द्वन्द्वपदार्थस्य तच्छब्देन
व्यपेक्षणा ।
सापि व्यावृत्तरूपेऽर्थे सर्वनामसरूपता
॥२२३॥
यथा च खदिरच्छेदे भागेषु क्रमवांश्छिदिः
।
तथा द्वन्द्वपदार्थस्य भागेषु
क्रमदर्शनम् ॥२२४॥
सङ्घैकदेशे प्रक्रान्तान् यथा
सङ्घानुपातिनः ।
क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे
क्रमः ॥२२५॥
प्रतिपादयता वृत्तिमबुधान् वाक्यपूर्विकाम्
।
वृत्तौ पदार्थभेदेन प्राधान्यमुपदर्शितम्
॥२२६॥
अभेदादभिधेयस्य नञ्समासे विकल्पितम्
।
प्राधान्यं बहुधा भाष्ये दोषास्तु
प्रक्रियागताः ॥२२७॥
जहत्स्वार्थविकल्पे च सर्वार्थत्यागमिच्छता
।
बहुव्रीहिपदार्थस्य त्यागः सर्वस्य
दर्शितः ॥२२८॥
शास्त्रे क्वचित् प्रकृत्यर्थः
प्रत्ययेनाभिधीयते ।
प्रकृतौ विनिवृत्तायां प्रत्ययार्थश्च
धातुभिः ॥२२९॥
यमर्थमाहतुर्भिन्नौ प्रत्ययावेक
एव तम् ।
क्वचिदाह पचन्तीति धातुस्ताभ्यां
विना क्वचित् ॥२३०॥
अन्वाख्यानस्मृतौ ये च प्रत्ययार्था
निबन्धनम् ।
निर्दिष्टार्थ(ष्टास्ते) प्रकृत्यर्थाः
स्मृत्यन्तर उदाहृताः ॥२३१॥
प्रसिद्धेरुद्वमिकरीत्येव शास्त्रेऽभिधीयते
।
व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया
यतः ॥२३२॥
शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते
।
अनागमविकल्पा तु स्वयं विद्योपवर्तते
॥२३३॥
अनिबद्धं निमित्तेषु निरुपाख्यं
फलं यथा ।
तथा विद्याऽप्यनाख्येया शास्त्रोपायेव
लक्ष्यते ॥२३४॥
अ[य]थाभ्यासं हि वागर्थे प्रतिपत्तिं
समीहते ।
स्वभाव इव चानादिर्मिथ्याभ्यासो
व्यवस्थितः ॥२३५॥
उत्प्रेक्षते सावयवं परमाणुमपण्डितः
।
तथावयविनं युक्तमन्यैरवयवैः पुनः
॥२३६॥
घटादिदर्शनाल्लोकः परिच्छिन्नोऽवसीयते
।
समारम्भाच्च भावानामादिमद् ब्रह्म
शाश्वतम् ॥२३७॥
उपायाः शिक्षमाणानां बालानामपलापनाः
।
असत्ये वर्त्मनि स्थित्वा ततः सत्यं
समीहते ॥२३८॥
अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम्
।
पुनर्वाक्ये तमेवार्थमन्यथा प्रतिपद्यते
॥२३९॥
उपात्ता बहवोऽप्यर्था येष्वन्ते
प्रतिषेधनम् ।
क्रियते ते निवर्तन्ते तस्मात्
तांस्तत्र नाश्रयेत् ॥२४०॥
वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम्
।
नार्थे बुद्धौ सम्बन्धो निवृत्तेरवतिष्ठते
॥२४१॥
विच्छेदप्रतिपत्तौ च यद्यस्तीत्यवधार्यते
।
अशब्दवाच्या सा बुद्धिर्निवर्तेत
स्थिता कथम् ॥२४२॥
अथ यज्ज्ञानमुत्पन्नं तन्मिथ्येति
नञा कृतम् ।
नञो व्यापारभेदेऽस्मिन्नभावावगतिः
कथम् ॥२४३॥
निराधारप्रवृत्तौ च प्राक् प्रवृत्तिर्नञो
भवेत् ।
अथाधारः स एवास्य नियमार्था श्रुतिर्भवेत्
॥२४४॥
नियमद्योतनार्था वा अनुवादोऽथवा
भवेत् ।
कश्चिदेवार्थवांस्तत्र शब्दः शेषास्त्वनर्थकाः
॥२४५॥
विरुद्धं चाभिसम्बन्धमुदाहार्यादिभिः
कृतम् ।
वाक्ये समाप्ते वाक्यार्थमन्यथा
प्रतिपद्यते ॥२४६॥
स्तुतिनिन्दाप्रधानेषु वाक्येष्वर्थो
न तादृशः ।
पदानां प्रविभागेन यादृशः परिकल्प्यते
॥२४७॥
अथासंसृष्ट एवार्थः पदेषु समवस्थितः
।
वाक्यार्थस्याभ्युपायोऽसावेकस्य
प्रतिपादने ॥२४८॥
पूर्वं पदेष्वसंसृष्टो यः क्रमादुपचीयते
।
छिन्नग्रथितकल्पत्वान्न विशिष्टतरं
विदुः ॥२४९॥
एकमाहुरनेकार्थं शब्दमन्ये परीक्षकाः
।
निमित्तभेदादेकस्य सार्वार्थ्यं
तस्य भिद्यते ॥२५०॥
यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते
।
तथा स एव गोशब्दो वाहीकेऽपि व्यवस्थितः
॥२५२॥
सर्वशक्तेस्तु तस्यैव शब्दस्यानेकधर्मणः
।
प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं
चोपवर्ण्यते ॥२५३॥
एको मन्त्रस्तथाध्यात्ममधिदैवमधिक्रतु
।
असङ्करेण सर्वार्थो भिन्नशक्तिर्व्यवस्थितः
॥२५४॥
गोत्वानुषङ्गो वाहीके निमित्तात्
कैश्चिदिष्यते ।
अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे
व्यवस्थितः ॥२५५॥
तथा स्वरूपं शब्दानां सर्वार्थेष्वनुषज्यते
।
अर्थमात्रं विपर्यस्तं स्वरूपे
तु स्थितिः स्थिरा ॥२५६॥
एकत्वं तु स्वरूपत्वाच्छब्दयोर्गौणमुख्ययोः
।
प्राहुरत्यन्तभेदेऽपि भेदमार्गानुदर्शिनः[नुसारिणः]
॥२५७॥
सामिधेन्यन्तरं चैवमावृत्तावनुषज्यते
।
मन्त्राश्च विनियोगेन लभन्ते भेदमूहवत्
॥२५८॥
तान्याम्नायान्तराण्येव पठ्यते
किश्चिदेव तु ।
अनर्थकानां पाठो वा शेषस्त्वन्यः
प्रतीयते ॥२५९॥
शब्दस्वरूपमर्थस्तु पाठोऽन्यैरुपवर्ण्यते
।
अत्यन्तभेदः सर्वेषां तत्सम्बन्धात्तु
तद्वताम् ॥२६०॥
अन्या संस्कारसावित्री कर्मण्यन्या
प्रयुज्यते ।
अन्या जपप्रबन्धेषु सा त्वेकैव
प्रतीयते ॥२६१॥
अर्थस्वरूपे शब्दानां स्वरूपाद्वृत्तिरिष्यते
।
वाक्यरूपस्य वाक्यार्थे वृत्तिरन्यानपेक्षया
॥२६२॥
अनेकार्थत्वमेकस्य यैः शब्दस्यानुगम्यते
।
सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना
॥२६३॥
अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः
सह ।
युक्तः प्रत्याययत्यर्थं तं गौणमपरे
विदुः ॥२६४॥
शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो
यस्य गम्यते ।
स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः
॥२६५॥
यस्त्वन्यस्य प्रयोगेण यत्नादिव
नियुज्यते ।
तमप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम्
॥२६६॥
स्वार्थे प्रवर्तमानस्य यस्यार्थं
योऽवलम्बते ।
निमित्तं तत्र मुख्यं स्यान्निमित्ती
गौण इष्यते ॥२६७॥
पुरारादिति भिन्नेऽर्थे यौ वर्तेते
विरोधिनि ।
अर्थप्रकरणापेक्षं तयोरप्यवधारणम्
॥२६८॥
वाक्यस्यार्थात् पदार्थानामपोद्धारे
प्रकल्पिते ।
शब्दान्तरेण सम्बन्धः क[त]स्यैकस्योपपद्यते
॥२६९॥
यच्चाप्येकं पदं दृष्टं चरितास्तिक्रियं
क्वचित् ।
तद्वाक्यान्तरमेवाहुर्न तदन्येन
युज्यते ॥२७०॥
यच्च कोऽयमिति प्रश्ने गौरश्व इति
चोच्यते ।
प्रश्न एव क्रिया तत्र प्रक्रान्ता
दर्शनादिका ॥२७१॥
नैवाधिकत्वं धर्माणां न्यूनता
वा प्रयोजिका ।
आधिक्यमपि मन्यन्ते प्रसिद्धेर्न्यूनतां
क्वचित् ॥२७२॥
जातिशब्दोऽन्तरेणापि जातिं यत्र
प्रयुज्यते ।
सम्बन्धिसदृशाद्धर्मात् तं गौणमपरे
विदुः ॥२७३॥
विपर्यासादिवार्थस्य यत्रार्थान्तरतामिव
।
मन्यन्ते स गवादिस्तु गौण इत्युच्यते
क्वचित् ॥२७४॥
नियताः साधनत्वेन रूपशक्तिसमन्विताः
।
यथा कर्मसु गम्यन्ते सीरासिमुसलादयः
॥२७५॥
क्रियान्तरेण चैतेषां भवन्ति नहि
शक्तयः ।
रूपादेव तु तादर्थ्यं नियमेन प्रतीयते
॥२७६॥
तथैव रूपशक्तिभ्यामुत्पत्त्या
समवस्थितः ।
शब्दो नियततादर्थ्यः शक्त्याऽन्यत्र
प्रयुज्यते ॥२७७॥
श्रुतिमात्रेण यत्रास्य ता[या]दर्थ्यमवसीयते
।
मुख्यं तमर्थं मन्यन्ते गौणं यत्रोपपादितम्
॥२७८॥
गोयुष्मन्महतां च्व्यर्थे स्वार्थादर्थान्तरे
स्थितौ ।
अर्थान्तरस्य तद्भावस्तत्र मुख्योऽपि
दृश्यते ॥२७९॥
महत्त्वं शुक्लभावं च प्रकृतिः
प्रतिपद्यते ।
भेदेनापेक्षिता सा तु गौणत्वस्य
प्रयोजिका ॥२८०॥
अग्निसोमादयः शब्दा ये स्वरूपनिबन्धनाः
।
संज्ञिभिः संप्रयुज्यन्तेऽप्रसिद्धेस्तेषु
गौणता ॥२८१॥
अग्निदत्तस्तु योऽग्निः स्यात्
तत्र स्वार्थोपसर्जनः ।
शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं
प्रतिपद्यते ॥२८२॥
निमित्तभेदात् प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि
।
हरिश्चन्द्रादिषु सुटो भावाभावौ
व्यवस्थितौ ॥२८३॥
ऋष्यादौ प्राप्तसंस्कारो यः शब्दोऽन्येन
युज्यते ।
तत्रान्तरङ्गः संस्कारो बाह्येऽर्थे
न निवर्तते ॥२८४॥
अत्यन्तविपरीतोऽपि यदा योऽर्थोऽवधार्यते
।
यथासंप्रत्ययं शब्दस्तत्र मुख्यः
प्रवर्तते ॥२८५॥
यद्यपि प्रत्ययाधीनमर्थतत्त्वावधारणम्
।
न सर्वः प्रत्ययस्तस्मिन्नसिद्ध
इव जायते ॥२८६॥
दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः
।
तुल्यत्वे दर्शनादीनां न जलं मृगतृष्णिका
॥२८७॥
यदसाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः
।
तेन भेदः परिच्छेदस्तयोस्तुल्येऽपि
दर्शने ॥२८८॥
प्रसिद्धार्थविपर्यासनिमित्तं
यच्च दृश्यते ।
यस्तस्माल्लक्ष्यते भेदस्तदसत्यं
प्रचक्षते ॥२८९॥
यच्च निम्नोन्नते चित्रे सरूपं
पर्वतादिभिः ।
न तत्र प्रतिघातादि कार्यं तद्वत्
प्रवर्तते ॥२९०॥
स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य
सन्ततः ।
न तथाऽलातचक्रस्य विच्छिन्नं स्पृश्यते
हि तत् ॥२९१॥
वप्रप्राकारतल्पैश्च स्पर्शनावरणे
यथा ।
नगरेषु न ते तद्वद् गन्धर्वनगरेष्वपि
॥२९२॥
मृगपश्वादिभिर्यावान् मुख्यैरर्थः
प्रसाध्यते ।
तावान्न मृन्मयेऽप्यस्ति तस्मात्ते
विषयः कनः ॥२९३॥
महानाव्रियते देशः प्रसिद्धैः
पर्वतादिभिः ।
अल्पदेशान्तरावस्थं प्रतिबिम्बं
तु दृश्यते ॥२९४॥
मरणादिनिमित्तं च यथा मुख्या विषादयः
।
न ते स्वप्नादिषु स्वस्य तद्वदर्थस्य
साधकाः ॥२९५॥
देशकालेन्द्रियगतैर्भेदैर्यद्
दृश्यतेऽन्यथा ।
यथा प्रसिद्धिर्लोकस्य तथा तदवसीयते
॥२९६॥
यच्चोपघातजं ज्ञानं यच्च ज्ञानमलौकिकम्
।
न ताभ्यां व्यवहारोऽस्ति शब्दा
लोकनिबन्धनाः ॥२९७॥
घटादिषु यथा दीपो येनार्थेन प्रयुज्यते
।
ततोऽन्यस्यापि साचिव्यात् स करोति
प्रकाशनम् ॥२९८॥
संसर्गिषु तथाऽर्थेषु शब्दो येन
प्रयुज्यते ।
तस्मात् प्रयोजकादन्यानपि प्रत्याययत्यसौ
॥२९९॥
निर्मन्थनं यथाऽरण्योरग्न्यर्थमुपपादितम्
।
धूममप्यनभिप्रेतं जनयत्येकसाधनम्
॥३००॥
यथैवात्यन्तसंसृष्टस्त्यक्तुमर्थो
न शक्यते ।
तथा शब्दोऽपि सम्बन्धी प्रविवेक्तुं
न शक्यते ॥३०२॥
व्यर्थानां सन्निधानेऽपि सति चैषां
प्रकाशते[ने] ।
प्रयोजकोऽर्थः शब्दस्य रूपाभेदेऽपि
शस्यते ॥३०३॥
क्वचिद् गुणप्रधानत्वमर्थानामविवक्षितम्
।
क्वचित् सान्निध्यमप्येषां प्रतिपत्तावकारणम्
॥३०४॥
यच्चानुपात्तं शब्देन तत् कस्मिंश्चित्
प्रतीयते ।
क्वचित् प्रधानमेवार्थो भवत्यन्यस्य
लक्षणम् ॥३०५॥
आख्यातं तद्धितार्थस्य यत् किञ्चिदुपदर्शकम्
।
गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः
॥३०६॥
निर्देशे लिङ्गसंख्यानां सन्निधानमकारणम्
।
प्रमाणमेव ह्रस्वादावनुपात्तं
प्रतीयते ॥३०७॥
ह्रस्वस्यार्द्धं च यद् दृष्टं
तत्तस्याऽसन्निधावपि ।
ह्रस्वस्य लक्षणार्थत्वात् तद्वदेवाभिधीयते
॥३०८॥
दीर्घप्लुताभ्यां तस्य स्यान्मात्रया
वा विशेषणम् ।
जातेर्वा लक्षणा यस्मात् सर्वथा
सप्तपर्णवत् ॥३०९॥
गन्तव्यं दृश्यतां सूर्य इति कालस्य
लक्षणे ।
ज्ञायतां काल इत्येतत् सोपायमभिधीयते
॥३१०॥
विध्यत्यधनुषेत्यत्र विशेषेण निदर्श्यते
।
सामान्यमाश्रयः शक्तेर्यः कश्चित्
प्रतिपादकः ॥३११॥
काकेभ्यो रक्ष्यतां सर्पिरिति
बालोऽपि चोदितः ।
उपघातपरे वाक्ये न श्वादिभ्यो न
रक्षति ॥३१२॥
प्रक्षालनं शरावाणां स्थालीनां
मार्जनं तथा ।
अनुक्तमपि रूपेण भुज्यङ्गत्वात्
प्रतीयते ॥३१३॥
वाक्यात् प्रकरणादर्थादौचित्याद्
देशकालतः ।
शब्दार्थाः प्रविभज्यन्ते न रूपादेव
केवलात् ॥३१४॥
संसर्गो विप्रयोगश्च साहचर्यं
विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य
सन्निधिः ॥३१५॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः
स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः
॥३१६॥
भेदपक्षेऽपि सारूप्याद्भिन्नार्थाः
प्रतिपत्तिषु ।
नियता यान्त्यभिव्यक्तिं शब्दाः
प्रकरणादिभिः ॥३१७॥
नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः
।
शब्दा वाच्याश्च तेष्वर्थो न रूपादधिगम्यते
॥३१८॥
या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना
।
कुशलः प्रतिपत्ता तामयथार्था प्रतीयते
॥३१९॥
विधीयमानं यत्कर्म दृष्टादृष्टप्रयोजनम्
।
स्तूयते सा स्तुतिस्तस्य कर्तुरेव
प्रयोजिका ॥३२०॥
व्याघ्रादिव्यपदेशेन यथा बालो
निवर्त्यते ।
असत्योऽपि तथा कश्चित् प्रत्यवायो
विधीयते ॥३२१॥
न संविधानं कृत्वापि प्रत्यवाये
तथाविधे ।
शास्त्रेण प्रतिषिद्धेऽर्थे विद्वान्
कश्चित् प्रवर्तते ॥३२२॥
सर्पेषु संविधायापि सिद्धैर्मन्त्रौषधादिभिः
।
नान्यथा प्रतिपत्तव्यं न दतो गमयेदिति
॥३२३॥
क्वचित् तत्त्वसमाख्यानं क्रियते
स्तुतिनिन्दयोः ।
तत्रापि च प्रवृत्तिश्च निवृत्तिश्चोपदिश्यते
॥३२४॥
रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम्
।
सापेक्षा ये तु वाक्यार्थाः पदार्थैरेव
ते समाः ॥३२५॥
वाक्यं तदपि मन्यन्ते यत्पदं चरितक्रियम्
।
अन्तरेण क्रियाशब्दं वाक्यादेर्द्वित्वदर्शनात्
॥३२६॥
आख्यातशब्दे नियतं साधनं यत्र गम्यते
।
तदप्येकं समासार्थं वाक्यमित्यभिधीयते
॥३२७॥
शब्दव्यवहिता बुद्धिरप्रयुक्तपदाश्रया
।
अनुमानात् तदर्थस्य प्रत्यये हेतुरुच्यते
॥३२८॥
यस्मिंस्तूच्चरिते शब्दे यदा योऽर्थः
प्रतीयते ।
तमाहुरर्थं तस्यैव नान्यदर्थस्य
लक्षणम् ॥३२९॥
क्रियार्थोपपदेष्वेवं स्थानिनां
गम्यते क्रिया ।
वृत्तौ निरादिभिश्चैव क्रान्ताद्यर्थोऽवगम्यते
॥३३०॥
तानि शब्दान्तराण्येव पर्याया
इव लौकिकाः ।
अर्थप्रकरणाभ्यां तु तेषां स्वार्थो
नियम्यते ॥३३१॥
प्रतिबोधाभ्युपायास्तु ये तं तं
पुरुषं प्रति ।
नावश्यं तेऽभिसम्बद्धाः शब्दा
ज्ञेयेन वस्तुना ॥३३२॥
असत्यां प्रतिपत्तौ च मिथ्या वा
प्रतिपादने ।
स्वैरर्थैर्नित्यसम्बन्धास्ते
ते शब्दा व्यवस्थिताः ॥३३३॥
यथाप्रकरणं द्वारमित्यस्यां कर्मणः
श्रुतौ ।
बधान देहि वेत्येतदुपायादधिगम्यते
॥३३४॥
यत्र साधनवृत्तिर्यः शब्दः सत्त्वनिबन्धनः
।
न स प्रधानभूतस्य साध्यस्यार्थस्य
वाचकः ॥३३५॥
स्वार्थमात्रं प्रकाश्यासौ साकाङ्क्षो
विनिवर्तते ।
अर्थस्तु तस्य सम्बन्धी प्रकाशयति
सन्निधिम् ॥३३६॥
पारार्थ्यस्याविशिष्टत्वान्न
शब्दाच्छब्दसन्निधिः ।
नार्थाच्छब्दस्य सान्निध्यं न
शब्दादर्थसन्निधिः ॥३३७॥
नष्टरूपमिवाख्यातमाक्षिप्तं कर्मवादिना
।
यदि प्राप्तं प्रधानत्वं युगपद्
भावसत्त्वयोः ॥३३८॥
तैस्तु नामसरूपत्वमाख्यातस्योपवर्ण्यते
।
अन्वयव्यतिरेकाभ्यां व्यवहारो
विभज्यते ॥३३९॥
न चापि रूपात् सन्देहे वाचकत्वं
निवर्तते ।
अर्धं पशोरिव यथा सामर्थ्यात् तद्विकल्प्यते
॥३४०॥
सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम्
।
संसर्गे च विभक्तोऽस्य तस्यार्थो
न पृथग्यदि ॥३४१॥
क्रियाप्रधानमाख्यातं नाम्नां
सत्त्वप्रधानता ।
चत्वारि पदजातानि सर्वमेतद्विरुध्यते
॥३४२॥
वाक्यस्य बुद्धौ नित्यत्वमर्थयोगं
च लौकिकम् ।
दृष्ट्वा चतुष्ट्वं नास्तीति वार्ताक्षौदुम्बरायणौ
॥३४३॥
व्याप्तिमांश्च लघुश्चैव व्यवहारः
पदाश्रयः ।
लोके शास्त्रे च कार्यार्थं विभागेनैव
कल्पितः ॥३४४॥
न लोके प्रतिपत्तॄणामर्थयोगात्
प्रसिद्धयः ।
तस्मादलौकिको वाक्यादन्यः कश्चिन्न
विद्यते ॥३४५॥
अन्यत्र श्रूयमाणैश्च लिङ्गैर्वाक्येषु
सूचिताः ।
स्वार्था एव प्रतीयन्ते रूपाभेदादलक्षिताः
॥३४६॥
उत्सर्गवाक्ये यत् त्यक्तमशब्दमिव
शब्दवत् ।
तद् बाधकेषु वाक्येषु श्रुतमन्यत्र
गम्यते ॥३४७॥
ब्राह्मणानां श्रुतिर्दध्नि प्रक्रान्ता
माठरं विना ।
माठरस्तक्रसम्बन्धात् तत्राचष्टे
यथार्थताम् ॥३४८॥
अनेकाख्यातयोगेऽपि वाक्यं न्याय्यापवादयोः
।
एकमेवेष्यते कैश्चिद्भिन्नरूपमिव
स्थितम् ॥३४९॥
नियमः प्रतिषेधश्च विधिशेषस्तथा
सति ।
द्वितीये यो लुगाख्यातस्तच्छेषमलुकं
विदुः ॥३५०॥
विशेषविधिनाऽर्थित्वाद् वाक्यशेषोऽनुमीयते
।
विधेयवन्निवर्त्येऽर्थे तस्मात्तुल्यं
व्यपेक्षणम् ॥३५२॥
संज्ञाशब्दैकदेशो यस्तस्य लोपो
न विद्यते ।
विशिष्टरूपा सा संज्ञा कृता च न
निवर्तते ॥३५३॥
संज्ञान्तराच्च दत्तादेर्नान्या
संज्ञा प्रतीयते ।
संज्ञिनं देवदत्ताख्यं दत्तशब्दः
कथं वदेत् ॥३५४॥
सर्वैरवयवैस्तुल्यं सम्बन्धं समुदायवत्
।
केचिच्छब्दस्वरूपाणां मन्यन्ते
सर्वसंज्ञिभिः ॥३५५॥
वर्णानामर्थवत्त्वं तु संज्ञानां
संज्ञिभिर्भवेत् ।
सम्बद्धोऽवयवः संज्ञाप्रविवेके
न कल्प्यते ॥३५६॥
सर्वस्वरूपैर्युगपत् सम्बन्धे
सति संज्ञिनः ।
नैकदेशसरूपेभ्यस्तत्प्रत्यायनसम्भवः
॥३५७॥
एकदेशात्तु सङ्घाते केषाञ्चिज्जायते
स्मृतिः ।
स्मृतेस्तु विषयाच्छब्दात् सङ्घातार्थः
प्रतीयते ॥३५८॥
एकदेशात् स्मृतिर्भिन्ने सङ्घाते
जायते कथम् ।
कथं प्रतीयमानः स्याच्छब्दोऽर्थस्याभिधायकः
॥३५९॥
एकदेशसरूपास्तु तैस्तैर्लिङ्गैः
समन्विताः ।
अनुनिष्पादिनः शब्दाः संज्ञासु
समवस्थिताः ॥३६०॥
साधारणत्वात् संदिग्धाः सामर्थ्यान्नियताश्रयाः
।
तेषां ये साधवस्तेषु शास्त्रे लोपादि
शिष्यते ॥३६१॥
तुल्यायामनुनिष्पत्तौ ज्ये द्रा
घा इत्यसाधवः ।
नह्यन्वाख्यायके शास्त्रे तेषु
दत्तादिवत् स्मृतिः ॥३६२॥
कृतणत्वाश्च ये शब्दा नित्यं खरणसादयः
।
एकद्रव्योपदेशित्वात्तान् साधून्
संप्रचक्षते ॥३६३॥
गोत्राण्येव तु तान्याहुः संज्ञाशक्तिसमन्वयात्
।
निमित्तापेक्षणं तेषु स्वार्थे
नावश्यमिष्यते ॥३६४॥
व्यवहाराय नियमः संज्ञानां संज्ञिनि
क्वचित् ।
नित्य एव तु सम्बन्धो डित्थादिषु
गवादिवत् ॥३६५॥
वृद्ध्यादीनां च शास्त्रेऽस्मिञ्छक्त्यवच्छेदलक्षणः
।
अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत्
॥३६६॥
संज्ञास्वरूपमाश्रित्य निमित्ते
सति लौकिकी ।
काचित् प्रवर्तते काचिन्निमित्तासंनिधावपि
॥३६७॥
शास्त्रे तु महती संज्ञा स्वरूपोपनिबन्धना
।
अनुमानं निमित्तस्य संनिधाने प्रतीयते
॥३६८॥
आवृत्तेरनुमानं वा सारूप्यात्तत्र
गम्यते ।
शब्दभेदानुमानं वा शक्तिभेदस्य
वा गतिः ॥३६९॥
क्वचिद् विषयभेदेन कृत्रिमा व्यवतिष्ठते
।
संख्यायामेकविषयं व्यवस्थानं द्वयोरपि
॥३७०॥
विषयं कृत्रिमस्यापि लौकिकः क्वचिदुच्चरन्
।
व्याप्नोति दूरात्सम्बुद्धौ तथाहि
ग्रहणं द्वयोः ॥३७१॥
सङ्घैकशेषद्वन्द्वेषु केचित्सामर्थ्यलक्षणम्
।
प्रत्याश्रयमवस्थानं क्रियाणां
प्रतिजानते ॥३७२॥
भोजनं फलरूपाभ्यामेकैकस्मिन् समाप्यते
।
अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते
॥३७३॥
अन्नादानादिरूपां च सर्वे तृप्तिफलां
भुजिम् ।
प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियामिव
॥३७४॥
पाद्यवत् सा विभागेन सामर्थ्यादवतिष्ठते
।
भुजिः करोति भुज्यर्थं न तन्त्रेण
प्रदीपवत् ॥३७५॥
दृश्यादिस्तु क्रियैकापि तथाभूतेषु
कर्मसु ।
आवृत्तिमन्तरेणापि समुदायाश्रया
भवेत् ॥३७६॥
भिन्नव्यापाररूपाणां व्यवहारादिदर्शने
।
कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य
साधकम् ॥३७७॥
लक्ष्यस्य लोकसिद्धत्वाच्छास्त्रे
लिङ्गस्य दर्शनात् ।
अर्थित्वादैक्षुभेदेन वृद्धिसंज्ञा
समाप्यते ॥३७८॥
शतादाने प्रधानत्वाद् दण्डने शतकर्मके
।
अर्थिनां गुणभेदेऽपि संख्येयोऽर्थो
न भिद्यते ॥३७९॥
सङ्घस्यैव विधेयत्वात् कार्यवत्
प्रतिपादने ।
तत्र तन्त्रेण सम्बन्धः समासाभ्यस्तसंज्ञयोः
॥३८०॥
लक्षणार्था स्तुतिर्येषां काञ्चिदेव
क्रियां प्रति ।
तैर्व्यस्तैश्च समस्तैश्च स धर्म
उपलक्ष्यते ॥३८१॥
वृषलैर्न प्रवेष्टव्यमित्येतस्मिन्
गृहे यथा ।
प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते
॥३८२॥
सम्भूय त्वर्थलिप्सादिप्रतिषेधोपपादने
।
पृथगप्रतिषिद्धत्वात् प्रवृत्तिर्न
विरुध्यते ॥३८३॥
व्यवायलक्षणार्थत्वादट्कुप्वाङादिभिस्तथा
।
प्रत्येकं वा समस्तैर्वा णत्वं
न प्रतिषिध्यते ॥३८४॥
अनुग्रहार्थं भोक्तॄणां भुजिरारभ्यते
यदा ।
देशकालाद्यभेदेन नानुगृह्णाति
तानसौ ॥३८५॥
पात्रादिभेदान्नानात्वं यस्यैकस्योपदिश्यते
।
विपर्यये वा भिन्नस्य तस्यैकत्वं
प्रकल्प्यते ॥३८६॥
संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः
।
स्वं स्वं भोज्यं विभागेन प्राप्तं
संभूय भुञ्जते ॥३८७॥
वीप्साया विषयाभावाद् विरोधादन्यसंख्यया
।
द्विधा समाप्त्ययोगाच्च शतं सङ्घेऽवतिष्ठते
॥३८८॥
भुजिर्द्वन्द्वैकशेषाभ्यां यत्रान्यैः
सह शिष्यते ।
तत्रापि लक्षणार्थत्वाद् द्विधा
वाक्यं समाप्यते ॥३८९॥
वाक्यान्तराणां प्रत्येकं समाप्तिः
कैश्चिदिष्यते ।
रूपान्तरेण युक्तानां वाक्यानां
तेन संग्रहः ॥३९०॥
न वाक्यस्याभिधेयानि भेदवाक्यानि
कानिचित् ।
तस्मिंस्तूच्चरिते भेदांस्तथान्यान्
प्रतिपद्यते ॥३९१॥
येषां समस्तो वाक्यार्थः प्रतिभेदं
समाप्यते ।
तेषां तदानीं भिन्नस्य किं पदार्थस्य
सत्तया ॥३९२॥
अथ तैरेव जनितः सोऽर्थो भिन्नेषु
वर्तते ।
पूर्वस्यार्थस्य तेन स्याद्विरोधः
सह वा स्थितिः ॥३९३॥
सहस्थितौ विरोधित्वं स्याद् विशिष्टाविशिष्टयोः
।
व्यभिचारी तु सम्बन्धस्त्यागेऽर्थस्य
प्रसज्यते ॥३९४॥
एकः साधारणो वाच्यः प्रतिशब्दमवस्थितः
।
सङ्घे सङ्घिषु चार्थात्मा संनिधाननिदर्शकः
॥३९५॥
यथा साधारणे स्वत्वं त्यागस्य च
फलं धने ।
प्रीतिश्चाविकला तद्वत् सम्बन्धोऽर्थेन
तद्वताम् ॥३९६॥
वर्णानामर्थवत्तायां तेनैवार्थेन
तद्वति ।
समुदायेन चैकत्वं भेदेन व्यवतिष्ठते
॥३९७॥
एकेनैव प्रदीपेन सर्वे साधारणं
धनम् ।
पश्यन्ति तद्वदेकेन सुपा संख्याऽभिधीयते
॥३९८॥
नार्थवत्ता पदे वर्णे वाक्ये चैवं
विशिष्यते ।
अभ्यासात् प्रक्रमोऽन्यस्तु विरुद्ध
इव दृश्यते ॥३९९॥
विनियोगादृते शब्दो न स्वार्थस्य
प्रकाशकः ।
अर्थाभिधानसम्बन्धमुक्तिद्वारं
प्रचक्षते ॥४००॥
यथा प्रणिहितं चक्षुर्दर्शनायोपकल्पते
।
तथाऽभिसंहितः शब्दो भवत्यर्थस्य
वाचकः ॥४०१॥
|
|
क्रियाव्यवेतः सम्बन्धो दृष्टः
करणकर्मणोः ।
अभिधा नियमस्तस्मादभिधानाभिधेययोः
॥४०२॥
बहुष्वेकाभिधानेषु सर्वेष्वेकार्थकारिषु
।
यत्प्रयोक्ताभिसन्धत्ते शब्दस्तत्रावतिष्ठते
॥४०३॥
आम्नायशब्दानभ्यासे केचिदाहुरनर्थकान्
।
स्वरूपमात्रवृत्तींश्च परेषां
प्रतिपादने ॥४०४॥
अभिधानक्रियाभेदादर्थस्य प्रतिपादकात्
।
नियोगभेदान्मन्यन्ते तानेवैकत्वदर्शिनः
॥४०५॥
तेषामत्यन्तनानात्वं नानात्वव्यवहारिणः
।
अक्षादीनामिव प्राहुरेकजातिसमन्वयात्
॥४०६॥
प्रयोगादभिसन्धानमत्पदेषु न विद्यते
।
विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः
॥४०७॥
नानात्वस्यैव संज्ञानमर्थप्रकरणादिभिः
।
न जात्वर्थान्तरे वृत्तिरन्यार्थानां
कथञ्चन ॥४०८॥
पदरूपं तु यद्वाक्यमस्तित्वोपनिबन्धनम्
।
कामं विमर्शस्तत्रायं न वाक्यावयवे
पदे ॥४०९॥
यथैवानर्थकैर्वर्णैर्विशिष्टार्थोऽभिधीयते
।
पदैरनर्थकैरेवं विशिष्टार्थोऽभिधीयते
॥४१०॥
यदान्तराले ज्ञानं तु पदार्थेषूपजायते
।
प्रतिपत्तेरुपायोऽसौ प्रक्रमानवधारणात्
॥४११॥
पूर्वैरर्थैरनुगतो यथार्थात्मा
परः परः ।
संसर्ग एव प्रक्रान्तस्तथाऽन्येष्वर्थवस्तुषु
॥४१२॥
अङ्गीकृते तु केषाञ्चित् साध्येनार्थेन
साधने ।
आधारनियमार्थैव साधनानां पुनः
श्रुतिः ॥४१३॥
आधारनियमाभावात् तदाक्षेपो न विद्यते
।
सामर्थ्यात्सम्भवस्तस्य श्रुतिस्त्वन्यनिवृत्तये
॥४१४॥
क्रिया क्रियान्तराद्भिन्ना नियताधारसाधना
।
प्रक्रान्ता प्रतिपत्तॄणां भेदाः
सम्बोधहेतवः ॥४१५॥
अविभागं तु शब्देभ्यः क्रमवद्भ्योऽपदक्रमम्
।
प्रकाशते तदन्येषां वाक्यं वाक्यार्थ
एव च ॥४१६॥
स्वरूपं विद्यते यस्य तस्यात्मा
न निरूप्यते ।
नास्ति यस्य स्वरूपं तु तस्यैवात्मा
निरूप्यते ॥४१७॥
अशब्दमपरेऽर्थस्य रूपनिर्धारणं
विदुः ।
अर्थावभासरूपा हि शब्देभ्यो जायते
स्मृतिः ॥४१८॥
अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोऽभिमन्यते
।
अन्यथा दाहशब्देन दाहाद्यर्थः
प्रतीयते ॥४१९॥
पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम्
।
इन्द्रियाणां यथा कार्यमृते देहान्न
क्ल्पते ॥४२०॥
तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम्
।
वाक्येभ्यः प्रविभक्तानामर्थवत्ता
न विद्यते ॥४२१॥
संसर्गरूपं संसृष्टेष्वर्थवस्तुषु
गृह्यते ।
नात्रोपाख्यायते तत्त्वमपदार्थस्य
दर्शनात् ॥४२२॥
दर्शनस्यापि यत्सत्यं न तथा दर्शनं
स्थितम् ।
वस्तुसंसर्गरूपेण तदरूपं निरूप्यते
॥४२३॥
अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि
वा स्थितः ।
अर्थोऽभिधीयते यस्मादतो वाक्यं
प्रयुज्यते ॥४२४॥
क्रियानुषङ्गेण विना न पदार्थः
प्रतीयते ।
सत्यो वा विपरीतो वा व्यवहारे न
सोऽस्त्यतः ॥४२५॥
सदित्येव तु यद्वाक्यं तदभूदस्ति
नेति वा ।
क्रियाभिधानसम्बन्धमन्तरेण न मन्यते
॥४२६॥
आख्यातपदवाच्येऽर्थे साधनोपनिबन्धने
।
विना सत्त्वाभिधानेन नाकाङ्क्षा
विनिवर्तते ॥४२७॥
पाधान्यात्तु क्रिया पूर्वमर्थस्य
प्रविभज्यते ।
साध्यप्रयुक्तान्यङ्गानि फलं तस्याः
प्रयोजकम् ॥४२८॥
प्रयोक्तैवाभिसन्धत्ते साध्यसाधनरूपताम्
।
अर्थस्य वाऽभिसम्बन्धकल्पनां प्रसमीहते
॥४२९॥
पचिक्रिया करोमीति कर्मत्वेनाभिधीयते
।
पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते
॥४३०॥
योऽसौ येनोपकारेण प्रयोक्तॄणां
विवक्षितः ।
अर्थस्य सर्वशक्तित्वात् स तथैव
व्यवस्थितः ॥४३१॥
आराद् वृत्तिषु सम्बन्धः कदाचिदभिधीयते
।
आश्लिष्टो योऽनुपश्लिष्टः स कदाचित्
प्रतीयते ॥४३२॥
संसृष्टानां विवेकित्वं संसर्गश्च
विवेकानाम् ।
नानात्मकानामेकत्वं नानात्वं च
विपर्यये ॥४३३॥
सर्वात्मकत्वादर्थस्य नैरात्म्याद्वा
व्यवस्थितम् ।
अत्यन्तयतशक्तित्वाच्छब्द एव निबन्धनम्
॥४३४॥
वस्तूपलक्षणं शब्दो नापकारस्य
वाचकः ।
न स्वशक्तिः पदार्थानां संस्प्रष्टुं
तेन शक्यते ॥४३५॥
सम्बन्धिधर्मा संयोगः स्वशब्देनाभिधीयते
।
सम्बन्धः समवायश्च सम्बन्धित्वेन
गम्यते ॥४३६॥
लक्षणाद् व्यवतिष्ठन्ते पदार्था
न तु वस्तुतः ।
उपकारात् स एवार्थः कथञ्चिदनुगम्यते
॥४३७॥
वाक्यार्थे योऽभिसम्बन्धो न तस्यात्मा
क्वचित् स्थितः ।
व्यवहारे पदार्थानां तमात्मानं
प्रचक्षते ॥४३८॥
पदार्थे समुदाये वा समाप्तो नैव
वा क्वचित् ।
पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते
॥४३९॥
अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम्
।
साकाङ्क्षावयवं भेदे तेनान्यदुपवर्ण्यते
॥४४०॥
अनेकशक्तेरेकस्य प्रविभागोऽनुगम्यते
।
एकार्थत्वं हि वाक्यस्य मात्रयाऽपि
प्रतीयते ॥४४१॥
संप्रत्ययार्थाद् बाह्योऽर्थः
सन्नसन्वा विभज्यते ।
बाह्यीकृत्य विभागस्तु शक्त्यपोद्धारलक्षणः
॥४४२॥
बहुष्वपि तिङन्तेषु साकाङ्क्षेष्वेकवाक्यता
।
तिङन्तेभ्यो निघातस्य पर्युदासस्तथार्थवान्
॥४४३॥
एकतिङ् यस्य वाक्यं तु शास्त्रे
नियतलक्षणम् ।
तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान्न
विद्यते ॥४४४॥
तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु
वा पुनः ।
मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः
॥४४५॥
इतिकर्तव्यताऽर्थस्य सामर्थ्याद्यस्य
काङ्क्ष्यते ।
अशब्दलक्षणाकाङ्क्षं समाप्तार्थं
तदुच्यते ॥४४६॥
तत्त्वान्वाख्यानमात्रे तु यावानर्थोऽनुषज्यते
।
विनाऽपि तत्प्रयोगेण श्रुतेर्वाक्यं
समाप्यते ॥४४७॥
चङ्क्रम्यमाणोऽधीष्वात्र जपंश्चङ्क्रमणं
कुरु ।
तादर्थ्यस्याविशेषेऽपि शब्दाद्भेदः
प्रतीयते ॥४४८॥
फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः
।
असंख्याताः क्रमोद्देशैरेकाख्यातनिदर्शनाः
॥४४९॥
निवृत्तभेदा सर्वैव क्रियाऽऽख्यातेऽभिधीयते
।
श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना
॥४५०॥
सकृच्छ्रुता सप्तदशस्वनावृत्तापि
या क्रिया ।
प्राजापत्येषु सामर्थ्यात् सा
भेदं प्रतिपद्यते ॥४५२॥
देवदत्तादिषु भुजिः प्रत्येकमवतिष्ठते
।
प्रतिस्वतन्त्रं वाक्यं वा भेदो
न प्रविभज्यते ॥४५३॥
उच्चारणे तु वाक्यानामन्यद्रूपं
निगृह्यते ।
प्रतिपत्तौ तु भिन्नानामन्यद्रूपं
प्रतीयते ॥४५४॥
एकं ग्रहणकं वाक्यं सामान्येनाभिधीयते
।
कर्तरीति यथा तच्च पश्वादिषु विभज्यते
॥४५५॥
यद्याकाङ्क्षा निवर्तेत तद्भूतस्य
सकृच्छ्रुतौ ।
नैवान्येनाभिसम्बन्धं तदुपेयात्
कथञ्चन ॥४५६॥
एकरूपमनेकार्थं तस्मादुपनिबन्धनम्
।
योनिर्विभागवाक्यानां तेभ्योऽनन्यदिव
स्थितम् ॥४५७॥
क्वचित् क्रिया व्यत्तिभागैरुपकारे
प्रवर्त्तते ।
सामान्यभाग एवास्याः क्वचिदर्थस्य
साधकः ॥४५८॥
कालभिन्नाश्च भेदा ये ये चाप्युष्ट्रासिकादिषु
।
प्रक्रमे जातिभागस्य शब्दात्मा
तैर्न भिद्यते ॥४५९॥
एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः
क्रियाः ।
भेदेन विनियुज्यन्ते तच्छब्दस्य
सकृच्छ्रुतौ ॥४६०॥
अक्षादिषु यथा भिन्ना भञ्जिभक्षिदिविक्रियाः
।
प्रयोगकालाभेदेऽपि प्रतिभेदं पृथक्
स्थिताः ॥४६१॥
अक्षाणां तन्त्रिणां तन्त्रमुपायस्तुल्यरूपता
।
एषां क्रमो विभक्तानां तन्निबद्धा
सकृच्छ्रुतिः ॥४६२॥
द्वावभ्युपायौ शब्दानां प्रयोगे
समवस्थितौ ।
क्रमो वा यौगपद्यं वा यौ लोको नातिवर्त्तते
॥४६३॥
क्रमे विभिद्यते रूपं यौगपद्ये
न भिद्यते ।
क्रिया तु यौगपद्येऽपि क्रमरूपानुपातिनी
॥४६४॥
भेदसंसर्गशक्ती द्वे शब्दाद्भिन्ने
इव स्थिते ।
यौगपद्येऽप्यनेकेन प्रयोगे भिद्यते
श्रुतिः ॥४६५॥
अभिन्नो भेदरूपेण य एकोऽर्थो विवक्षितः
।
तत्रावयवधर्मेण समुदायोऽनुगृह्यते
॥४६६॥
भेदनिर्वचने त्वस्य प्रत्येकं
वा समाप्यते ।
श्रुतिर्वचनभिन्ना वा वाक्यभेदेऽवतिष्ठते
॥४६७॥
तत्रैकवचनान्तो वा सोऽक्षशब्दः
प्रयुज्यते ।
प्रत्येकं वा बहुत्वेन प्रविभागो
यथाश्रुति ॥४६८॥
द्विष्ठानि यानि वाक्यानि तेष्वप्येकत्वदर्शिनाम्
।
अनेकशक्तेरेकस्य स्वशक्तिः प्रविभज्यते
॥४६९॥
अत्यन्तभिन्नयोर्वा स्यात् प्रयोगस्तन्त्रलक्षणः
।
उपायस्तत्र संसर्गः प्रतिपत्तृषु
भिद्यते ॥४७०॥
भेदेनावगतौ पूर्वं शब्दौ तुल्यश्रुती
पुनः ।
तन्त्रेण प्रतिपत्तारं प्रयोक्त्रा
प्रातिपादिताः ॥४७१॥
एकस्यापि विवक्षायामनुनिष्पद्यते
परः ।
विनाऽभिसंधिना शब्दः शक्तिरूपः
प्रकाशते ॥४७२॥
अनेकशक्तिरेकस्य युगपच्छ्रीयते
क्वचित् ।
अग्निः प्रकाशदाहाभ्यामेकत्रापि
नियुज्यते ॥४७३॥
आवृत्तिशक्तिभिन्नार्थे वाक्ये
सकृदपि श्रुते ।
लिङ्गाद्वा तन्त्रधर्माद्वा विभागेनावतिष्ठते
॥४७४॥
सम्प्रसारणसंज्ञायां लिङ्गाभ्यां
वर्णवाक्ययोः ।
प्रविभागस्तत्र सूत्रे एकस्मिन्नेव
कल्पते ॥४७५॥
तथा द्विर्वचनेऽचीति तन्त्रोपायादिलक्षणः
।
एकशेषेण निर्देशो भाष्य एवोपवर्णितः
॥४७६॥
प्रायेण संक्षेपरुचीनल्पविद्यापरिग्रहान्
।
संप्राप्य वैयाकरणान् संग्रहेऽस्तमुपागते
॥४७७॥
कृतेऽथ पतञ्जलिना गुरुणा तीर्थदर्शिना
।
सर्वेषां न्यायबीजानां महाभाष्ये
निबन्धने ॥४७८॥
अलब्धगाधे गाम्भीर्यादुत्तान्
इव सौष्ठवात् ।
तस्मिन्नकृतबुद्धीनां नैवावास्थित
निश्चयः ॥४७९॥
बैजिसौभवहर्य्यक्षैः शुष्कतर्कानुसारिभिः
।
आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके
॥४८०॥
यः पतञ्जलिशिष्येभ्यो भ्रष्टो
व्याकरणागमः ।
काले स दाक्षिणात्येषु ग्रन्थमात्रे
व्यवस्थितः ॥४८१॥
पर्वतादागमं लब्ध्वा भाष्यबीजानुसारिभिः
।
स नीतो बहुशाखत्वं चन्द्राचार्यादिभिः
पुनः ॥४८२॥
न्यायप्रस्थानमार्गांस्तानभ्यस्य
स्वं च दर्शनम् ।
प्रणीतो गुरुणाऽस्माकमयमागमसंग्रहः
॥४८३॥
वर्त्मनामत्र केषाञ्चिद् वस्तुमात्रमुदाहृतम्
।
काण्डे तृतीये न्यक्षेण भविष्यति
विचारणा ॥४८४॥
प्रज्ञाविवेकं लभते भिन्नैरागमदर्शनैः
।
कियद्वा शक्यमुन्नेतुं स्वतर्कमनुधावता
॥४८५॥
तत्तदुत्प्रेक्षमाणानां पुराणैरागमैर्विना
।
अनुपासितवृद्धानां विद्या नातिप्रसीदति
॥४८६॥
॥*॥ इति श्रीभर्तृहरिप्रणीते वाक्यपदीये
वाक्यकाण्डं संपूर्णम् ॥*॥
॥*॥ इति शम् ॥*॥
|