॥*॥ श्रीः ॥*॥

---वाक्यपदीयम्---

तृतीयं काण्डम्

(पदकाण्डम्)

                     

जातिसमुद्देशः द्रव्यसमुद्देशः सम्बन्धसमुद्देशः भूयोद्रव्यसमुद्देशः गुणसमुद्देशः दिक्समुद्देशः साधनसमुद्देशः
क्रियासमुद्देशः कालसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः

 

*अथ जातिसमुद्देशः*

 

 

द्विधा कैश्चित् पदं भिन्नं चतुर्धा पञ्चाधापि वा ।

अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥१॥

 

पदार्थानामपोद्धारे जातिर्वा द्रव्यमेव वा ।

पदार्थौ सर्वशब्दानां नित्यावेवोपवर्णितौ ॥२॥

 

केषाञ्चित् साहचर्येण जातिः शक्त्युपलक्षणम् ।

खदिरादिष्वशक्तेषु शक्तः प्रतिनिधीयते ॥३॥

 

अस्वातन्त्र्यफलो बन्धिः प्रमाणादीव शिष्यते ।

अतो जात्यभिधानेऽपि शक्तिहीनं न गृह्यते ॥४॥

 

संश्लेषमात्रं बध्नातिर्यदि स्यात्तु विविक्षितः ।

शक्त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् ॥५॥

 

स्वा जातिः प्रथमं शब्दैः सर्वैरेवाभिधीयते ।

ततोऽर्थजातिरूपेषु तदध्यारोपकल्पना ॥६॥

 

यथा रक्ते गुणे तत्त्वं कषाये व्यपदिश्यते ।

संयोगिसन्निकषाच्च वस्त्रादिष्वपि गृह्यते ॥७॥

 

तथा शब्दार्थसंबन्धाच्छब्दे जातिरवस्थिता ।

व्यपदेशेऽर्थजातीनां जातिकार्याय कल्पते ॥८॥

 

जातिशब्दैकशेषे सा जातीनां जातिरिष्यते ।

शब्दजातय इत्यत्र तज्जातिश्शब्दजातिषु ॥९॥

 

या शब्दजातिः शब्देषु शब्देभ्यो भिन्नलक्षणा ।

जातिस्सा शब्दजातित्वमप्यतिक्रम्य वर्तते ॥१०॥

 

अर्थजात्यभिधानेऽपि सर्वे जात्यभिधायिनः ।

व्यापारलक्ष्णा यस्मात् पदार्थाः समवस्थिताः ॥११॥

 

जातौ पदार्थे जातिर्वा विशेषो वापि जातिवत् ।

शब्दैरपेक्ष्यते यस्मादतस्ते जातिवाचिनः ॥१२॥

 

द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वोऽर्थ उच्यते ।

द्रव्यधर्माश्रयाद् द्रव्यमतः सर्वोऽर्थ इष्यते ॥१३॥

 

अनुप्रवृत्तिधर्मो वा जातिस्स्यात् सर्वजातिषु ।

व्यावृत्तिधर्मसामान्यं विशेषे जातिरिष्यते ॥१४॥

 

संयोगिधर्मभेदेन देशे च परिकल्पिते ।

तेषु देशेषु सामान्यमाकाशस्यापि विद्यते ॥१५॥

 

अदेशानां घटादीनां देशास्संबन्धिनो यथा ।

आकाशस्याप्यदेशस्य देशास्संबन्धिनस्तथा ॥१६॥

 

भिन्नवस्त्वाश्रया बुद्धिः संयोगिष्वनुवर्तते ।

समवायिषु भेदस्य ग्रहणं विनिवर्तते ॥१७॥

 

अतः संयोगिदेशानां गौणत्वं परिकल्प्यते ।

अविवेकात् प्रदेशेभ्यो मुख्यत्वं समवायिनाम् ॥१८॥

 

अनुप्रवृत्तिरूपां यां प्राख्यातामाकृतिं विदुः ।

केचिद् व्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते ॥१९॥

 

भिन्ना इति परोपाधिरभिन्ना इति वा पुनः ।

भावात्मसु प्रपञ्चोऽयं संसृष्टेष्वेव जायते ॥२०॥

 

नैकत्वं नापि नानात्वं न सत्त्वं न च नास्तिता ।

आत्मतत्त्वेषु भावानामसंसृष्टेषु विद्यते ॥२१॥

 

सर्वशक्त्यात्मभूतत्वमेकस्यैवेति निर्णयः ।

भावानामात्मभेदस्य कल्पना स्यादनर्थिका ॥२२॥

 

तस्माद् द्रव्यादयः सर्वाः शक्तयो भिन्नलक्षणाः ।

संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः ॥२३॥

 

यथैव चेन्द्रियादीनामात्मभूता समग्रता ।

तथा सम्बन्धिसम्बन्धसंसर्गेऽपि प्रतीयते ॥२४॥

 

 

न तदुत्पद्यते किञ्चिद्यस्य जातिर्न विद्यते ।

आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका ॥२५॥

 

कारणेषु पदं कृत्वा नित्यानित्येषु जातयः ।

क्वचित्कार्येष्वभिव्यक्तिमुपयान्ति पुनः पुनः ॥२६॥

 

निर्वर्त्त्यमानं यत्कर्म जातिस्तत्रापि साधनम् ।

स्वाश्रयस्याभिनिष्पत्तौ सा क्रियाणां प्रयोजिका ॥२७॥

 

विधौ वा प्रतिषेधे वा ब्राह्मणत्वादिसाधनम् ।

व्यक्त्याश्रिताश्रिता जातेः संख्याजातिर्विशेषिका ॥२८॥

 

यथा जलादिभिर्व्यक्तं मुखमेवाभिधीयते ।

तथा द्रव्यैरभिव्यक्ता जातिरेवाभिधीयते ॥२९॥

 

यथेन्द्रियगतो भेद इन्द्रियग्रहणादृते ।

इन्द्रियार्थेष्वदृष्टोऽपि ज्ञानभेदाय कल्पते ॥३०॥

 

तथात्मरूपग्रहणात् केषाञ्चिद् व्यक्तयो विना ।

सामान्यज्ञानभेदानामुपयान्ति निमित्तताम् ॥३१॥

 

सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ।

सत्यं यत् तत्र सा जातिरसत्या व्यक्तव्यः स्मृताः ॥३२॥

 

सम्बन्धिभेदात् सत्तैव भिद्यमाना गवादिषु ।

जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥३३॥

 

तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ।

सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥३४॥

 

प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते ।

क्रमरूपस्य संहारे तत्सत्त्वमिति कथ्यते ॥३५॥

 

सैव भावविकारेषु षडवस्थाः प्रपद्यते ।

क्रमेण शक्तिभिः स्वाभिरेवं प्रत्यवभासते ॥३६॥

 

आत्मभूतः क्रमोऽप्यस्या यत्रेदं कालदर्शनम् ।

पौर्वापर्यादिरूपेण प्रविभक्तमिव स्थितम् ॥३७॥

 

तिरोभावाभ्युपगमे भावानां सैव नास्तिता ।

लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥३८॥

 

पूर्वस्मात्प्रच्युता धर्मादप्राप्ता चोत्तरं पदम् ।

तदन्तराले भेदानामाश्रयाज्जन्म कथ्यते ॥३९॥

 

आश्रयः स्वात्ममात्रा वा भावा वा व्यतिरेकिणः ।

स्वशक्तयो वा सत्ताया भेददर्शनहेतवः ॥४०॥

 

पृथिव्यादिष्वभिव्यक्तौ न संस्थानमपेक्षते ।

अनुच्छिन्नाश्रयाज्जातिरनित्येऽप्याश्रये स्थिता ॥४१॥

 

अनुच्छेद्याश्रयामेके सर्वां जातिं प्रचक्षते ।

न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः ॥४२॥

 

प्रकृतौ प्रविलीनेषु भेदेष्वेकत्वदर्शिनाम् ।

द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः ॥४३॥

 

ब्राह्मणत्वादयो भावाः सर्वप्राणिष्ववस्थिताः ।

अभिव्यक्ताः स्वकार्याणां साधका इत्यपि स्मृताः ॥४४॥

 

चित्रादिष्वप्यभिव्यक्तिर्जातीनां कैश्चिदिष्यते ।

प्राण्याश्रितास्तु ताः प्राप्तौ निमित्तं पुण्यपापयोः ॥४५॥

 

ज्ञानं त्वस्मद्विशिष्टानां तासु सर्वेन्द्रियं विदुः ।

अभ्यासान्मणिरूप्यादिविशेषेष्विव तद्विदाम् ॥४६॥

 

जात्युत्पलादिगन्धादौ भेदतत्त्वं यदाश्रितम् ।

तद्भावप्रत्ययैर्लोकेऽनित्यत्वान्नाभिधीयते ॥४७॥

 

अस्वशब्दाभिधानास्तु नरसिंहादिजातयः ।

सरूपावयवेवान्या तासु श्रुतिरवस्थिता ॥४८॥

 

जात्यवस्थापरिच्छेदे सङ्ख्या सङ्ख्यात्वमेव वा ।

विप्रकषेऽपि संसर्गादुपकाराय कल्पते ॥४९॥

 

लक्षणा शब्दसंस्कारे व्यापारः कार्यसिद्धये ।

सङ्ख्याकर्मादिशक्तीनां श्रुतिसाम्येऽपि दृश्यते ॥५०॥

 

न विना सङ्ख्यया कश्चित् सत्त्वभूतोऽर्थ उच्यते ।

अतः सर्वस्य निर्देशे सङ्ख्या स्यादविवक्षिता ॥५१॥

 

एकत्वं वा बहुत्वं वा केषाञ्चिदविवक्षितम् ।

तद्धि जात्यभिधानाय द्वित्वं तु स्याद्विवक्षितम् ॥५२॥

 

यद्येतौ व्याधितौ स्यातां देयं स्यादिदमौषधम् ।

इत्येवं लक्षणेऽर्थस्य द्वित्वं स्यादविवक्षितम् ॥५३॥

 

एकादिशब्दवाच्यायाः कर्मण्यङ्गत्वमिष्यते ।

सङ्ख्यायाः खनति द्वाभ्यामिति रूपाद्धि साश्रिता ॥५४॥

         

यजेत पशुनेत्यत्र संस्कारस्यापि सम्भवे ।

यथा जातिस्तथैकत्वं साधनत्वेन गम्यते ॥५५॥

 

लिङ्गात्तु स्याद् द्वितीयादेस्तदेकत्वं विवक्षित्वम् ।

एकार्थविषयत्वे च तल्लिङ्गं जातिसङ्ख्ययोः ॥५६॥

 

अन्यत्राविहितस्यैव स विधिः प्रथमं पशोः ।

क्रियायामङ्गभावश्च तत्त्वेतस्माद् विवक्षितम् ॥५७॥

 

ग्रहास्त्वन्यत्र विहिता भिन्नसङ्ख्याः पृथक् पृथक् ।

प्राजापत्या नवेत्येवमादिभेदसमन्विताः ॥५८॥

 

अङ्गत्वेन प्रतीतानां सम्मार्गे त्वङ्गिनां पुनः ।

निर्देशं प्रति या सङ्ख्या सा कथं स्याद्विवक्षिता ॥५९॥

 

नान्यत्र विधिरस्तीति संस्कारो नापि चाङ्गिता ।

हेतुः सङ्ख्याऽविवक्षायां यत्नात् सा हि विवक्षिता ॥६०॥

 

सम्मार्जने विशेषश्च न ग्रहे कश्चिदाश्रितः ।

विहितास्ते च संस्कार्याः सर्वेषामाश्रयस्ततः ॥६१॥

 

प्रत्याश्रयं समाप्तायां जातावेकेन चेत्क्रिया ।

पशुना न प्रकल्पेत तत् स्यादेवं प्रकल्पनम् ॥६२॥

 

एकेन च प्रसिद्धायां क्रियायां यदि सम्भवात् ।

पश्वन्तरमुपादेयमुपादानमनर्थकम् ॥६३॥

 

यथैवाहितगर्भायां गर्भाधानमनर्थकम् ।

तथैकेन प्रसिद्धायां पश्वन्तरमनर्थकम् ॥६४॥

 

तावतार्थस्य सिद्धत्वादेकत्वस्याव्यतिक्रमम् ।

केचिदिच्छन्ति न त्वत्र सङ्ख्याङ्गत्वेन गृह्यते ॥६५॥

 

द्वितीयादिषु यल्लिङ्गमुक्तं न्यायानुवादि तत् ।

न सङ्ख्या साधनत्वेन जातिवत्तेन गम्यते ॥६६॥

 

अन्वयव्यतिरेकाभ्यां सङ्ख्याभ्युपगमे सति ।

युक्तं यत्साधनत्वं स्यान्न त्वन्यार्थोपलक्षणम् ॥६७॥

 

साधनत्वे पदार्थस्य सामर्थ्यं न प्रहीयते ।

सङ्ख्या व्यापारधर्मोऽतस्तेन लिङ्गेन गम्यते ॥६८॥

 

अपूर्वस्य विधेयत्वात् प्राधान्यमवसीयते ।

विहितस्य परार्थत्वाच्छेषभावः प्रतीयते ॥६९॥

 

संमार्गस्य विधेयत्वादन्यत्र विहिते ग्रहे ।

विधिवाक्ये श्रुता सङ्ख्या लक्षणायां न बाध्यते ॥७०॥

 

विधिवाक्यान्तरे सङ्ख्या पशोर्नास्ति विरोधिनी ।

तस्मात् सगुण एवासौ सदैकत्वेन गम्यते ॥७१॥

 

निर्ज्ञातद्रव्यसंबन्धे यः कर्मण्युपदिश्यते ।

गुणस्तेनार्थिता तस्य द्रव्येणेव प्रतीयते ॥७२॥

 

कश्चिदेव गुणो द्रव्ये यथा सामर्थ्यलक्षणः ।

आधारोऽपि गुणस्यैवम् प्राप्तः सामर्थ्यलक्षणः ॥७३॥

 

तयोस्तु पृथगर्थित्वे सम्बन्धो यः प्रतीयते ।

न तस्मिन्नुपघातोऽस्ति कल्प्यमन्यन्न चाश्रुतम् ॥७४॥

 

क्रियया योऽभिसम्बन्धः स श्रुतिप्रापितस्तयोः ।

आश्रयाश्रयिणोर्वाक्यान्नियमस्त्ववतिष्ठते ॥७५॥

 

तत्र द्रव्यगुणाभावे प्रत्येकं स्याद् विकल्पनम् ।

श्रुतिप्राप्तो हि सम्बन्धो बलवान् वाक्यलक्षणात् ॥७६॥

 

यदा तु जातिः शक्तिर्वा क्रियां प्रत्युपदिश्यते ।

सामर्थ्यात् संनिधीयेते तत्र द्रव्यगुणौ तदा ॥७७॥

 

जातीनां च गुणानां च तुल्येऽङ्गत्वे क्रियां प्रति ।

गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः ॥७८॥

 

व्यक्तिशक्तेः समासन्ना जातयो न तथा गुणाः ।

साक्षाद् द्रव्यं क्रिययोगि गुणस्तस्माद् विकल्पते ॥७९॥

 

साम्येनान्यतराभावे विकल्पः कैश्चिदिष्यते ।

अतद्गुणोऽतश्छागः स्यान्मेषो वा तद्गुणो भवेत् ॥८०॥

 

जातेराश्रितसंख्यायाः प्रवृत्तिरुपलभ्यते ।

संख्याविशेषमुत्सृज्य क्वचित् सैव प्रवर्तते ॥८१॥

 

पराङ्गभूतं सामान्यं युज्यते द्रव्यसंख्यया ।

स्वार्थं प्रवर्तमानं तु न संख्यामवलम्बते ॥८२॥

 

यजेत पशुनेत्यत्र यज्यर्थायां पशुश्रुतौ ।

कृतार्थैकेन पशुना प्रधानं भवति क्रिया ॥८३॥

 

यावतां सम्भवो यस्य स कुर्यात्तावतां यदि ।

आलम्भनं गुणैस्तेन प्रधानं स्यात् प्रयोजितम् ॥८४॥

 

संमृज्यमानतन्त्रे तु ग्रहे यत्र क्रियाश्रुतिः ।

सङ्ख्याविशेष हणं नैव तत्राद्रियामहे ॥८५॥

 

शिष्यमाणपरे वाक्ये यदेकग्रहणं कृतम् ।

शेषे विशिष्टसंख्येऽपि व्यक्तं तल्लिङ्गदर्शनम् ॥८६॥

 

समासप्रत्ययविधौ यथा निपतिता श्रुतिः ।

गुणानां परतन्त्राणां न्यायेनैवोपपद्यते ॥८७॥

 

गुणेऽपि नाङ्गीक्रियते प्रधानान्तरसिद्धये ।

संख्या कर्ता तथा कर्मण्यविशिष्टः प्रतीयते ॥८८॥

 

यस्यान्यस्य प्रसक्तस्य नियमार्था पुनः श्रुतिः ।

निवृत्तौ चरितार्थत्वात् सङ्ख्या तत्राविवक्षिता ॥८९॥

 

सरूपसमुदायात्तु विभक्तिर्या विधीयते ।

एकस्तत्रार्थवान् सिद्धः समुदायस्य वाचकः ॥९०॥

 

प्रत्ययस्य प्रधानस्य समासस्यापि वा विधौ ।

सिद्धः संख्याविवक्षायां सर्वथानुग्रहो गुणे ॥९१॥

 

अभेदरूपं सादृश्यमात्मभूताश्च शक्तयः ।

जातिपर्यायवाचित्वमेषामप्युपवर्ण्यते ॥९२॥

 

दण्डोपादित्सया दण्डं यद्यपि प्रतिपद्यते ।

न तस्मादेव सामर्थ्यात् स दण्डीति प्रतीयते ॥९३॥

 

नेच्छानिमित्तादिच्छावानिति ज्ञानं प्रवर्तते ।

तस्मात् सत्यपि सामर्थ्यं बुद्धिरर्थान्तराश्रया ॥९४॥

 

स्वभावोऽव्यपदेश्यो वा सामर्थ्यं वावतिष्ठते ।

सर्वस्यान्ते यतस्तस्माद् व्यवहारो न कल्पते ॥९५॥

 

यदा भेदान् परित्यज्य बुद्ध्यैक इव गृह्यते ।

व्यक्त्यात्मैव तदा तत्र बुद्धिरेका प्रवर्तते ॥९६॥

 

भेदरूपैरनुस्यूतं यदैकमिव मन्यते ।

समूहावग्रहा बुद्धिर्बहुभ्यो जायते तदा ॥९७॥

 

सकृत् प्रवृत्तावेकत्वमावृत्तौ सदृशात्मताम् ।

भिन्नात्मिकानां व्यक्तीनां भेदापोहात् प्रपद्यते ॥९८॥

 

अनुप्रवृत्तेति यथा भिन्ना बुद्धिः प्रतीयते ।

अर्थो व्यावृत्तरूपोऽपि तथा तत्त्वेन गृह्यते ॥९९॥

 

सरूपाणां च सर्वेषां न भेदोपनिपातिनः ।

विद्यन्ते वाचकाः शब्दा नापि भेदोऽवधार्यते ॥१००॥

 

ज्ञानशब्दार्थविषया विशेषा ये व्यवस्थिताः ।

तेषां दुरवधारत्वाज्ज्ञानाद्येकत्वदर्शनम् ॥१०१॥

 

ज्ञानेष्वपि यथार्थेषु तथा सर्वेषु जातयः ।

संसर्गदर्शने सन्ति ताश्चार्थस्य प्रसाधिकाः ॥१०२॥

 

ज्ञेयस्थमेव सामान्यं ज्ञानानामुपकारकम् ।

न जातु ज्ञेयवज्ज्ञानं पररूपेण रूप्यते ॥१०३॥

 

यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते ।

ज्ञानाकारस्तथान्येन न ज्ञानेनोपगृह्यते ॥१०४॥

 

घटज्ञानमिति ज्ञानं घटज्ञानविलक्षणम् ।

घट इत्यपि यज्ज्ञानं विषयोपनिपाति तत् ॥१०५॥

 

यतो विषयरूपेण ज्ञानरूपं न गृह्यते ।

अर्थरूपविविक्तं च स्वरूपं नावधार्यते ॥१०६॥

 

॥*॥ इति जातिसमुद्देशः समाप्तः ॥*॥

 

----------------------------------------------------

 

 

 

*अथ द्रव्यसमुद्देशः*

 

 

 

आत्मा वस्तु स्वभावश्च शरीरं तत्त्वमित्यपि ।

द्रव्यमित्यस्य पर्यायास्तच्च नित्यमिति स्मृतम् ॥१॥

 

सत्यं वस्तु तदाकारैरसत्यैरवधार्यते ।

असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ॥२॥

 

अध्रुवेण निमित्तेन देवदत्तगृहं यथा ।

गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ॥३॥

 

सुवर्णादि यथा भिन्नं स्वैराकारैरपायिभिः ।

रुचकाद्यभिधानानां शुद्धमेवैति वाच्यताम् ॥४॥

 

आकारैश्च व्यवच्छेदात् सार्वार्थ्यमवरुध्यते ।

यथैव चक्षुरादीनां सामर्थ्यं नाडिकादिभिः ॥५॥

 

तेष्वाकारेषु यः शब्दस्तथाभूतेषु वर्तते ।

तत्त्वात्मकत्वात्तेनापि नित्यमेवाभिधीयते ॥६॥

 

न तत्त्वातत्त्वयोर्भेद इति वृद्धेभ्य आगमः ।

अतत्त्वमिति मन्यन्ते तत्त्वमेवाविचारितम् ॥७॥

 

विकल्परूपं भजते तत्त्वमेवाविकल्पितम् ।

न चात्र कालभेदोऽस्ति कालभेदश्च गृह्यते ॥८॥

 

यथा विषयधर्माणां ज्ञानेऽत्यन्तमसंभवः ।

तदात्मेव च तत् सिद्धमत्यन्तमतदात्मकम् ॥९॥

 

यथा विकाररूपाणां तत्त्वेऽत्यन्तमसम्भवः ।

तदात्मेव च तत्तत्त्वमत्यन्तमतदात्मकम् ॥१०॥

 

सत्यमाकृतिसंहारे यदन्ते व्यवतिष्ठते ।

तन्नित्यं शब्दवाच्यं तच्छब्दतत्त्वं न भिद्यते ॥११॥

 

न तदस्ति न तन्नास्ति न तदेकं न तत् पृथक् ।

न संसृष्टं विभक्तं वा विकृतं न च नान्यथा ॥१२॥

 

तन्नास्ति विद्यते तच्च तदेकं तत् पृथक् पृथक् ।

संसृष्टं च विभक्तं च विकृतं तत्तदन्यथा ॥१३॥

 

तस्य शब्दार्थसम्बन्धरूपमेकस्य दृश्यते ।

तद् दृश्यं दर्शनं द्रष्टा दर्शनं च प्रयोजनम् ॥१४॥

 

विकारापगमे सत्यं सुवर्णं कुण्डले यथा ।

विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ॥१५॥

 

वाच्या सा सर्वशब्दानां शब्दाश्च न पृथक् ततः ।

अपृथक्त्वे च सम्बन्धस्तयोर्नानात्मनोरिव ॥१६॥

 

आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् ।

विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ॥१७॥

 

अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते ।

तत्त्वे जन्मादिरूपत्वं विरुद्धमुपलभ्यते ॥१८॥

 

॥*॥ इति द्रव्यसमुद्देशः समाप्तः ॥*॥

 

-----------------------------------------------------

 

 

*अथ सम्बन्धसमुद्देशः*

 

 

ज्ञानं प्रयोक्तुर्बाह्योऽर्थः स्वरूपं च प्रतीयते ।

शब्दैरुच्चरितैस्तेषां सम्बन्धः समवस्थितः ॥१॥

 

प्रतिपत्तिर्भवत्यर्थे ज्ञाने वा संशयः क्वचित् ।

स्वरूपेषूपलब्धेषु व्यभिचारो न विद्यते ॥२॥

 

अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते ।

योगः शब्दार्थयोस्तत्त्वमित्यतो व्यपदिश्यते ॥३॥

 

नाभिधानं स्वधर्मेण सम्बन्धस्यास्ति वाचकम् ।

अत्यन्तपरतन्त्रत्वाद् रूपम् नास्यापदिश्यते ॥४॥

 

उपकारात् स यत्रास्ति धर्मस्तत्रानुगम्यते ।

शक्तीनामपि सा शक्तिर्गुणानामप्यसौ गुणः ॥५॥

 

तद्धर्मणोस्तु ताच्छब्द्यं संयोगसमवाययोः ।

तयोरप्युपकारार्था नियतास्तदुपाधयः ॥६॥

 

काचिदेव तु सावस्था कार्यप्रसवसूचिता ।

कस्यचित् केनचिद् यस्यां संयोग उपजायते ॥७॥

 

निरात्मकानामुत्पतौ नियमः क्वचिदेव यः ।

तेनैवाव्यपवर्गश्च प्राप्त्यभेदे स (च) यत्कृतः ॥८॥

 

आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते ।

यतश्चैकस्य नानात्वं तत्त्वं नाध्यवसीयते ॥९॥

 

तां शक्तिं समवायाख्यां शक्तीनामुपकारिणीम् ।

भेदाभेदावतिक्रान्तामन्यथैव व्यवस्थिताम् ॥१०॥

 

धर्मं सर्वपदार्थानामतीतः सर्वलक्षणः ।

अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः ॥११॥

 

पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते ।

सम्बन्धस्तेन शब्दार्थः प्रविभक्तुं न शक्यते ॥१२॥

 

समवायात् स्व आधारः स्वा च जातिः प्रतीयते ।

एकार्थसमवायात्तु गुणाः स्वाधार एव ये ॥१३॥

 

द्रव्यत्वसत्तासंयोगाः स्वान्याधारोपबन्धनाः ।

तत्प्रदेशविभागाश्च गुणा द्वित्वादयश्च ये ॥१४॥

 

केचित् स्वाश्रयसंयुक्ताः केचित् तत्समवायिनः ।

संयुक्तसमवेतेषु समवेतास्तथा परे ॥१५॥

 

स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते ।

समवायस्य संबन्धो नापरस्तत्र दृश्यते ॥१६॥

 

सम्बन्धस्याविशिष्टत्वान्न चात्र नियमो भवेत् ।

तस्माच्छब्दार्थयोर्नैव सम्बन्धः परिकल्पते ॥१७॥

 

अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः ।

क्वचित् स्वस्वामियोगाख्योऽभेदेऽन्यत्रापि स क्रमः ॥१८॥

 

प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम् ।

प्रयोक्ता प्रतिपत्ता वा न शब्दैरनुगच्छति ॥१९॥

 

अवाच्यमिति यद् वाच्यं तदवाच्यतया यदा ।

वाच्यमित्यवसीयेत वाच्यमेव तदा भवेत् ॥२०॥

 

अथाप्यवाच्यमित्येवं न तद् वाच्यं प्रतीयते ।

विवक्षितास्य यावस्था सैव नाध्यवसीयते ॥२१॥

 

तथान्यथा सर्वथा च यस्यावाच्यत्वमुच्यते ।

तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते ॥२२॥

 

न हि संशयरूपेऽर्थे शेषत्वेन व्यवस्थिते ।

अव्युदासे स्वरूपस्य संशयोऽन्यः प्रवर्तते ॥२३॥

 

यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः ।

प्रक्रम्यते तदा ज्ञानं स्वधर्मे नावतिष्ठते ॥२४॥

 

सर्वं मिथ्या ब्रवीमिति नैतद्वाक्यं विवक्ष्यते ।

तस्य मिथ्याभिधाने हि प्रक्रान्तोऽर्थो न गम्यते ॥२५॥

 

न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता ॥

प्रतिपाद्यं न तत्तत्र येनान्यत् प्रतिपाद्यते ॥२६॥

 

असाधिका प्रतिज्ञेति नेयमेवाभिधीयते ।

यथा तथास्य धर्मोऽपि नैव कैश्चित् प्रतीयते ॥२७॥

 

व्यापारस्यापरो यस्मान्न व्यापारोऽस्ति कश्चन ।

विरोधमनवस्थां वा तस्मात् सर्वत्र नाश्रयेत् ॥२८॥

 

इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा ।

अनादिरर्थैः शब्दानां सम्बन्धो योग्यता तथा ॥२९॥

 

असाधुरनुमानेन वाचकः कैश्चिदिष्यते ।

वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥३०॥

 

सम्बन्धशब्दे सम्बन्धो योग्यतां प्रति योग्यता ।

समयाद् योग्यतासंविन्मातापुत्रादियोगवत् ॥३१॥

 

शब्दः कारणमर्थस्य स हि तेनोपजन्यते ।

तथा च बुद्धिविषयादर्थाच्छब्दः प्रतीयते ॥३२॥

 

भोजनाद्यपि मन्यन्ते बुद्ध्यर्थे यदसम्भवि ।

बुद्ध्यर्थादेव बुद्ध्यर्थे जाते तदपि दृश्यते ॥३३॥

 

अनित्येष्वपि नित्यत्वमभिधेयात्मना स्थितम् ।

अनित्यत्वं स्वशक्तिर्वा सा च नित्यान्न भिद्यते ॥३४॥

 

शब्देनार्थस्य संस्कारो दृष्टादृष्टप्रयोजनः ।

क्रियते सोऽभिसम्बन्धमन्तरेण कथं भवेत् ॥३५॥

 

नावश्यमभिधेयेषु संस्कारः स तथाविधः ।

दृश्यते न च सम्बन्धस्तथाभूतो विवक्षितः ॥३६॥

 

सति प्रत्ययहेतुत्वं सम्बन्ध उपपद्यते ।

शब्दस्यार्थे यतस्तत्र सम्बन्धोऽस्तीति गम्यते ॥३७॥

 

नित्येऽनित्येपि वाच्येऽर्थे पुरुषेण कथञ्चन ।

सम्बन्धोऽकृतसम्बन्धैः शब्दैः कर्तुं न शक्यते ॥३८॥

 

व्यपदेशे पदार्थानामन्या सत्तौपचारिकी ।

सर्वावस्थासु सर्वेषामात्मरूपस्य दर्शिका ॥३९॥

 

स्फटिकादि यथा द्रव्यं भिन्नरूपैरुपाश्रयैः ।

स्वशक्तियोगात् सम्बन्धं ताद्रूप्येणोपगच्छति ॥४०॥

 

तद्वच्छब्दोऽपि सत्तायामस्यां पूर्वं व्यवस्थितः ।

धर्मैरुपैति सम्बन्धमविरोधिविरोधिभिः ॥४१॥

 

एवं च प्रतिषेध्येषु प्रतिषेधप्रकॢप्तये ।

आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते ॥४२॥

 

आत्मलाभस्य जन्माख्या सत्ता(लब्धा) लभ्यं च लभ्यते ।

यदि सज्जायते कस्मादथासज्जायते कथम् ॥४३॥

 

सतो हि गन्तुर्गमनं सति गम्ये प्रवर्तते ।

गन्तृवच्चेन्न जन्मार्थो न चेत् तद्वन्न जायते ॥४४॥

 

उपचर्य तु कर्तारमभिधानप्रवृत्तये ।

पुनश्च कर्मभावेन तां क्रियां च तदाश्रयाम् ॥४५॥

 

अथोपचारसत्तैवं विधेयास्तत्र लादयः ।

जन्मना तु विरोधित्वान्मुख्या सत्ता न विद्यते ॥४६॥

 

आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते ।

अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः ॥४७॥

 

प्राक् च सत्ताभिसंबन्धान्मुख्या सत्ता कथं भवेत् ।

असंश्च नास्तेः कर्ता स्यादुपचारस्तु पूर्ववत् ॥४८॥

 

तस्माद्भिन्नेषु धर्मेषु विरोधिष्वविरोधिनीम् ।

विरोधिख्यापनायैव शब्दैस्तैस्तैरुपाश्रिताम् ॥४९॥

 

अभिन्नकालामर्थेषु भिन्नकालेष्ववस्थिताम् ।

प्रवृत्तिहेतुं सर्वेषां शब्दानामौपचारिकीम् ॥५०॥

 

एतां सत्तां पदार्थौ हि न कश्चिदतिवर्तते ।

सा च सम्प्रतिसत्तायाः पृथग्भाष्ये निदर्शिता ॥५१॥

 

प्रदेशस्यैकदेशं वा परतो वा निरूपणम् ।

विपर्ययमभावं वा व्यवहारोऽनुवर्तते ॥५२॥

 

यथेन्द्रियस्य वैगुण्यात् सत्ताध्यारोपवानिव ।

जायते प्रत्ययोऽर्थेभ्यस्तथैवोद्देशजा मतिः ॥५३॥

 

अकृत्स्नविषयाभासं शब्दः प्रत्ययमाश्रितः ।

अर्थमाहान्यरूपेण स्वरूपेणानिरूपितम् ॥५४॥

 

रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ ।

ज्ञानं प्रत्यभिलापं च सदृशौ बालपण्डितौ ॥५५॥

 

सर्वार्थरूपता शुद्धिर्ज्ञानस्य निरुपाश्रया ।

ततोऽप्यस्य परां शुद्धिमेके प्राहुररूपिकाम् ॥५६॥

 

उपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता ।

कालुष्यमिव तत्तस्य संसर्गे व्यतिभेदजम् ॥५७॥

 

यथा च ज्ञानमालेखादशुद्धौ व्यवतिष्ठते ।

तथोपाश्रयवानर्थः स्वरूपाद् विप्रकृष्यते ॥५८॥

 

एवमर्थस्य शब्दस्य ज्ञानस्य च विपर्यये ।

भावाभावावभेदेन व्यवहारानुपातिनौ ॥५९॥

 

यथा भावमुपाश्रित्य तदभावोऽनुगम्यते ।

तथाऽभावमुपाश्रित्य तद्भावोऽप्यनुगम्यते ॥६०॥

 

नाभावो जायते भावो नैति भावोऽनुपाख्यताम् ।

एकस्मादात्मनोऽनन्यौ भावाभावौ विकल्पितौ ॥६१॥

 

अभावस्यानुपाख्यत्वात् कारणं न प्रसाधकम् ।

सोपाख्यस्य तु भावस्य कारणं किं करिष्यति ॥६२॥

 

तस्मात् सर्वमभावो वा भावो वा सर्वमिष्यते ।

न त्ववस्थान्तरं किञ्चिदेकस्मात् सत्यतः स्थितम् ॥६३॥

 

तस्मान्नाभावमिच्छन्ति ये लोके भाववादिनः ।

अभाववादिनो वापि न भावं तत्त्वलक्षणम् ॥६४॥

 

अद्वये चैव सर्वस्मिन् स्वभावादेकलक्षणे ।

परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते ॥६५॥

 

चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः ।

एवं द्वैविध्यमप्येतद् भावाभावव्यपाश्रयम् ॥६६॥

 

अविरोधी विरोधी वा सन्नसन् वापि युक्तितः ।

क्रमवानक्रमो वापि नाभाव उपपद्यते ॥६७॥

 

अविरोधी विरोधो वा सन्नसन्नपि तत्त्वतः ।

क्रमवानक्रमो वापि तेन भावो न विद्यते ॥६८॥

 

अभावे त्रिषु कालेषु न भेदस्यास्ति सम्भवः ।

तस्मिन्नसति भावेऽपि त्रैकाल्यं नावतिष्ठते ॥६९॥

 

आत्मतत्त्वपरित्यागः परतो नोपपद्यते ।

आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते ॥७०॥

 

तत्त्वे विरोधो नानात्व उपकारो न कश्चन ।

तत्त्वान्यत्वपरित्यागे व्यवहारो निवर्तते ॥७१॥

 

यत्र द्रष्टा च दृश्यं च दर्शनं वा विकल्पितम् ।

तस्यैवार्थस्य सत्यत्वं श्रितास्त्रय्यन्तवेदिनः ॥७२॥

 

सामान्यं वा विशेषं वा यस्मादाहुर्विशेषवत् ।

शब्दास्तस्मादसत्येषु भेदेष्वेव व्यवस्थिताः ॥७३॥

 

न ह्यभावस्य सद्भावे भावस्यात्मा प्रहीयते ।

न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते ॥७४॥

 

न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम् ।

न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते ॥७५॥

 

अभावो यदि वस्तु स्यात् तत्रेयं स्याद्विचारणा ।

ततश्च तदभावेऽपि स्याद्विचार्यमिदं पुनः ॥७६॥

 

अवस्तुत्वादतीतं यद् व्यवहारस्य गोचरम् ।

तत्र वस्तुगतो भेदो न निर्वचनमहति॥७७॥

 

अपदेऽर्थे पदन्यासः कारणस्य न विद्यते ।

अथ च प्रागसद्भावः कारणे सति दृश्यते ॥७८॥

 

का तस्य प्रागवस्थेति वस्त्वाश्रितमिदं पुनः ।

प्रागवस्थेति न ह्येतद् द्वयमप्यस्त्यवस्तुनि ॥७९॥

 

न चोर्ध्वमस्ति नास्तीति वचनायानिबन्धनम् ।

अलं स्यादपदस्थानमेतद्वाचः प्रचक्षते ॥८०॥

 

अत्यद्भुता त्वियं वृत्तिर्यदभागं यदक्रमम् ।

भावानां प्रागभूतानामात्मतत्त्वं प्रकाशते ॥८१॥

 

विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः ।

मुख्येनेव पदार्थेन व्यवहारो विधीयते ॥८२॥

 

भावशक्तिमतश्चैनां मन्यन्ते नित्यवादिनः ।

भावमेव क्रमं प्राहुर्न भावादपरः क्रमः ॥८३॥

 

क्रमान्न यौगपद्यस्य कश्चिद् भेदोऽस्ति तत्त्वतः ।

यथैव भावान्नाभावः कश्चिदन्योऽवसीयते ॥८४॥

 

कालस्याप्यपरं कालं निर्दिशन्त्येव लौकिकाः ।

न च निर्देशमात्रेण व्यतिरेकोऽनुगम्यते ॥८५॥

 

आधारं कल्पयन् बुद्ध्या नाभावे व्यवतिष्ठते ।

अवस्तुष्वपि नोत्प्रेक्षा कस्यचित् प्रतिबध्यते ॥८६॥

 

तस्माच्छक्तिविभागेन नित्यः सदसदात्मकः ।

एकोऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥८७॥

 

व्यवहारश्च लोकस्य पदार्थेः परिकल्पितैः ।

शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते ॥८८॥

 

         

॥*॥ इति सम्बन्धसमुद्देशः समाप्तः ॥*॥

 

--------------------------------------------------------

 

                 

 

*अथ भूयोद्रव्यसमुद्देशः*

 

 

संसर्गरूपात् सम्भूताः संविद्रूपादपोद्धॄताः ।

शास्त्रे विभक्ता वाक्यार्थात् प्रकृतिप्रत्ययार्थवत् ॥१॥

 

निमित्तभूताः साधुत्वे शास्त्रादनुमितात्मकाः ।

केचित् पदार्था वक्ष्यन्ते संक्षेपेण यथागमम् ॥२॥

 

वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।

द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ॥३॥

 

॥*॥ इति भूयोद्रव्यसमुद्देशः समाप्तः ॥*॥

 

--------------------------------------------------

 

 

 

                 

*अथ गुणसमुद्देशः*

 

 

संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते ।

गुणत्वं परतन्त्रत्वात्तस्य शास्त्र उदाहृतम् ॥१॥

 

द्रव्यस्याव्यपदेशस्य य उपादीयते गुणः ।

भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते ॥२॥

 

सर्वस्यैव प्रधानस्य न विना भेदहेतुना ।

प्रकर्षो विद्यते नापि शब्दस्योपैति वाच्यताम् ॥३॥

 

विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः ।

विशेषशब्दैरुच्यन्ते व्यावृत्तार्थाभिधायिभिः ॥४॥

 

वस्तूपलक्षणे तत्र विशेषो व्यापृतो यदि ।

प्रकर्षो नियमाभावात् स्यादविज्ञातहेतुकः ॥५॥

 

सर्वं च सर्वतोऽवश्यं नियमेन प्रकृष्यते ।

संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा ॥६॥

 

नोपेक्षते निमित्तं च प्रकर्षे व्यापृतं यदि ।

द्रव्यस्य स्यादुपादानं प्रकर्षं त्वनर्थकम् ॥७॥

 

सव्यापारो गुणस्तस्मात् स्वप्रकर्षनिबन्धनः ।

द्रव्यात्मानं भिनत्त्येव स्वप्रकर्षे(र्षं) निवेशयन् ॥८॥

 

अरूपं पररूपेण द्रव्यमाख्यायते यथा ।

अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा ॥९॥

 

॥*॥ इति गुणसमुद्देशः समाप्तः ॥*॥

 

--------------------------------------------

 

 

 

 

 

*अथ दिक्समुद्देशः*

 

 

दिक् साधनं क्रिया काल इति वस्त्वभिधायिनः ।

भक्तिरूपे पदार्थानामत्यन्तमनवस्थिताः ॥१॥

 

व्यतिरेकस्य यो हेतुरवधिप्रतिपाद्ययोः ।

ऋज्वित्येवं यतोऽन्येन विना बुद्धिः प्रवर्तते ॥२॥

 

कर्मणो जातिभेदानामभिव्यक्तिर्यदाश्रया ।

सा स्वैरुपाधिभिर्भिन्ना शक्तिर्दिगिति कथ्यते ॥३॥

 

परापरत्वे मूर्तानां देशभेदनिबन्धने ।

तत एव प्रकल्पेते क्रमरूपे तु कालतः ॥४॥

 

आकाशस्य प्रदेशेन भागैश्चान्यैः पृथक् पृथक् ।

सा संयोगविभागानामुपाधित्वाय कल्पते ॥५॥

 

दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते ।

शक्तयः खलु भावानामुपकारप्रभाविताः ॥६॥

 

प्रत्यस्तरूपा भावेषु दिक् पूर्वेत्यभिधीयते ।

पूर्वबुद्धिर्यतो दिक् सा समाख्यामात्रमन्यथा ॥७॥

 

स्वाङ्गाद् व्यवस्था या लोके न तस्या नियता दिशः ।

प्रत्यङ्गमुखस्य यत् पश्चात् तत् पुरस्ताद् विपर्यये ॥८॥

 

देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते ।

रूढमप्यपरत्वेन पूर्वमित्यभिधीयते ॥९॥

 

अतोऽभाषितपुंस्कत्वात् पुंवद्भावो न सिद्धयति ।

अस्मिन्नर्थे न शब्देन प्रसवः क्वचिदुच्यते ॥१०॥

 

दिक्शक्तेरभिधाने तु नियतं दिशि दर्शनम् ।

पूर्वादीनां यथा षष्टेर्जीवितस्यावधारणे ॥११॥

 

छायाभाभ्यां नगादीनां भागभेदः प्रकल्पते ।

अतद्धर्मस्वभावेषु भागभेदो न कल्पते ॥१२॥

 

परमाणोरभागस्य दिशा भागो विधीयते ।

भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ॥१३॥

 

अदेशाश्चाप्यभागाश्च निष्क्रमा निरुपाश्रयाः ।

भावाः संसर्गिरूपात् तु शक्तिभेदः प्रकल्पते ॥१४॥

 

निर्भागात्मकता तुल्या परमाणोर्घटस्य च ।

भागः शक्त्यन्तरं तत्र परिमाणं च यत्तयोः ॥१५॥

 

यतः प्रकल्पते भेदो भेदस्तत्रापि दृश्यते ।

अदृष्टोपरतिं भेदमतोऽयुक्ततरं विदुः ॥१६॥

 

सर्वत्र तस्य कार्यस्य दर्शनाद् विभुरिष्यते ।

विभुत्वमेतदेवाहुरन्यः कार्यवतां विधिः ॥१७॥

 

चैतन्यवत् स्थिता लोके दिक्कालपरिकल्पना ।

प्रकृतिं प्राणिनां तां हि कोऽन्यथा स्थापयिष्यति ॥१८॥

 

सङ्करो व्यवहाराणां प्रकृतेः स्याद् विपर्यये ।

तस्मात् त्यजन्निमान् भावान् पुनरेवावलम्बते ॥१९॥

 

तस्यास्तु शक्तेः पूर्वादिभेदो भावान्तराश्रयः ।

भिन्ना दिक् तेन भेदेन भेदायैवोपकल्पते ॥२०॥

 

अवधित्वेन चापेक्षायोगे दिग्लक्षणो विधिः ।

पूर्वमस्येति षष्ठ्येव दृष्टा धर्मान्तराश्रये ॥२१॥

 

पूर्वादीनां विपर्यासोऽदृष्टश्चावध्यसङ्करे ।

ऋज्वेतदस्येत्येतच्च लिङ्गं न व्यतिकीर्यते ॥२२॥

 

अन्तःकरणधर्मो वा बहिरेवं प्रकाशते ।

अस्यां त्वन्तर्बहिर्भावः प्रक्रियायां न विद्यते ॥२३॥

 

एकत्वमासां शक्तीनां नानात्वं वेति कल्पने ।

अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ॥२४॥

 

विकल्पातीततत्त्वेषु सङ्केतोपनिबन्धनाः ।

भावेषु व्यवहारा ये लोकस्तत्रानुगम्यते ॥२५॥

 

नैकत्वमस्त्यनानात्वं विनैकत्वेन नेतरत् ।

परमार्थे तयोरेष भेदोऽत्यन्तं न विद्यते ॥२६॥

 

न शक्तीनां तथा भेदो यथा शक्तिमतां स्थितिः ।

न च लौकिकमेकत्वं तासामात्मसु विद्यते ॥२७॥

 

नैकत्वं व्यवतिष्ठेत नानात्वं चेन्न कल्पयेत् ।

नानात्वं चावहीयेत यद्येकत्वं न कल्पयेत् ॥२८॥

 

॥*॥ इति दिक्समुद्देशः समाप्तः ॥*॥

 

-----------------------------------------------

 

 

 

 

*अथ साधनसमुद्देशः*

 

 

स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे ।

क्रियाणामभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥१॥

 

शक्तिमात्रासमूहस्य विश्वस्यानेकधर्म्मणः ।

सर्वदा सर्वथा भावात् क्वचित् किञ्चिद् विवक्ष्यते ॥२॥

 

साधनव्यवहारश्च बुद्ध्यवस्थानिबन्धनः ।

सन्नसन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥३॥

 

बुद्ध्या समाहितैकत्वान् पञ्चालान् कुरुर्भियदा ।

पुनर्विभजते वक्ता तदाऽपायः प्रतीयते ॥४॥

 

शब्दोपहितरूपाँश्च बुद्धेर्विषयतां गतान् ।

प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ॥५॥

 

बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः ।

अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥६॥

 

व्यक्तौ पदार्थे शब्दादेर्जन्यमानस्य कर्मणः ।

साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥७॥

 

स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् ।

निरीहेष्वपि भावेषु कल्पनोपनिबन्धनम् ॥८॥

 

शक्तयः शक्तिमन्तश्च सर्वे संसर्गवादिनाम् ।

भावास्तेष्वस्वशब्देषु साधनत्वं निरूप्यते ॥९॥

 

घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् ।

रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥१०॥

 

स्वैः सामान्यविशेषैश्च शक्तिमन्तो रसादयः ।

नियतग्रहणा लोके शक्तयस्तास्तथाश्रयैः ॥११॥

 

इन्द्रियार्थमनःकर्तृसम्बन्धः साधनं क्वचित् ।

यद् यदा यदनुग्राहि तत् तदा तत्र साधनम् ॥१२॥

 

स्वशब्दैरभिधाने तु स धर्मो नाभिधीयते ।

विभक्त्यादिभिरेवासावुपकारः प्रतीयते ॥१३॥

 

निमित्तभावो भावानामुपकारार्थमाश्रितः ।

नतिरावर्जनेत्येवं सिद्धः साधनमिष्यते ॥१४॥

 

स तेभ्यो व्यतिरिक्तो वा तेषामात्मैव वा तथा ।

व्यतिरेकमुपाश्रित्य साधनत्वेन कल्प्त्यते ॥१५॥

 

सन्दर्शनं प्रार्थनायां व्यवसाये त्वनन्तरा ।

व्यवसायस्तथारम्भे साधनत्वाय कल्पते ॥१६॥

 

पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता ।

सन्दर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥१७॥

 

निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके ।

व्यापारभेदापेक्षायां करणादित्वसम्भवः ॥१८॥

 

पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वमुच्यते ।

अयमस्यामियं त्वस्मादिति भेदो विवक्षया ॥१९॥

 

गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः ।

न्यक्तायामपि संपूर्णैः स्वैर्व्यापारैः समन्विताः ॥२०॥

 

करणत्वादिभिर्ज्ञाताः क्रियाभेदानुपातिभिः ।

स्वतन्त्र्यमुत्तरं लब्ध्वा प्रधाने यान्ति कर्तृत्वाम् ॥२१॥

 

यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् ।

तेषु भृत्तौ तु लभते राजा जयपराजयौ ॥२२॥

 

तथा कर्त्रा नियुक्तेषु सर्वेष्वेकार्थकारिषु ।

कर्तृत्वं करणादित्वैरुत्तरं न विरुध्यते ॥२३॥

 

अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते ।

आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥२४॥

 

द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ।

कर्त्ता कर्त्रन्तरापेक्षः क्रियायां हेतुरिष्यते ॥२५॥

 

क्रियायै करणं तस्य दृष्टः प्रतिनिधिस्तथा ।

हेत्वर्था तु क्रिया तस्मान्न स प्रतिनिधीयते ॥२६॥

 

प्रातिलोम्यानुलोम्याभ्यां हेतुरर्थस्य साधकः ।

तादर्थ्यमानुलोम्येन हेतुत्वानुगतं तु तत् ॥२७॥

 

सर्वत्र सहजा शक्तिर्यावद्द्रव्यमवस्थिता ।

क्रियाकाले त्वभिव्यक्तेराश्रयादुपकारिणी ॥२८॥

 

कुड्यस्यावरणे शक्तिरस्यादीनां विदारणे ।

सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥२९॥

 

स्वाङ्गसंयोगिनः पाशाः दैत्यानां वारुणा यथा ।

व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस्तथा ॥३०॥

 

तैक्ष्ण्यगौरवकाठिन्यसंस्थानैः स्वैरसिर्यदा ।

छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥३१॥

 

प्राङ्निमितान्तरोद्भूतं क्रियायाः कैश्चिदिष्यते ।

साधनं सहजं कैश्चित् क्रियान्यैः पूर्वमिष्यते ॥३२॥

 

प्रवृत्तिरेव प्रथमं क्वचिदप्यनपाश्रिता ।

शक्तीरेकाधिकरणे स्रोतोवदपकर्षिति ॥३३॥

 

अपूर्वं कालशक्तिं वा क्रियां वा कालमेव वा ।

तमेवंलक्षणं भावं केचिदाहुः कथञ्चन ॥३४॥

 

नित्याः षट् शक्तयोऽन्येषां भेदाभेदसमन्विताः ।

क्रियासंसिद्धयेऽर्थेषु जातिवत् समवस्थिताः ॥३५॥

 

द्रव्याकारादिभेदेन ताश्चापरिमिता इव ।

दृश्यन्ते तत्त्वमासां तु षट् शक्तीर्नातिवर्तते ॥३६॥

 

निमित्तभेदादेकैव भिन्ना शक्तिः प्रतीयते ।

षोढा कर्तृत्वमेवाहुस्तत्प्रवृत्तेर्निबन्धनम् ॥३७॥

 

तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तदुच्यते ।

शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥३८॥

 

परमार्थे तु नैकत्वं पृथक्त्वाद्भिन्नलक्षणम् ।

पृथक्त्वैकत्वरूपेण तत्त्वमेव प्रकाशते ॥३९॥

 

यत् पृथक्त्वमसन्दिग्धं तदेकत्वान्न भिद्यते ।

यदेकत्वमसन्दिग्धं तत पृथक्त्वान्न भिद्यते ॥४०॥

 

द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः ।

अन्तःकरणत्त्वस्य भागा बहिरवस्थिताः ॥४१॥

 

कालविच्छेदरूपेण तदेवैकमवस्थितम् ।

स ह्यपूर्वापरोऽभागः पररूपेण लक्ष्यते ॥४२॥

 

दृष्टो ह्यव्यतिरेकेऽपि व्यतिरेकोऽन्वयेऽसात ।

वृक्षाद्यर्थान्वस्नस्माद् विभक्व्वर्थोऽन्य द्रष्यते ॥४३॥

 

सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः ।

षट् कर्माख्यादिभेदेन शेषभेदस्तु सप्तमी ॥४४॥

 

निर्वर्त्यं च विकार्यं च पाप्यं चेति त्रिधा मतम् ।

तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् ॥४५॥

 

औदासीन्येन यत् पाप्यं यच्च कर्तुरनीप्सितम् ।

संज्ञान्तरैरनाख्यातं यद् यच्चाप्यन्यपूर्वकम् ॥४६॥

 

सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी ।

यस्य नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥४७॥

 

प्रकृतेस्तु विवक्षायां विकार्यं कैश्चिदन्यथा ।

निर्वर्त्यं विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥४८॥

 

यदसज्जायते सद् वा जन्मना यत् प्रकाश्यते ।

तन्निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥४९॥

 

प्रकृत्युच्छेदसंभूतं किञ्चित् काष्ठादिभस्मवत् ।

किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥५०॥

 

क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते ।

दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥५१॥

 

विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः ।

केषाञ्चित् तदभिव्यक्तिसिद्धिर्दृष्टिविषादिषु ॥५२॥

 

आभासोपगमो व्यक्तिः सोढत्वमिति कर्मणः ।

विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥५३॥

 

निर्वृत्त्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम् ।

कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः ॥५४॥

 

तद्व्यापारविवेकेऽपि स्वव्यापारे व्यवस्थितम् ।

कर्मापदिष्टान् लभते क्वचिच्छास्त्राश्रयान् विधीन् ॥५५॥

 

निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् ।

निवर्तमाने कर्मत्वे स्वे कतृत्वेऽवतिष्ठते ॥५६॥

 

तानि धात्वन्तराण्येव पचिसिद्ध्यतिवद् विदुः ।

भेदेऽपि तुल्यरूपत्वादेकत्वपरिकल्पना ॥५७॥

 

एकदेशे समूहे च व्यापाराणां पचादयः ।

स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥५८॥

 

न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते ।

न्यग्भावना न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते ॥५९॥

 

अवस्थां पञ्चमीमाहुर्ण्यन्ते तां कर्मकर्तरि ।

निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते ॥६०॥

 

ब्रवीति पचतेरर्थं सिद्ध्यतिर्न विना णिचम् ।

स ण्यन्तः पचतेरर्थे प्रकृते व्यवतिष्ठते ॥६१॥

 

केषाञ्चिद् देवदत्तादेर्व्यापारो यः सकर्मके ।

स विना देवदत्तेः कटादिषु विवक्ष्यते ॥६२॥

 

निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् ।

प्रेषणान्तरसम्बन्धे ण्यन्ते तेनाभिधीयते ॥६३॥

 

सदृशादिषु यत् कर्म कर्तृत्वं प्रतिपद्यते ।

आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥६४॥

 

कुतश्चिदाहृत्य पदमेवं च परिकल्पने ।

कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम् ॥६५॥

 

विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।

क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकाश्यते ॥६६॥

     

कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः ।

सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते ॥६७॥

 

आधारत्वमिव प्राप्तास्ते पुनर्द्रव्यकर्मसु ।

कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वमुत्तरम् ॥६८॥

 

अतस्तैः कर्मभिर्धातुर्युक्तोऽद्रव्यैरकर्मकः ।

लस्य कर्मणि भावे निमित्तत्वाय कल्पते ॥६९॥

 

सर्वं वाऽकथितं कर्म भिन्नकक्ष्यं प्रतीयते ।

धात्वर्थोद्देशभेदेन तन्नेप्सिततमं किल ॥७०॥

 

प्रधानकर्म कथितं यत् क्रियायाः प्रयोजकम् ।

तत्सिद्धये क्रियायुक्तमन्यत् त्वकथितं स्मृतम् ॥७१॥

 

दुह्यादिवन्नयत्यादौ कर्मत्वमकथाश्रयम् ।

आख्यातानुपयोगे तु नियमाच्छेष इष्यते ॥७२॥

 

अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् ।

सिद्धं पूर्वेण कर्मत्वं णिजन्ते नियमस्तथा ॥७३॥

 

करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा ।

कर्मणोऽपि स्वकक्ष्यायां न स्यादतिशयस्तथा ॥७४॥

 

कर्मणस्त्वाप्तुमिष्टत्व आश्रितेऽतिशयो यतः ।

आश्रीयते ततोऽत्यन्तं भेदः पूर्वेण कर्मणा ॥७५॥

 

णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते ।

नयत्यादौ तथा कर्ता निष्क्रियोऽपि प्रयुज्यते ॥७६॥

 

भेदवाक्यं तु यत् ण्यन्ते नीदुहिप्रकृतौ च यत् ।

शब्दान्तरत्वान्नैवास्ति संस्पर्शस्तस्य धातुना ॥७७॥

 

यथैवैकमपादनां शास्त्रे भेदेन दर्शितम् ।

तथैकमेव कर्मापि भेदेन प्रतिपादितम् ॥७८॥

 

निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः ।

क्रियाणामेव साध्यत्वात् सिद्धरूपोऽभिधीयते ॥७९॥

 

अहितेषु यथा लौल्यात् कर्तुरिच्छोपजायते ।

विषादिषु भयादिभ्यस्तथैवासौ प्रवर्तते ॥८०॥

 

प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् ।

शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ॥८१॥

 

प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।

यदा गुणे तदा तद्वदनुक्तापि प्रकाशते ॥८२॥

 

पचावनुक्तं यत्कर्म क्त्वान्ते भावाभिधायिनि ।

भुजौ शक्त्यन्तरेऽप्युक्ते तद्वद्धर्मः प्रकाशते ॥८३॥

 

इषेश्च गमिसंस्पर्शाद् ग्रामे यो लो विधीयते ।

तत्रेषिणैव निर्भोगः क्रियते गतिकर्मणः ॥८४॥

 

पक्त्वा भुज्यत इत्यत्र केषाञ्चिन्न व्यपेक्षते ।

ओदनं पचतिः सोऽसावनुमानात् प्रतीयते ॥८५॥

 

तत्राभिनिविशौ कर्म यत्तिङन्तेऽभिधीयते ।

क्त्वान्तेऽधिकरणत्वेऽपि न तत्रेच्छन्ति सप्तमीम् ॥८६॥

 

यन्निर्वृत्ताश्रयं कर्म प्राप्तेरप्रचितं पुनः ।

भक्ष्यादिविषयापत्त्या भिद्यमानं तदीप्सितम् ॥८७॥

 

धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् ।

प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥८८॥

 

भेदा य एते चत्वारः सामान्येन प्रदर्शिताः ।

ते निमित्तादिभिदेन भिद्यन्ते बहुधा पुनः ॥८९॥

 

--------------------------------------------------

 

            -अथ कर्त्रधिकारः-

 

 

क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।

विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥९०॥

 

वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् ।

स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥९१॥

 

करणेषु तु संस्कारमारभन्ते पुनः पुनः ।

विनियोगविशेषांश्च प्रधानस्य प्रसिद्धये ॥९२॥

 

स्वकक्ष्यासु प्रकर्षश्च करणानां न विद्यते ।

आश्रितातिशयत्वं तु परतस्तत्र लक्षणम् ॥९३॥

 

स्वातन्त्र्येऽपि प्रयोक्तार आरादेवोपकुर्वते ।

करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥९४॥

 

क्रियासिद्धौ प्रकर्षो वा न्यग्भावस्त्वेव कर्तरि ।

सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥९५॥

 

अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः ।

तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वैधात्मा व्यवतिष्ठते ॥९६॥

 

आत्मभेदेऽपि सत्येवमेकोऽर्थः स तथा स्थितः ।

तदाश्रयत्वाद् भेदेऽपि कर्तृत्वं बाधकं ततः ॥९७॥

 

यथा च सन्निधानेन करणत्वं प्रतीयते ।

तथैवासन्निधानेऽपि क्रियासिद्धेः प्रतीयते ॥९८॥

 

स्तोकस्य वाभिनिर्वृत्तेरनिर्वृत्तेश्च तस्य वा ।

प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥९९॥

 

धर्माणां तद्वत्ता भेदादभेदाच्च विशिष्यते ।

क्रियाऽवधेरवच्छेदविशेषाद् भिद्यते यथा ॥१००॥

 

----------------------------------------------------

 

                -अथ कर्त्तृविचारः-

 

 

प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि ।

तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ॥१०१॥

 

अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् ।

आरादप्युपकारित्वे स्वातन्त्र्यं कर्तुरुच्यते ॥१०२॥

 

धर्मैरभ्युदितैः शब्दे नियमो न तु वस्तुनि ।

कर्तुर्धर्मविवक्षायां शब्दात् कर्ता प्रतीयते ॥१०३॥

 

एकस्य बुद्ध्यवस्थाभिर्भेदे च परिकल्पिते ।

कर्मत्वं करणत्वं च कर्तृत्वं चोपजायते ॥१०४॥

 

उत्पत्तेः प्रागसद्भावो बुद्ध्यवस्थानिबन्धनः ।

अविशिष्टः सताऽन्येन कर्ता भवति जन्मनः ॥१०५॥

 

कारणं कार्यभावेन यथा वा व्यवतिष्ठते ।

कार्यशब्दं तथा लब्ध्वा कार्यत्वेनाय जायते ॥१०६॥

 

यथाहेः कुण्डलीभावो व्यग्राणां च समग्रता ।

तथैव जन्मरूपत्वं सतामेके प्रचक्षते ॥१०७॥

 

विभक्तयोनि यत्कार्यं कारणेभ्यः प्रवर्तते ।

स्वा जातिर्व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥१०८॥

 

भावेष्वेव पदन्यासः प्रज्ञाया वाच एव वा ।

नास्तीत्यप्यपदे नास्ति न चासद्भिद्यते ततः ॥१०९॥

 

बुद्धिशब्दौ प्रवर्तेते यथा भूतेषु वस्तुषु ।

तेषामन्येन तत्त्वेन व्यवहारो न विद्यते ॥११०॥

 

आकाशस्य यथा भेदश्छायायाश्चलनं यथा ।

जन्मनाशावभेदेऽपि तथा कैश्चित् प्रकल्पितौ ॥१११॥

 

यथैवाकाशनास्तित्वमसन्मूर्तिनिरूपितम् ।

तथैव मूर्तिनास्तित्वमसदाकाशनिश्रयम् ॥११२॥

 

यथा तदर्थैर्व्यापारैः क्रियात्मा व्यपदिश्यते ।

अभेदग्रहणादेष कार्यकारणयोः क्रमः ॥११३॥

 

विकारो जन्मनः कर्ता प्रकृतिर्वेति संशये ।

भिद्यते प्रतिपत्तॄणां दर्शनं लिङ्गदर्शनैः ॥११४॥

 

कॢपि सम्पद्यमाने या चतुर्थी सा विकारतः ।

सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥११५॥

 

वाक्ये सम्पद्यतेः कर्ता संघच्व्यन्तस्य(संघोऽच्व्यन्तः स) कथ्यते ।

वृत्तौ संघीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥११६॥

 

अत्वं सम्पद्यते यस्त्वं न तस्मिन् युष्मदाश्रया ।

प्रकृतिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥११७॥

 

पूर्वामवस्थामजहत्संस्पृशन् धर्ममुत्तरम् ।

समूर्च्छित इवार्थात्मा जायमानोऽभिधीयते ॥११८॥

 

सव्यापारतरः कश्चित् क्वचिद्धर्मः प्रतीयते ।

संसृज्यन्ते च भावानां भेदवत्योऽपि शक्तयः ॥११९॥

 

विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये ।

गम्येत साधनं ह्यत्र सव्यापारं प्रतीयते ॥१२०॥

 

त्वमन्यो भवसीत्येषा तत्र स्यात् परिकल्पना ।

राज्ञि भृत्यत्वमापन्ने यथा तद्वद्गतिर्भवेत् ॥१२१॥

 

सम्भावनात् क्रियासिद्धौ कर्तृत्वेन समाश्रितः ।

क्रियायामात्मसाध्यायां साधनानां प्रयोजकः ॥१२२॥

 

प्रयोगमात्रे न्यग्भावं स्वातन्त्र्यादेव निश्चितः ।

अविशिष्टो भवत्यन्यैः स्वतन्त्रैर्मुक्तसंशयैः ॥१२३॥

 

निमित्तेभ्यः प्रवर्तन्ते स्दर्व एव स्वभूतये ।

अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये ॥१२४॥

 

        ॥ इति साधनसमुद्देशे कर्त्रधिकारः ॥

 

---------------------------------------------

 

                -अथ हेत्वधिकारः-

 

 

प्रेषणाध्येषणे कुर्वंस्तत्समर्थानि चाचरन् ।

कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते ॥१२५॥

 

द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर्लोट् विधीयते ।

सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः ॥१२६॥

 

गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः ।

नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥१२७॥

 

क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः ।

कर्मार्था च क्रियोत्पत्तिसंस्कारप्रतिपत्तिभिः ॥१२८॥

 

        ॥ इति साधनसमुद्देशे हेत्वधिकारः ॥

 

-----------------------------------------------

 

                -अथ सम्प्रदानाधिकारः-

 

 

अनिराकरणात् कर्त्तुस्त्यागाङ्गं कर्मणेप्सितम् ।

प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम् ॥१२९॥

 

हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् ।

रुच्यर्थादिषु शास्त्रेण सम्प्रदानाख्यमुच्यते ॥१३०॥

 

भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति ।

परस्याङ्गस्य कर्मत्वान्न क्रियाग्रहणं कृतम् ॥१३१॥

 

क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् ।

तदा कर्म क्रियायोगात् स्वाख्ययैवोपचर्यते ॥१३२॥

 

भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता ।

तस्माद् गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥१३३॥

 

विकल्पेनैव सर्वत्र संज्ञे स्यातामुभे यदि ।

आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥१३४॥

 

त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम् ।

आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया ॥१३५॥

 

        ॥ इति साधनसमुद्देशे सम्प्रदानाधिकारः ॥

 

------------------------------------------------

 

                -अथापादानाधिकारः-

 

 

निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा ।

अपेक्षितक्रियं चेति त्रिधापादानमुच्यते ॥१३६॥

 

संयोगिभेदाद्भिन्नात्मा गमिरेव भ्रमिर्यथा ।

ध्रुवावधिरपायोऽपि समवेतस्तथाऽध्रुवे ॥१३७॥

 

द्रव्यस्वभावो न ध्रौव्यमिति सूत्रे प्रतीयते ।

अपायविषयं ध्रौव्यं यत्तु तावद्विवक्षितम् ॥१३८॥

 

सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः ।

आविष्टं यदपायेन तस्याध्रौव्यं प्रचक्षते ॥१३९॥

 

उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मजे ।

विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥१४०॥

 

मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक् ।

मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् ॥१४१॥

 

अभेदेन क्रियैका तु द्विसाध्या चेद्विवक्षिता ।

मेषावपाये कर्तारौ यद्यन्यो विद्यतेऽवधिः ॥१४२॥

 

गतिर्विना त्ववधिना नापाय इति गम्यते ।

वृक्षस्य पर्णं पततीत्येवं भाष्ये निदर्शितम् ॥१४३॥

 

भेदाभेदौ पृथग्भावः स्थितिश्चेति विरोधिनः ।

युगपन्न विवक्ष्यन्ते सर्वे धर्मा वलाहके ॥१४४॥

 

धनुषा विध्यतीत्यत्र विनापायविवक्षया ।

करणत्वं यतो नास्ति तस्मात्तदुभयं सह ॥१४५॥

 

एकैव सा सती शक्तिर्द्विरूपा व्यवतिष्ठते ।

निमित्तं(त्तात्) संज्ञयोस्तत्र परया बाध्यतेऽपरा ॥१४६॥

 

निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः ।

उपात्तापेक्षितापायः सोऽबुधप्रतिपत्तये ॥१४७॥

 

        ॥ इति साधनसमुद्देशे अपादानाधिकारः ॥

 

----------------------------------------------

 

                -अथाधिकरणाधिकारः-

 

 

कर्तृकर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् ।

उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥१४८॥

 

उपश्लेषस्य चाभेदस्तिलाकाशकटादिषु ।

उपकारास्तु भिद्यन्ते संयोगिसमवायिनाम् ॥१४९॥

 

अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता ।

दिग्विशेषादव(प)च्छेद इत्याद्या भेदहेतवः ॥१५०॥

 

आकाशमेव केषाञ्चिद् देशभेदप्रकल्पनात् ।

आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥१५१॥

 

इदमत्रेति भावानामभावान्न प्रकल्पते ।

व्यपदेशस्तमाकाशनिमित्तं सम्प्रचक्षते ॥१५२॥

 

कालात् क्रिया विभज्यन्ते आकाशात् सर्वमूर्तयः ।

एतावांश्चैव भेदोऽयमभेदोपनिबन्धनः ॥१५३॥

 

यद्यप्युपवसिर्देशविशेषमनुरुध्यते ।

शब्दप्रवृत्तिधर्मात्तु कालमेवावलम्बते ॥१५४॥

 

वसतावप्रयुक्तेऽपि देशोऽधिकरणं ततः ।

अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥१५५॥

 

        ॥ इति साधनसमुद्देशे अधिकरणाधिकारः ॥

 

----------------------------------------------

 

                -अथ शेषाधिकारः-

 

 

सम्बन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः ।

श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते ॥१५६॥

 

द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।

तत्राभिधीयमानः सन् प्रधानेऽप्युपभुज्यते ॥१५७॥

 

निमित्तनियमः शब्दात् सम्बन्धस्य न गृह्यते ।

कर्मप्रवचनीयैस्तु स विशेषेऽवरुध्यते ॥१५८॥

 

साधनैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः ।

प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥१५९॥

 

निष्ठायां कर्मविषया षष्ठी न (च) प्रतिषिध्यते ।

शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥१६०॥

 

अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते ।

व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ॥१६१॥

 

प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् ।

सहयोगे स्वयोगेऽतः प्रधानत्वं न हीयते ॥१६२॥

 

        ॥ इति साधनसमुद्देशे शेषाधिकारः ॥

 

---------------------------------------------

 

            -अथ परिशिष्टः प्रथमार्थविचारः-

 

 

सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः ।

प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते ॥१६३॥

 

सम्बोधनं न वाक्यार्थ इति वृद्धेभ्य आगमः ।

उद्देशेन विभक्त्यर्था वाक्यार्थात् समपोद्धृताः ॥१६४॥

 

विभक्त्यर्थेऽव्ययीभाववचनादवसीयताम् ।

अन्यो द्रव्याद् विभक्त्यर्थः सोऽव्ययेनाभिधीयते ॥१६५॥

 

द्रव्यं तु यद् यथाभूतम् तदत्यन्तं तथा भवेत् ।

क्रियाभेदेऽपि तस्यासौ द्रव्यात्मा नावहीयते ॥१६६॥

 

तस्माद् यत् करणं द्रव्यं तत् कर्म न पुनर्भवेत् ।

सर्वस्य चान्यथाभावस्तस्य द्रव्यात्मनो भवेत् ॥१६७॥

 

॥*॥ इति साधनसमुद्देशः समाप्तः ॥*॥

 

--------------------------------------------------

 

 

 

*अथ क्रियासमुद्देशः*

                     

 

 

यावत् सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।

आश्रितक्रमरूपत्वात् तत् क्रियेत्यभिधीयते ॥१॥

 

कार्यकारणभावेन ध्वनतीत्याश्रितक्रमः ।

ध्वनिः क्रमनिवृत्तौ तु ध्वनिरित्येव कथ्यते ॥२॥

 

श्वेतते श्वेत इत्येतच्छवेतत्वेन प्रकाशते ।

आश्रितक्रमरूपत्वादभिधानं प्रवतते ॥३॥

 

गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।

बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥४॥

 

समूहः स तथाभूतः प्रतिभेदं समूहिषु ।

समाप्यते ततो भेदे कालभेदस्य सम्भवः ॥५॥

 

क्रमात् सदसतां तेषामात्मानो न समूहिनाम् ।

सद्वस्तुविषयैयान्ति सम्बन्धं चक्षुरादिभिः ॥६॥

 

यथा गौरिति सङ्घातः सवो नेन्द्रियगोचरः ।

भागशस्तूपलब्धस्य बुद्धौ रूपं निरूप्यते ॥७॥

 

इन्द्रियैरन्यथाप्राप्तौ भेदांशोपनिपातिभिः ।

अलातचक्रवद् रूपं क्रियाणां परिकल्प्यते ॥८॥

 

यथा च भागाः पचतेरुदकासेचनादयः ।

उदकासेचनादीनां ज्ञेया भागास्तथापरे ॥९॥

 

यश्चापकषपयन्तमनुप्राप्तः प्रतीयते ।

तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते ॥१०॥

 

पूवोत्तरैस्तदा भागैः समवस्थापितक्रमः ।

एकः सोऽप्यसदध्यासादाख्यातैरभिधीयते ॥११॥

 

कालानुपाति यद् रूपं तदस्तीति प्रतीयते ।

परितस्तु परिच्छिन्नं भाव इत्येव कथ्यते ॥१२॥

 

व्यवहारस्य सिद्धत्वान्न चेयं गुणकल्पना ।

उपचारो हि मुख्यस्य सम्भवादपदिश्यते ॥१३॥

 

आहितोत्तरशक्तित्वात् प्रत्येकं वा समूहिनः ।

अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः ।१४॥

 

अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः ।

प्रधानभूतां तादथ्यादन्यासां तु तदाख्यता ॥१५॥

 

सत्सु प्रत्ययरूपोऽसौ भावो यावन्न जायते ।

तावत् परेषां रूपेण साध्यः सन्नभिधीयते ॥१६॥

 

सिद्धे तु साधनाकाङ्क्षा कृताथत्वान्निवतते ।

न क्रियावाचिनां तस्मात् प्रयोगस्तत्र विद्यते ॥१७॥

 

स चापूवापरीभूत एकत्वादक्रमात्मकः ।

पूवापराणां धमेण तदथेनानुगम्यते ॥१८॥

 

असन्निवतते तस्माद् यत् सत् तदुपलभ्यते ।

तयोः सदसतोश्चासावात्मैक इव गृह्यते ॥१९॥

 

जातिमन्ये क्रियामाहुरनेकव्यक्तिवतिनीम् ।

असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ॥२०॥

 

अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता ।

सा व्यक्तेरनुनिष्पादे जायमानेव गम्यते ॥२१॥

 

स्वव्यापारविशिष्टानां सत्ता वा कतृकमणाम् ।

क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ॥२२॥

 

अन्त्ये वात्मनि या सत्ता सा क्रिया कैश्चिदिष्यते ।

भाव एव हि धात्वथ इत्यविच्छिन्न आगमः ॥२३॥

 

बुद्धिं तज्जातिमन्ये तु बुद्धिसत्तामथापरे ।

प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ॥२४॥

 

आविभावतिरोभावौ जन्मनाशौ तथापरैः ।

षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ ॥२५॥

 

ताभ्यां सवप्रवृत्तीनामभेदेनोपसङ्ग्रहः ।

जन्मैवाश्रितसारूप्यं स्थितिरित्यभिधीयते ॥२६॥

 

जायमानान्न जन्मान्यद् विनाशेऽप्यपदाथता ।

अतो भावविकारेषु सत्तैका व्यवतिष्ठते ॥२७॥

 

पूवभागस्तु यज्जातात् तज्जन्म व्यपदिश्यते ।

आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते ॥२८॥

 

आख्यातशब्दैरथोऽसावेवंभूतोऽभिधीयते ।

नामशब्दाः प्रवतन्ते संहरन्त इव क्रमम् ॥२९॥

 

फलं फलापदेशो वा वस्तु वा तद्विरोधि यत् ।

तदन्य एव पूवेषां नाश इत्यपदिश्यते ॥३०॥

 

नैवास्ति नैव नास्तीति वस्तुनो ग्रहणाद् विना ।

कल्पते पररूपेण वस्त्वन्यदनुगम्यते ॥३१॥

 

भावाभावौ घटादीनामस्पृशन्नपि पाणिना ।

कश्चिद् वेदाप्रकाशेऽपि प्रकाशे तत एव वा ॥३२॥

 

व्यापि सौक्ष्म्यं क्वचिद् याति क्वचित् संहन्यते पुनः ।

अकुवाणोऽथवा किञ्चित् स्वशक्त्यैवं प्रकाशते ॥३३॥

 

सवस्वरूपस्य तत्त्वस्य यत् क्रमेणेव दशनम् ।

भागैरिव प्रकॢप्तिश्च तां क्रियामपरे विदुः ॥३४॥

 

सत्ता स्वशक्तियोगेन सवरूपा व्यवस्थिता ।

साध्या च साधनं चैव फलं भोक्ता फलस्य च ॥३५॥

 

क्रियामन्ये तु मन्यन्ते क्वचिदप्यनपाश्रिताम् ।

साधनैकाथकारित्वे प्रवृत्तिमनपायिनीम् ॥३६॥

 

सामान्यभूता सा पूवं भागशः प्रविभज्यते ।

ततो व्यापाररूपेण साध्येव व्यवतिष्ठते ॥३७॥

 

प्रकृतिः साधनानां सा प्रथमं तच्च कारकम् ।

व्यापाराणां ततोऽन्यत्वमपरैरुपवण्यते ॥३८॥

 

बहूनां सम्भवेऽथानां केचिदेवोपकारिणः ।

संसगे कश्चिदेषां तु प्राधान्येन प्रतीयते ॥३९॥

 

साध्यत्वात् तत्र चाख्यातैव्यापाराः सिद्धसाधनाः ।

प्राधान्येनाभिधीयन्ते फलेनापि प्रवतिताः ॥४०॥

 

एकत्वावृत्तिभेदाभ्यां भेदाभेदसमन्वये ।

सङ्ख्यास्तत्रोपलभ्यन्ते सङ्ख्येयावयवक्रियाः ॥४१॥

 

सिद्धस्याथस्य पाकादेः कथं साधनयोगिता ।

साध्यत्वे वा तिङन्तेन कृतां भेदो न कश्चन ॥४२॥

 

तत्र कारकयोगाया यद्याख्यातनिबन्धनम् ।

षष्ठ्याः सा लेन सम्बन्धे व्युदस्ता कतृकमणोः ॥४३॥

 

एकाभिधान एकोऽथो युगपच्च द्विधमभाक् ।

न सम्भवति सिद्धत्वे स साध्यः स्यात् कथं पुनः ॥४४॥

 

एतावत् साधनं साध्यमेतावदिति कल्पना ।

शास्त्र एव न वाक्येऽस्ति विभागः परमाथतः ॥४५॥

 

आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता ।

प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥४६॥

 

साध्यत्वेन क्रिया यत्र धातुरूपनिबन्धना ।

सत्त्वभागस्तु यस्तस्याः स घञादिनिबन्धनः ॥४७॥

 

बन्धुता भेदरूपेण बन्धुशब्दे व्यवस्थिता ।

समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते ॥४८॥

 

तत्र यं प्रति साध्यत्वमसिद्धा तं प्रति क्रिया ।

सिद्धा तु यस्मिन् साध्यत्वं न तमेव पुनः प्रति ॥४९॥

 

राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते ।

पुत्रस्याथः प्रधानत्वं न चास्य विनिवतते ॥५०॥

 

मृगो धावति पश्येति साध्यसाधनरूपता ।

तथा विषयभेदेन सरणस्योपपद्यते ॥५१॥

 

लकृत्यक्तखलथानां तथाऽव्ययकृतामपि ।

रूढिनिष्ठाघञादीनां धातुः साध्यस्य वाचकः ॥५२॥

 

साध्यस्यापरिनिष्पत्तेः सोऽयमित्यनुपग्रहः ।

तिङन्तैरन्तरेणैवमुपमानं ततो न तैः ॥५३॥

 

साधनत्वं प्रसिद्धं च तिङ्क्षु सम्बन्धिनां यतः ।

तेनाध्यारोप एव स्यादुपमा तु न विद्यते ॥५४॥

 

न्यूनेषु चासमाप्ताथमुपमानं विधीयते ।

क्रिया चैवाश्रये सवा तत्र तत्र समाप्यते ॥५५॥

 

येनैव हेतुना हंसः पततीत्यभिधीयते ।

आतौ तस्य समाप्तत्वादुपमाथो न विद्यते ॥५६॥

 

क्रियाणां जातिभिन्नानां सादृश्यं नावधायते ।

सिद्धेश्च प्रक्रमे साध्यमुपमातुं न शक्यते ॥५७॥

 

वनं वृक्षा इति यथा भेदाभेदव्यपाश्रयात् ।

अथात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः ॥५८॥

 

सामान्ये भाव इत्यत्र यल्लिङ्गमुपलभ्यते ।

भेदानामनुमेयत्वान्न तत् तेषु विवक्ष्यते ॥५९॥

 

निदेशे चरिताथत्वाल्लिङ्गं भावेऽविवक्षितम् ।

उपमासविधत्वाच्च भावादन्यत् पचादिषु ॥६०॥

 

भवतौ यत् पचादीनां तावदत्रोपदिश्यते ।

न च लिङ्गं पचादीनां भवतौ समवस्थितम् ॥६१॥

 

एकश्च सोऽथः सत्ताख्यः कथञ्चित् कैश्चिदुच्यते ।

लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् ॥६२॥

 

आचायो मातुलश्चेति यथैको व्यपदिश्यते ।

सम्बन्धिभेदादथात्मा स विधिः पक्तिभावयोः ॥६३॥

 

 

॥*॥ इति क्रियासमुद्देशः समाप्तः ॥*॥

 

-------------------------------------------------

 

 

 

 

*अथ कालसमुद्देशः*

 

 

 

व्यापारव्यतिरेकेण कालमेके प्रचक्षते ।

नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम् ॥१॥

 

दिष्टिप्रस्थसुवणादि मूतिभेदाय कल्पते ।

क्रियाभेदाय कालस्तु संख्या सवस्य भेदिका ॥२॥

 

उत्पत्तौ च स्थितौ चैव विनाशे चापि तद्वताम् ।

निमित्तं कालमेवाहुविभक्तेनात्मना स्थितम् ॥३॥

 

तमस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते ।

प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥४॥

 

यदि न प्रतिबध्नीयात् प्रतिबन्धञ्च नोत्सृजेत् ।

अवस्था व्यक्तिकीयेरन् पौवापयविनाकृताः ॥५॥

 

तस्यात्मा बहुधा भिन्नो भेदैधमान्तराश्रयैः ।

न हि भिन्नमभिन्नं वा वस्तु किञ्चन विद्यते ॥६॥

 

नैको न चाप्यनेकोऽस्ति न शुक्लो नापि चासितः ।

द्रव्यात्मा स तु संसगादेवंरूपः प्रकाशते ॥७॥

 

संसगिणां तु ये भेदा विशेषोस्तस्य ते मताः ।

स भिन्नस्तैव्यवस्थानां कालो भेदाय कल्पते ॥८॥

 

विशिष्टकालसम्बन्धाद् वृत्तिलाभः प्रकल्पते ।

शक्तीनां सा प्रयोगस्य हेतुत्वेनावतिष्ठते ॥९॥

 

जन्माभिव्यक्तिनियमाः प्रयोगोपनिबन्धनाः ।

नित्याधीनस्थितित्वाच्च स्थितिनियमपूविका ॥१०॥

 

स्थितस्यानुग्रहस्तैस्तैधमैः संसगिभिस्ततः ।

प्रतिबन्धस्तिरोभावः प्रहाणमिति चात्मनः ॥११॥

 

प्रत्यवस्थं तु कालस्य व्यापारोऽत्र व्यवस्थितः ।

काल एव हि विश्वात्मा व्यापार इति कथ्यते ॥१२॥

 

मूतीनां तेन भिन्नानामाचयापचयाः पृथक् ।

लक्ष्यन्ते परिणामेन सवासां भेदयोगिना ॥१३॥

 

जलयन्त्रभ्रमावेशसदृशीभिः प्रवृत्तिभिः ।

स कलाः कलयन् सवाः कालाख्यां लभते विभुः ॥१४॥

 

प्रतिबद्धाश्च यास्तेन चित्रा विश्वस्य वृत्तयः ।

ता स एवानुजानाति यथा तन्तुः शकुन्तिकाः ॥१५॥

 

विशिष्टकालसम्बन्धाल्लब्धपाकासु शक्तिषु ।

क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कमणा ॥१६॥

 

जातिप्रयुक्ता तस्यां तु फलव्यक्तिः प्रतीयते ।

कुतोऽप्यद्भुतया वृत्त्या शक्तिभिः सा नियम्यते ॥१७॥

 

ततस्तु समवायाख्या शक्तिभेदस्य बाधिका ।

एकत्वमिव ता व्यक्तीरापादयति कारणैः ॥१८॥

 

अथास्मान्नियमादूध्वं जातयो याः प्रयोजिकाः ।

ताः सवा व्यक्तिमायान्ति स्वच्छे छाया इवाम्भसि ॥१९॥

 

कारणानुविधायित्वादथ कारणपूवकाः ।

गुणास्तत्रोपलभ्यन्ते स्वजातिव्यक्तिहेतवः ॥२०॥

 

आश्रयाणां च नित्यत्वमाश्रितानां च नित्यता ।

ता व्यक्तिरनुगृह्णाति स्थितिस्तेन प्रकल्पते ॥२१॥

 

अनित्यस्य यथोत्पादे पारतन्त्र्यं तथा स्थितौ ।

विनाशायैव तत् सृष्टमस्वाधीनस्थितिं विदुः ॥२२॥

 

स्थितः संसगिभिभावैः स क्रियास्वनुगृह्यते ।

नैषां सत्तामनुद्गृह्य वृत्तिजन्मवतां स्मृता ॥२३॥

 

जराख्या कालशक्तिया शक्त्यन्तरविरोधिनी ।

सा शक्तिं प्रतिबध्नाति जायन्ते च विरोधिनः ॥२४॥

 

प्रयोजकास्तु ये भावाः स्थितिभागस्य हेतवः ।

तिरोभवन्ति ते सवे यत आत्मा प्रहीयते ॥२५॥

 

यथैवाद्भुतया वृत्त्या निष्क्रमं निनिबन्धनम् ।

अपदं जायते सवं तथास्यात्मा प्रहीयते ॥२६॥

 

क्रिययोरपवगिण्योनानाथसमवेतयोः ।

सम्बन्धिना विनैकेन परिच्छेदः कथं भवेत् ॥२७॥

 

यथा तुलायां हस्ते वा नानाद्रव्यव्यवस्थितम् ।

गुरुत्वं परिमीयेत कालादेवं क्रियागतिः ॥२८॥

 

जहाति सहवृत्ताश्च क्रियाः स समवस्थिताः ।

व्रीहियथोदकं तेन हायनाख्यां प्रपद्यते ॥२९॥

 

प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिया तस्य शाश्वती ।

तया विभज्यमानोऽसौ भजते क्रमरूपताम् ॥३०॥

 

कतृभेदात् तदथेषु प्रकषापचयौ गतः ।

समत्वं विषमत्वं वा स एकः प्रतिपद्यते ॥३१॥

 

क्रियाभेदाद् यथैकस्मिंस्तक्षाद्याख्या प्रवतते ।

क्रियाभेदात् तथैकस्मिन्नृत्वाद्याख्योपजायते ॥३२॥

 

आरम्भश्च क्रिया चैव निष्ठा चेत्यभिधीयते ।

धमान्तराणामध्यासभेदात् सदसदात्मनः ॥३३॥

 

यावांश्च द्व्यणुकादीनां तावान् हिमवतोऽप्यसौ ।

न ह्यात्मा कस्यचिद् भेत्तुं प्रचेतुं वापि शक्यते ॥३४॥

 

अन्यैस्तु भावैरन्येषां प्रचयः परिकल्प्यते ।

शनैरिदमिदं क्षिप्रमिति तेन प्रतीयते ॥३५॥

 

असतश्च क्रमो नास्ति स हि भेत्तुं न शक्यते ।

सतोऽपि चात्मतत्त्वं यत् तत् तथैवावतिष्ठते ॥३६॥

 

क्रियोपाधिश्च सन् भूतभविष्यद्वतमानता ।

एकादशभिराकारैविभक्ताः प्रतिपद्यते ॥३७॥

 

भूतः पञ्चविधस्तत्र भविष्यंश्च चतुविधः ।

वतमानो द्विधाख्यात इत्येकादश कल्पनाः ॥३८॥

 

काले निधाय स्वं रूपं प्रज्ञया यन्निगृह्यते ।

भावास्ततो निवतन्ते तत्र संक्रान्तशक्तयः ॥३९॥

 

भाविनां चैव यद्रूपं तस्य च प्रतिबिम्बकम् ।

सुनिमृष्ट इवादशे काल एवोपपद्यते ॥४०॥

 

तृणपणलतादीनि यथा स्रोतोऽनुकषति ।

प्रवतयति कालोऽपि मात्रा मात्रावतां तथा ॥४१॥

 

आविश्येवानुसन्धत्ते यथा मतिमतां गतीः ।

वायुस्तथैव कामात्मा विधत्ते क्रमरूपताम् ॥४२॥

 

अयनप्रविभागश्च गतिश्च ज्योतिषां ध्रुवा ।

निवृत्तिप्रभवाश्चैव भूतानां तन्निबन्धनाः ॥४३॥

 

मात्राणां परिणामा ये कालवृत्त्यनुयायिनः ।

नक्षत्राख्या पृथक् तेषु चिह्नमात्रं तु तारकाः ॥४४॥

 

रुतैमृगशकुन्तानां स्थावराणां च वृत्तिभिः ।

छायादिपरिणामैश्च ऋतुधामा निरूप्यते ॥४५॥

 

निभासोपगमो योऽयं क्रमवानिव दृश्यते ।

अक्रमस्यापि विश्वस्य तत् कालस्य विचेष्टितम् ॥४६॥

 

दूरान्तिकव्यवस्थानमध्वाधिकरणं यथा ।

चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा ॥४७॥

 

तस्याभिन्नस्य कालस्य व्यवहारे क्रियाकृताः ।

भेदा इव त्रयः सिद्धा याँल्लोको नातिवतते ॥४८॥

 

एकस्य शक्तयस्तिस्त्रः कालस्य समवस्थिताः ।

यत्सम्बन्धेन भावानां दशनादशने सताम् ॥४९॥

 

द्वाभ्यां स किल शक्तिभ्यां भावानां वरणात्मकः ।

शक्तिस्तु वतमानाख्या भावरूपप्रकाशिनी ॥५०॥

 

अनागता जन्मशक्तेः शक्तिरप्रतिबन्धिका ।

अतीताख्या तु या शक्तिस्तया जन्म विरुध्यते ॥५१॥

 

तमःप्रकाशवत् त्वेते त्रयोऽध्वानो व्यवस्थिताः ।

अक्रमास्तेषु भावानां क्रमः समुपलभ्यते ॥५२॥

 

दौ तु तत्र तमोरूपावेकस्यालोकवत् स्थितिः ।

अतीतमपि केषाञ्चित् पुनविपरिवतते ॥५३॥

 

युगपद् वतमानत्वं तद्धमा प्रतिपद्यते ।

केषाञ्चिद् वतमानत्वाच्चैति तद्वदतीतताम् ॥५४॥

 

हेतूपकारादाक्षिप्तो वतमानत्वमागतः ।

शान्तहेतूपकारः स पुननोपैति दशनम् ॥५५॥

 

द्वे एव कालस्य विभोः केषाञ्चिच्छक्तिवत्मनी ।

करोति याभ्यां भावानामुन्मीलननिमीलने ॥५६॥

 

कलाभिः पृथगथाभिः प्रविभक्तं स्वभावतः ।

केचिद् बुद्ध्यनुसंहारलक्षणं त प्रचक्षते ॥५७॥

 

ज्ञानानुगतशक्तिं वा बाह्यं वा सत्यतः स्थितम् ।

कालात्मानमनाश्रित्य व्यवहतुं न शक्यते ॥५८॥

 

तिस्त्रो भावस्य भावस्य केषाञ्चिद् भावशक्तयः ।

ताभिः स्वशक्तिभिः सवं सदैवास्ति च नास्ति च ॥५९॥

 

सत्त्वादव्यतिरेकेण तास्तिस्रोऽपि व्यवस्थिताः ।

क्रमस्तास्तदभेदाच्च सदसत्त्वं न भिद्यते ॥६०॥

 

दशनादशने नैकं दृष्टादृष्टं तदेव तु ।

अध्वनामेकता नास्ति न च किञ्चिन्निवतते ॥६१॥

 

शक्त्यात्मदेवतापक्षैभिन्नं कालस्य दशनम् ।

प्रथमं तदविद्यायां यद्विद्यायां न विद्यते ॥६२॥

 

अभेदे यदि कालस्य ह्रस्वदीघप्लुतादिषु ।

दृश्यते भेदनिभासः स चिरक्षिप्रबुद्धिवत् ॥६३॥

 

ह्रस्वदीघप्लुतावृत्त्या नालिकासलिलादिषु ।

कथं प्रचययोग्यः स्यात् कल्पनामात्रहेतुकः ॥६४॥

 

अभिव्यक्तिनिमित्तस्य प्रचयेन प्रचीयते ।

अभिन्नमपि शब्दस्य तत्त्वमप्रचयात्मकम् ॥६५॥

 

एवं मात्रातुरीयस्य भेदो दाशतयस्य वा ।

परिमाणविकल्पेन शब्दात्मनि न विद्यते ॥६६॥

 

अनुनिष्पादिकल्पेन येऽन्तराल इव स्थिताः ।

शब्दास्ते प्रतिपत्तॄणामुपायाः प्रतिपत्तये ॥६७॥

 

विशिष्टमवधिं तं तमुपादाय प्रकल्पते ।

कालः कलावतामेकः क्षणमासतुभेदभाक् ॥६८॥

 

बुद्ध्यवग्रहभेदाच्च व्यवहारात्मनि स्थितेः ।

तावानेव क्षणः कालो युगमन्वन्तराणि वा ॥६९॥

 

प्रतिबन्धाभ्यनुज्ञाभ्यां नालिकाविवराश्रिते ।

यदम्भसि प्रक्षरणं तत्कालस्यैव चेष्टितम् ॥७०॥

 

अल्पे महति वा छिद्रे तत्सम्बन्धे न भिद्यते ।

कालस्य वृत्तिरात्मापि तमेवास्यानुवतते ॥७१॥

 

आक्रीड इव कालस्य दृश्यते यः स्वशक्तिभिः ।

बहुरूपस्य भावेषु बहुधा तेन भिद्यते ॥७२॥

 

त्वचिसारस्य वा वृद्धिं तृणराजस्य वा दधत् ।

तावत् तद्वृद्धियोगेन कालतत्त्वं विकल्पते ॥७३॥

 

व्यतिक्रमेऽपि मात्राणां तस्य नास्ति व्यतिक्रमः ।

न गन्तृगतिभेदेन मागभेदोऽस्ति कश्चन ॥७४॥

 

उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया ।

कालस्याव्यतिपातेऽपि ताद्धम्यमिव लक्ष्यते ॥७५॥

 

आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे ।

भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥७६॥

 

क्रियान्तरपरिच्छेदे प्रवृत्ता या क्रियां प्रति ।

निज्ञातपरिमाणा सा काल इत्यभिधीयते ॥७७॥

 

ज्ञाने रूपस्य संक्रान्तिज्ञानेनैवानुसंहृतिः ।

अतः क्रियान्तराभावे सा क्रिया काल इष्यते ॥७८॥

 

भूतो घट इतीयं च सत्ताया एव भूतता ।

भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते ॥७९॥

 

परतो भिद्यते सवमात्मा तु न विकल्प्यते ।

पवतादिस्थितिस्तस्मात् पररूपेण भिद्यते ॥८०॥

 

प्रसिद्धभेदा व्यापारा विरूपावयवक्रियाः ।

साहचयेण भिद्यन्ते सरूपावयवक्रियाः ॥८१॥

 

व्यवधानमिवोपैति निवृत्त इव दृश्यते ।

क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः ॥८२॥

 

न च विच्छिन्नरूपोऽपि सोऽविरामान्निवतते ।

सवैव हि क्रियान्येन सङ्कीणेवोपलभ्यते ॥८३॥

 

तदन्तरालदृष्टा वा सवैवावयवक्रिया ।

सादृश्यात् सति भेदे तु तदङ्गत्वेन गृह्यते ॥८४॥

 

सदसद् वापि वस्तु स्यात् तृतीयं नास्ति किञ्चन ।

तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते ॥८५॥

 

निवृत्तिरूपमेकस्य भेदाभावान्न कल्पते ।

सदसद् वापि तेनैकं क्रमरूपं कथं भवेत् ॥८६॥

 

बहूनां चानवस्थादेकमेवोपलभ्यते ।

यथोपलब्धिस्मरणं तत्र चाप्युपपद्यते ॥८७॥

 

सदसद्रूपमेकं स्यात् सवस्यैकत्वकल्पने ।

निवृत्तिरूपं निवृत्तेः सामान्यमथवा भवेत् ॥८८॥

 

कायात्पत्तौ समथं वा स्वेन धमेण तद् यथा ।

आत्मतत्वेन गृह्येत सा चास्मिन् वतमानता ॥८९॥

 

क्रियाप्रबन्धरूपं यदध्यात्मं विनिगृह्यते ।

संक्रान्तबिम्बमेकत्र तामाहुवतमानताम् ॥९०॥

 

क्रियातिपत्तिरत्यन्तं क्रियानुत्पत्तिलक्षणा ।

न च भूतमनुत्पन्नं न भविष्यत् तथाविधम् ॥९१॥

 

प्राग् विरुद्धक्रियोत्पादान्निवृत्ते वा विरोधिनि ।

व्यापारेऽवधिभेदेन विषयस्तत्र भिद्यते ॥९२॥

 

व्यभिचारे निमित्तस्य साधुत्वं न प्रकल्पते ।

भाव्यासीदिति सूत्रेण तत् कालेऽन्यत्र शिष्यते ॥९३॥

 

स्वकाल एव साधुश्चेत् कालभेदे गतिः कथम् ।

वाक्याथादतदथेषु विशिष्टत्वं न सिद्ध्यति ॥९४॥

 

तदथश्चेदवयवो भाविनो भूततागतिः ।

न स्यादत्यन्तभूतत्वमेवैकं तत्र सम्भवेत् ॥९५॥

 

विशिष्टकालता पूवं तथापि तु विशेषणे ।

आश्रयात् सोऽन्तरङ्गत्वात् तत्र साधुभविष्यति ॥९६॥

 

आमिश्र एव प्रकान्तः स पदाथस्तथाविधः ।

केवलस्य विमिश्रत्वं नित्येऽथे नोपपद्यते ॥९७॥

 

शुद्धे च काले व्याख्यातमामिश्रे न प्रसिध्यति ।

साधुत्वमयथाकालं तत् सूत्रेणोपदिश्यते ॥९८॥

 

आख्यातपदवाच्येऽथे निवत्यत्वात् प्रधानता ।

विशेषेणं तदाक्षेपात् तत्काले व्यवतिष्ठते ॥९९॥

 

सम्प्रत्ययानुकारो वा शब्दव्यापार एव वा ।

अध्यस्यते विरुद्धेऽथे न च तेन विरुध्यते ॥१००॥

 

भूतं भविष्यदित्येतौ प्रत्ययौ वतमानताम् ।

अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् ॥१०१॥

 

अध्वनो वतमानस्य यः शेषो य उपक्रमः ।

तद् वतमानसामीप्यं शास्त्रे भेदेन दशितम् ॥१०२॥

 

आशंसा वतमानाऽपि विषयेण भविष्यता ।

भाष्ये भविष्यत्कालेति कायाथं व्यपदिश्यते ॥१०३॥

 

इच्छा चिकीषतीत्यत्र स्वकालमनुरुध्यते ।

भविष्यति प्रकृत्यथे तत्कालं नानुरुध्यते ॥१०४॥

 

आशंस्यमानतन्त्रत्वादाशंसायां विपययः ।

प्रयोक्तृधमः शब्दाथे शब्दैरेवानुषज्यते ॥१०५॥

 

अप्शालिबीजसंयोगे वर्तते निष्पदियदा ।

तत्रावयववृत्तित्वाद् भविष्यत्प्रतिषेधनम् ॥१०६॥

 

फलप्रसवरूपे तु निष्पदौ भूतकालता ।

धर्मान्तरेषु तद्रूपमध्यस्य परिकल्प्यते ॥१०७॥

 

उपयुक्ते निमित्तानां व्यापारे फलसिद्धये ।

तत्र रूपं यदध्यस्तं तत्कालं तत् प्रतीयते ॥१०८॥

 

निष्पत्ताववधिः कश्चित् कश्चित् प्रतिविवक्षितः ।

हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते ॥१०९॥

 

अबहिस्साधनाधीना सिद्धियत्र विवक्षिता ।

तत् साधनान्तराभावात् सिद्धमित्युपदिश्यते ॥११०॥

 

तस्मादवधिभेदेन सिद्धा मुख्यैव भूतता ।

अनागतत्वमस्तित्वं हेतुधमव्यपेक्षणे ॥१११॥

 

सतामिन्द्रियसम्बन्धात् सैव सत्ता विशिष्यते ।

भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥११२॥

 

अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते ।

यः समासादनाद् भेदः स तत्र न विवक्षितः ॥११३॥

 

योगाद् वा स्त्रीत्वपुंस्त्वाभ्यां न किञ्चिदवतिष्ठते ।

स्वस्मिन्नात्मनि तत्रान्यद् भूतं भावि च कथ्यते ॥११४॥

 

 

॥*॥ इति कालसमुद्देशः समाप्तः ॥*॥

 

--------------------------------------------------

 

 

*अथ पुरुषसमुद्देशः*

 

 

प्रत्यक्ता परभावश्चाप्युपाधी कर्तृकर्मणोः ।

तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥१॥

 

सदसद्वाऽपि चैतन्यमेताभ्यामेव गम्यते ।

चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥२॥

 

बुधिजानातिचितिभिः प्रथमे पुरुषे सति ।

संज्ञानार्थैर्न चैतन्यस्योपयोगः प्रकाश्यते ॥३॥

 

सम्बोधनार्थः सर्वत्र मध्यमे कैश्चिदिष्यते ।

तथा सम्बोधने सर्वां प्रथमां युष्मदो विदुः ॥४॥

 

सम्बोधनं न लोकेऽस्ति विधातव्येन वस्तुना ।

स्वाहेन्द्रशत्रुर्वर्धस्व यथा राजा भवेति च ॥५॥

 

युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ।

युष्मदर्थस्य सिद्धत्वान्नियता चाद्युदात्तता ॥६॥

 

गुणप्रधानताभेदः पुरुषादिविपर्ययः ।

निर्दिष्टस्यान्यथा शास्त्रे नित्यत्वान्न विरुध्यते ॥७॥

 

यथानिर्देशमर्थाः स्युर्येषां शास्त्रं विधायकम् ।

किञ्चित् सामान्यमाश्रित्य स्थिते तु प्रतिपादनम् ॥८॥

 

योऽश्वे यः पीठ इत्यत्र भूययोरश्वपीठयोः ।

यथोपलक्षणार्थत्वं तथार्थेष्वनुशासनम् ॥९॥

 

 

॥*॥ इति पुरुषसमुद्देशः समाप्तः ॥*॥

 

--------------------------------------------------

 

 

 

 

 

*अथ संख्यासमुद्देशः*

 

 

 

संख्यावान् सत्वभूतोऽर्थः सर्व एवाभिधीयते ।

भेदाभेदविभागो हि लोके संख्यानिबन्धनः ॥१॥

 

स धर्मो व्यतिरिक्तो वा तेषामात्मैव वा तथा ।

भेदहेतुत्वमाश्रित्य संख्येति व्यपदिश्यते ॥२॥

 

समवेता परिच्छेद्ये क्वचिदन्यत्र सा स्थिता ।

प्रकल्पयति भावानां संख्याभेदं तथात्मनः ॥३॥

 

परत्वे चापरत्वे च भेदे तुल्या श्रुतिर्यथा ।

संख्याशब्दाभिधेयत्वम् भेदहेतोस्तथा गुणे ॥४॥

 

अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे ।

अभेद्ये भेद्यभावोऽपि द्रव्यधर्मस्तथा गुणे ॥५॥

 

स्वबुद्ध्या तमपोद्धृत्य लोकोऽप्यागममाश्रितः ।

स्वधर्मादन्यधर्मेण व्याचष्टे प्रतिपत्तये ॥६॥

 

परोपकारतत्त्वानां स्वातन्त्र्येणाभिधायकः ।

शब्दः सर्वपदार्थानां स्वधर्माद् विप्रकृष्यते ॥७॥

 

यथैवाविषयं ज्ञानं न किञ्चिदवभासते ।

तथा भावोऽप्यसंसृष्टो न कश्चिदुपलभ्यते ॥८॥

 

भेदेन नु समाख्यानं यल्लोकोऽप्यनुवर्तते ।

आगमाच्छास्त्रसदृशो व्यवहारः स वर्ण्यते ॥९॥

 

बुद्ध्या स्थितेषु तेष्वेवमध्यारोपो न दुर्लभः ।

परधर्मस्य न ह्यत्र सदसत्त्वं प्रयोजकम् ॥१०॥

 

सामान्येष्वपि सामान्यं विशेषेषु विशिष्तता ।

सङ्ख्यासु सङ्ख्या लिङ्गेषु लिङ्गमेवं प्रकल्पते ॥११॥

 

अतो द्रव्याश्रितां सङ्ख्यामाहुः संसर्गवादिनः ।

भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् ॥१२॥

 

आत्मान्तराणां येनात्मा तद्रूप इव लक्ष्यते ।

अतद्रूपेण संसर्गात् सा निमितसरूपता ॥१३॥

 

संसृष्टेष्वपि निर्भागे भूतेष्वर्थक्रिया यथा ।

सत्त्वादिषु च मात्रासु सर्वास्वेवं प्रतीयते ॥१४॥

 

द्वित्वादियोनिरेकत्वं भेदास्तत्पूर्वका यतः ।

विना तेन न सङ्ख्यानामन्यासामस्ति सम्भवः ॥१५॥

 

एकत्वे बुद्धिसहिते निमितं द्वित्वजन्मनि ।

एकत्वाभ्यां समुत्पन्नमेवं वा तत् प्रतीयते ॥१६॥

 

एकत्वसमुदायो वा सापेक्षे वा पृथक् पृथक् ।

एकत्वे द्वित्वमित्येवं त्वयोर्द्विवचनं भवेत् ॥१७॥

 

एकोऽपि गुणभेदेन सङ्घो भेदं प्रकल्पयेत् ।

आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः ॥१८॥

 

सङ्ख्येयसङ्घः सङ्ख्यानसङ्घः सङ्ख्येति कथ्यते ।

विंशत्यादिषु सान्यस्य द्रव्यसङ्घस्य भेदिका ॥१९॥

 

एकविंशतिसंख्यायां संख्यान्तरसरूपयोः ।

एकस्यां बुद्ध्यनावृत्या भागयोरिव कल्पना ॥२०॥

 

असंख्यासमुदायत्वात् संख्याकार्यं विधीयते ।

समुहत्वे तु तन्न स्यात् स्वाङ्गादिसमुदायवत् ॥२१॥

 

संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते ।

आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः ॥२२॥

 

न संख्यायां न संख्येये द्वौ दशेत्यस्ति सम्भवः ।

भेदाभावान्न संख्यायां विरोधान्न तदाश्रये ॥२३॥

 

संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया ।

तद्रूपे वापि संख्येये आवृत्तिः परिगण्यते ॥२४॥

 

संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते ।

रूपं न रूपमप्येवं संज्ञा सा हि सितादिषु ॥२५॥

 

संख्यानजातियोगात्तु संख्या संख्येति कथ्यते ।

रूपत्वजातियोगाच्च रूपे रूपमिति स्मृतम् ॥२६॥

 

निमित्तमेक इत्यत्र विभक्त्या नाभिधीयते ।

तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥२७॥

 

एकस्य प्रचयो दृष्टः समूहश्च द्वयोस्तथा ।

निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः ॥२८॥

 

तदेकमपि चैकत्वं विभक्तिश्रवणादृते ।

नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते ॥२९॥

 

अन्वयव्यतिरेकौ न यदि स्याद् वचनान्तरम् ।

स्यातामसति तस्मिंश्च प्रकृत्यर्थो न कल्प्यते ॥३०॥

 

एकत्वमेक इत्यत्र शुद्धद्रव्यविशेषणम् ।

सगुणस्तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते ॥३१॥

 

द्व्येकयोरिति निर्देशात् सङ्ख्यामात्रेऽपि सम्भवः ।

एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वमुच्यते ॥३२॥

 

 

 

॥*॥ इति संख्यासमुद्देशः समाप्तः ॥*॥

 

----------------------------------------------------

 

 

 

*अथोपग्रहसमुद्देशः*

 

 

 

य आत्मनेपदाद् भेदः क्वचिदर्थस्य गम्यते ।

अन्यतश्चापि आदेशान्मन्यते तमुपग्रहम् ॥१॥

 

क्वचित् साधनमेवासौ क्वचित् तस्य विशेषणम् ।

साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् ॥२॥

 

क्रिया विषयभेदेन जीविकादिषु भिद्यते ।

लादेशैः स क्रियाभेदो वाक्येष्वपि नियम्यते ॥३॥

 

धात्वर्थस्तद्विशेषश्चाप्युक्तः क्वचिदुपग्रहः ।

धात्वर्थो गन्धनादिः स्याद् व्यतिहारो विशेषणम् ॥४॥

 

क्रियाप्रवृत्तावाख्याता कैश्चित् स्वार्थपरार्थता ।

असती वा सती वापि विवक्षितनिबन्धना ॥५॥

 

कैषाञ्चित् कर्त्रभिप्राये णिचा सह विकल्पते ।

आत्मनेपदमन्येषां तदर्था प्रकृतिर्यथा ॥६॥

 

क्रीणीष्व वपते धत्ते चिनोति चिनुतेऽपि च ।

आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते ॥७॥

 

संविधानं पचादीनां क्वचिदर्थः प्रतीयते ।

तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका ॥८॥

 

कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् ।

तथाभूता क्रिया या हि तत्कर्ता फलभाग्यतः ॥९॥

 

यथोपलक्ष्यते कालस्तारकादर्शनादिभिः ।

तथाफलविशेषेण क्रियाभेदो निदश्यते ॥१०॥

 

क्रियाविशेषवचने सामर्थ्यमुपरुध्यते ।

केषाञ्चिदन्ये तु कृताः स्वरितेतो ञितस्तथा ॥११॥

 

अनुबन्धश्च सिद्धेऽर्थे स्मृत्यर्थमनुषज्यते ।

तुल्यार्थेष्वपि चावश्यं न सर्वेष्वेकधर्मता ॥१२॥

 

दृशीक्ष्योः सदृशेऽप्यर्थे नाभेदः प्रतिपूर्वयोः ।

ण्यर्थोपादयिनस्तस्मान्न तुल्यार्थाः पचादिभिः ॥१३॥

 

उम्भ्यर्थे वर्तमानस्य करोतेर्भिन्नधर्मणः ।

ण्यर्थोपादयिता तस्मान्नियताः शब्दशक्त्यः ॥१४॥

 

तथा ह्यनुप्रयोगस्य करोतेरात्मनेपदे ।

पूर्ववद्गहणं प्राप्ते स्वरितं समुपस्थितम् ॥१५॥

 

एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया ।

भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रितः ॥१६॥

 

तस्मादवस्थितेऽप्यर्थे कस्यचित् प्रतिबध्यते ।

शब्दस्य शक्तिः स त्वेष शास्त्रेऽन्वाख्यायते विधिः ॥१७॥

 

यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः ।

तत् प्रधानं फलं तेषां न लाभादिप्रयोजनम् ॥१८॥

 

यत्रोभौ स्वामिदासौ तु प्रारभेते सहक्रियाम् ।

युगपद् धर्मभेदेन धातुस्तत्र न वर्तते ॥१९॥

 

यत्र प्रतिविधिनार्थः पचिस्तत्रात्मनेपदम् ।

परस्मैपदमन्यत्र संस्काराद्यभिधायिनि ॥२०॥

 

संविधातुश्च सान्निध्याद् दासे धर्मोऽनुषज्यते ।

प्लक्षशब्दस्य सान्निध्याद् न्यग्रोधे प्लक्षता यथा ॥२१॥

 

पुरोडाशाभिधानश्च धानादिषु यथा स्थितम् ।

छत्रिणा चापि सम्बन्धाच्छत्रिशब्दाभिधेयता ॥२२॥

 

अर्थात् प्रतीतमन्योऽन्यं पारार्थ्यमविवक्षितम् ।

इत्ययं शेषविषयः कैश्चिदत्रानुवर्ण्यते ॥२३॥

 

अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः ।

भाष्ये नोदाहृतं कस्मात् प्राप्तं तत्रात्मनेपदम् ॥२४॥

 

प्रतीतत्वात् तदर्थस्य शेषत्वं यदि कल्प्यते ।

न स्यात् प्राप्तविभाषासौ स्वरितेतां निवर्तिका ॥२५॥

 

शुद्धे तु संविधानार्थे कैश्चिदत्रेष्यते कृषिः ।

तद्धर्मा यजिरित्येवं न स्यात् तत्रात्मनेपदम् ॥२६॥

 

अत्र तूपपदेनायमर्थभेदः प्रतीयते ।

प्राप्ते विभाषा क्रियते तस्मान्नास्त्यात्मनेपदम् ॥२७॥

 

 

॥*॥ इति उपग्रहसमुद्देशः समाप्तः ॥*॥

 

-----------------------------------------------

 

 

 

 

 

*अथ लिङ्गसमुद्देशः*

 

 

 

स्तनकेशादिसम्बन्धो विशिष्टा वा स्तनादयः ।

तदुपव्यञ्जना जातिर्गुणावस्था गुणास्तथा ॥१॥

 

शब्दोपजनितोऽर्थात्मा शब्दसंस्कार इत्यापि ।

लिङ्गानां लिङ्गतत्त्वज्ञैर्विकल्पाः सप्त दर्शिताः ॥२॥

 

उपादानविकल्पाश्च लिङ्गानां सप्त वर्णिताः ।

विकल्पसन्नियोगाभ्यां ये शब्देषु व्यवस्थिताः ॥३॥

 

तिस्रो जातय एवैताः केषाञ्चित् समवस्थिताः ।

अविरुद्धा विरुद्धाभिर्गोमहिष्यादिजातिभिः ॥४॥

 

हस्तिन्यां वडवायाञ्च स्त्रीति बुद्धेः समन्वयः ।

अतस्तां जातिमिच्छन्ति द्रव्यादिसमवायिनीम् ॥५॥

 

परतन्त्रस्य यल्लिङ्गमपोद्धारे विवक्षिते ।

तत्रासौ शब्दसंस्कारः शब्दैरेव व्यपाश्रितः ॥६॥

 

बुद्ध्या कल्पितरूपेषु लिङ्गेष्वपि च सम्भवः ।

स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर्व्यपदिश्यते ॥७॥

 

यथा सलिलनिर्भासो मृगतृष्णासु जायते ।

जलोपलब्ध्यनुगुणाद् बीजाद् बुद्धिर्जले सति ॥८॥

 

तथैवाव्यपदेश्येभ्यो हेतुभ्यस्तारकादिषु ।

मुखेभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः ॥९॥

 

व्यक्तेषु व्यक्तरूपाणां स्तनादीनां तु दर्शनात् ।

अव्यक्तव्यञ्जनाव्यक्तेर्जातिर्न परिकल्प्यते ॥१०॥

 

अस्तित्वं च प्रतिज्ञाय सदाऽदर्शनमिच्छतः ।

अत्यन्तादर्शने न स्यादसत्त्वं प्रति निश्चयः ॥११॥

 

न चालमनुमानाय शब्दोऽदर्शनपूर्वकः ।

सिद्धे हि दर्शने किं स्यादनुमानप्रयोजनम् ॥१२॥

 

आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः ।

धर्मा मूर्तिषु सर्वाषु लिङ्गत्वेनानुदर्शिताः ॥१३॥

 

सर्वमूर्त्त्यात्मभूतानां शब्दादीनां गुणे गुणे ।

त्रयः सत्त्वादिधर्मास्ते सर्वत्र समवस्थिताः ॥१४॥

 

रूपस्य चात्ममात्राणां शुक्लादीनां प्रतिक्षणम् ।

काचित् प्रलीयते काचित् कथञ्चिदभिवर्धते ॥१५॥

 

क्वथितोदकवच्चैषामनवस्थितवृत्तिता ।

अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥१६॥

 

प्रवृत्तेरेकरूपत्वं साम्यं वा स्थितिरुच्यते ।

आविर्भावतिरोभावप्रवृत्त्या वावतिष्ठते ॥१७॥

 

गुणा इत्येव बुद्धेर्वा निमित्तत्त्वं स्थितिर्मता ।

स्थितेश्च सर्वलिङ्गानां सर्वनामत्वमुच्यते ॥१८॥

 

स्थितेषु सर्वलिङ्गेषु विवक्षानियमाश्रयः ।

कस्यचिच्छब्दसंस्कारे व्यापारः क्वचिदिष्यते ॥१९॥

 

सन्निधाने निमित्तानां किञ्चिदेव प्रवर्तकम् ।

यथा तक्षादिशब्दानां लिङ्गेषु नियमस्तथा ॥२०॥

 

भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः ।

यद्यद् धर्मेऽङ्गतामेति लिङ्गं तत्तत् प्रचक्षते ॥२१॥

 

स्वरभेदात् यथा शब्दाः साधवो विषयान्तरे ।

लिङ्गभेदात् तथा सिद्धात् साधुत्वमनुगम्यते ॥२२॥

 

प्रयोगो विप्रयोगश्च लोके यत्रोपलभ्यते ।

शास्त्रमारभ्यते तत्र न प्रयोगविपर्यये ॥२३॥

 

उपाधिभेदादर्थेषु गुणधर्मस्य कस्यचित् ।

निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता ॥२४॥

 

हिमारण्ये महत्त्वेन युक्ते स्त्रीत्वमवस्थितम् ।

हस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता ॥२५॥

 

शब्दान्तराणां भिन्नेऽर्थे उपायाः प्रतिपत्तये ।

एकतामिव निश्चित्य लघ्वर्थमुपदर्शिताः ॥२६॥

 

उत्पत्तिः प्रसवोऽन्येषां नाशः संस्त्यानमित्यपि ।

आत्मरूपं तु भावानां स्थितिरित्यपदिश्यते ॥२७॥

 

दृष्टं निमित्तं केषाञ्चिज्जात्यादिवदवस्थितम् ।

दृष्टवच्छब्दसंस्कारमात्रं तु परिकल्पितम् ॥२८॥

 

यथा प्रसिद्धेऽप्येकत्वे नानात्वाभिनिवेशिनः ।

नानात्वं जनयन्तीव शब्दो लिङ्गेऽपि स क्रमः ॥२९॥

 

इदं वेयमयं वेति शब्दसंस्कारमात्रकम् ।

निमित्तदर्शनादर्थे कैश्चित् सर्वत्र वर्ण्यते ॥३०॥

 

नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते ।

इन्द्रियादि यथाऽदृष्टं भेदहेतुस्तदिष्यते ॥३१॥

 

 

॥*॥ इति लिङ्गसमुद्देशः समाप्तः ॥*॥

 

-------------------------------------------------

 

 

 

 

 

*अथ वृत्तिसमुद्देशः*


वृत्तिसमुद्देशे श्लोकसंख्या-
 १  ५१  १०१  १५१  २०१  २५१  ३०१  ३५१  ४०१  ४५१  ५०१  ५५१  ६०१

 

 

कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते ।

पदं स्वार्थादयः सर्वे यस्मात् कुत्सादिहेतवः ॥१॥

 

देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः ।

कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते ॥२॥

 

प्रकृष्ट इति शुक्लादिप्रकर्षस्याभिधायकः ।

प्रकृष्टस्य प्रकर्षे तु तरबादिर्विधीयते ॥३॥

 

कुत्सितत्वेन कुत्स्यो वा न सम्यग् वापि कुत्सितः ।

स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते ॥४॥

 

न च साम्प्रतिकी कुत्सा भेदाभावात् प्रतीयते ।

पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते ॥५॥

 

विशेषणविशेष्यत्वं पदयोरुपजायते ।

न प्रातिपदिकार्थश्च तत्रैवं व्यतिरिच्यते ॥६॥

 

विशेष्यं स्यादनिर्ज्ञातं निर्ज्ञातार्थो विशेषणम् ।

परार्थत्वेन शेषत्वं सर्वेषामुपकारिणाम् ॥७॥

 

विभक्तिभेदो नियमाद् गुणगुण्यभिधायिनोः ।

सामानाधिकरण्यस्य प्रसिद्धिद्रव्यशब्दयोः ॥८॥

 

द्रव्येऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते ।

अनिर्ज्ञातगुणे चैव तिलशब्दः प्रवर्तते ॥९॥

 

सामान्यानामसम्बन्धात् तौ विशेषे व्यवस्थितौ ।

रूपाभेदाद् विशेषं तमभिव्यङ्क्तुं न शक्नुतः ॥१०॥

 

तावेवं सन्निपतितौ भेदेन प्रतिपादने ।

अवच्छेदमिवाधाय संशयं व्यपकर्षतः ॥११॥

 

द्रव्यात्मा गुणसंसर्गभेदादाश्रीयते पृथक् ।

जातिसम्बन्धभेदाच्च द्वितीय इव गृह्यते ॥१२॥

 

निमित्तैरभिसम्बन्धाद् या निमित्तसरूपता ।

तयैकस्यापि नानात्वं रूपाभेदाद् प्रकल्पते ॥१३॥

 

द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।

तयोरवस्थयोर्भेदादाश्रयत्वे नियुज्यते ॥१४॥

 

बुद्ध्यैकं भिद्यते भिन्नमेकत्वं चोपगच्छति ।

बुद्ध्यावस्था विभज्यन्ते सा ह्यर्थस्य विधायिका ॥१५॥

 

व्यपदेशिवदेकस्मिन् बुद्ध्या नानार्थकल्पना ।

तया कल्पितभेदः सन्नर्थात्मा व्यपदिश्यते ॥१६॥

 

क्रियाभेदेन दृष्टानामश्मादीनां पुनः पुनः ।

किश्चिद् दर्शनमन्येन दर्शनेनापदिश्यते ॥१७॥

 

प्रयोगभेदाद् धातूनां प्रकल्प्य बहुरूपताम् ।

भेदाभेदावुपादाय क्वचिदेकाच्त्वमुच्यते ॥१८॥

 

अन्वयव्यतिरेकाभ्यामर्थवान् परिकल्पितः ।

एको धात्वर्थविगमाद् वर्णत्वेनोपचर्यते ॥१९॥

 

द्रव्यात्मानस्त्रयस्तस्माद् बुद्धौ नाना व्यवस्थिताः ।

आश्रयाश्रयिधर्मेणेत्ययं पूर्वेभ्य आगमः ॥२०॥

 

सामानाधिकरण्यं च शब्दयोः कैश्चिदिष्यते ।

विशेषणविशेष्यत्वं संज्ञासंज्ञित्वमेव वा ॥२१॥

 

केषाञ्चिज्जातिगुणयोरेकार्थसमवेतयोः ।

वृत्तिः कृष्णतिलेष्विष्टा शब्दे द्रव्याभिधायिनि ॥२२॥

 

संस्तु रूपरसादीनामाश्रयो नाभिधीयते ।

द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः ॥२३॥

 

द्रव्याभिधायी कृष्णादिराकाङ्क्षावान् प्रवर्तते ।

निमित्तानुविधायित्वात् तत् तिलादौ न विद्यते ॥२४॥

 

एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति ।

गुणधर्म गुणाविष्ट द्रव्यं भेदाय कल्पते ॥२५॥

 

गुणमात्राभिधायित्वं केचिदिच्छन्ति वृत्तिषु ।

अजाश्वादिषु सम्बन्धाद् रूढीनामिव रूढिभिः ॥२६॥

 

तिले पूर्वमुपात्ते वा तत्रैव मतुबिष्यते ।

स च धर्मः समासेषु गुणस्तस्माद् विशेषणम् ॥२७॥

 

अनुस्यूतेव भेदाभ्यामेका प्रख्योपजायते ।

यदा सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ॥२८॥

 

इतरेतरयोगस्तु भिन्नसङ्घाभिधायिनाम् ।

प्रत्येकं च समूहोऽसौ समूहिषु समाप्यते ॥२९॥

 

व्यापारसमुदायस्य यथाधिश्रयणादिषु ।

प्रत्येकं जातिवद् वृत्तिस्तथा द्वन्द्वपदेष्वपि ॥३०॥

 

शौण्डार्धर्चपुरोडाशच्छत्रिणोऽत्र निदर्शनम् ।

ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु ॥३१॥

 

अर्थान्तराभिधायित्वं तथार्थान्तरवर्तिनाम् ।

याभ्यां चैकमनेकार्थं ताभ्यामेवापरं पदम् ॥३२॥

 

समुदायान्तरत्वाच्च तादृशोऽर्थो न लौकिकः ।

अन्वयव्यतिरेकाभ्यां शास्त्रार्थोऽपि न दृश्यते ॥३३॥

 

दुःखा दुरुपपादा च तस्माद् भाष्येऽप्युदाहृता ।

युगपद्वाचिता सा तु व्यवहारार्थमाश्रिता ॥३४॥

 

समुदायमुपक्रम्य पदं तस्यां प्रयुज्यते ।

विभागेन समाख्याने ततस्तद् द्व्यर्थमुच्यते ॥३५॥

 

वाक्येऽपि नियता धर्माः केचिद् वृत्तौ द्वयोस्तथा ।

ते त्वभेदेन सामर्थ्यमात्र एवोपवर्णिताः ॥३६॥

 

वृत्तौ विशेषवृत्तित्वाद् भेदे सामान्यवाचिता ।

उपमानसमासादौ श्यामादीनामुदाहृता ॥३७॥

 

वृत्तिरन्यपदार्थे या तस्या वाक्येष्वसंभवः ।

चार्थे द्वन्द्वपदानां च भेदे वृत्तिर्न विद्यते ॥३८॥

 

भेदे सति निरादीनां क्रान्ताद्यर्थेष्वसंभवः ।

प्राग्वृत्तेर्जातिवाचित्वं न च गौरखरादिषु ॥३९॥

 

क्रीडायां जीविकायां च वाक्येनावचनात् तथा ।

न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा ॥४०॥

 

निर्धारणादिविषये व्यपेक्षैव यतः स्थिता ।

समासप्रतिषेधानां ततो नास्ति प्रयोजनम् ॥४१॥

 

विधिभिः प्रतिषेधैश्च भेदाभेदनिदर्शनम् ।

कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् ॥४२॥

 

सामर्थ्यमविशेषोक्तमपि लोकव्यवस्थया ।

वृत्त्यवृत्त्योः प्रयोगज्ञैर्विभक्तं प्रतिपत्तृभिः ॥४३॥

 

अर्थस्य विनिवृत्तत्वाल्लुगादि न विरुच्यते ।

एकार्थीभाव एवातः समासाख्या विधीयते ॥४४॥

 

व्यवस्थितविभाषा च सामान्ये कैश्चिदिष्यते ।

तथा वाक्यं व्यपेक्षायां समासोऽन्यत्र शिष्यते ॥४५॥

 

तुल्यश्रुतित्वात् तत्त्वेऽपि राजादीनामुपाश्रिते ।

वृत्तौ विशेषणाकाङ्क्षाऽगमकत्वान्निवर्तते ॥४६॥

 

संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते ।

स्वार्थवत् सा व्यपेक्षास्य वृत्तावपि न हीयते ॥४७॥

 

समुदायेन संबन्धो येषां गुरुकुलादिना ।

संस्पृश्यावयवांस्ते च युज्यन्ते तद्वता सह ॥४८॥

                                         

अबुधान् प्रत्युपायाश्च विचित्राः प्रतिपत्तये ।

शब्दान्तरत्वादत्यन्तभेदो वाक्यसमासयोः ॥४९॥

 

असमासे समासे च गोरथादिष्वदर्शनात् ।

युक्तादीनां न शास्त्रेण निवृत्त्यनुगमः कृतः ॥५०॥

 

शब्दान्तरत्वाद् युक्तादिः क्वचिद् वाक्ये प्रयुज्यते ।

प्रपर्णप्रपलाशादौ गतशब्दश्च वृत्तिषु ॥५१॥


 

विशेषणविशेष्यत्वं कैश्चिदेकस्तथाश्रयः ।

उपाये तत्त्वदर्शित्वादिष्यते वृत्तिवाक्ययोः ॥५२॥

 

पदं यथैव वृक्षादि विशिष्टेऽर्थे व्यवस्थितम् ।

नीलोत्पलाद्यपि तथा भागाभ्यां वर्तते विना ॥५३॥

 

श्रोत्रियक्षेत्रियादीनां न च वासिष्ठगार्ग्यवत् ।

भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् ॥५४॥

 

सप्तपर्णादिवद् भेदो न वृत्तौ विद्यते क्वचित् ।

रूढ्यरूढिविभागोऽपि क्रियते प्रतिपत्तये ॥५५॥

 

या सामान्याश्रया संज्ञा विशेषविषया च या ।

बहुलग्रहणान्नास्ति प्रवृत्तिरुभयोस्तयोः ॥५६॥

 

सुसूक्ष्मजटकेशादौ समासोऽवयवे यदि ।

स्यात् स्यात् तन्त्रान्तरङ्गत्वात् बाधकोऽवयवस्वरः ॥५७॥

 

समुदायस्य वृत्तौ च नैकदेशो विभाष्यते ।

भेद एव विभाषायां नियतो विषयो यतः ॥५८॥

 

यतश्चाविषयः सोऽस्यास्तस्मान्नास्त्यकृतार्थता ।

अभेदप्रक्रमेऽत्यन्तं भेदानामपसारणात् ॥५९॥

 

महाकष्टश्रितेत्येवं न स्याद् भेदः पदत्रये ।

वृत्ताववयवस्यात्त्वं यस्मान्न प्रतिषिध्यते ॥६०॥

 

महारण्यमतीते तु त्रिपदाद् भिद्यते स्वरः ।

यस्मात् तत्रान्तरङ्गत्वाद् बाधकोऽवयवस्वअः ॥६१॥

 

सतिशिष्टबलीयस्त्वात् थाथादिस्वर एव तु ।

द्विपदे तेन युगपत् त्रितयं न समस्यते ॥६२॥

 

येषामपूज्यमानत्वं परार्थानुगमार्थके ।

विशेषणविशेष्यत्वमपि तेषां न कल्पते ॥६३॥

 

विशेषः श्रूयमाणोऽपि प्रधानेषु गुणेषु वा ।

शब्दान्तरत्वाद् वाक्ये तु वृत्तौ नित्यं न विद्यते ॥६४॥

 

विशेषकर्मसम्बन्धे निर्भुक्तेऽपि कृतादिभिः ।

विशेषनिरपेक्षोऽन्यः कृतशब्दः प्रवर्तते ॥६५॥

 

अकर्मकत्वे सत्येवं क्तान्तं भावाभिधायि यत् ।

ततः क्रियावता कर्ता योगो भवति कर्मणाम् ॥ ६६॥

 

अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।

सम्बध्यते क्रिया तद्वत् कृतपूर्व्यादिषु स्थिता ॥६७॥

 

मुण्डिसूत्र्यादयोऽसद्भिर्भागैरनुगता इव ।

विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत् ॥६८॥

 

पुत्रीयतो न पुत्रोऽस्ति विशेषेच्छा तु तादृशी ।

विनैव पुत्रानुगमाद् या पुत्रे व्यवतिष्ठते ॥६९॥

 

प्राणैर्विना यथा धारिर्जीवतौ प्राणकर्मकः ।

न चात्र धारिर्न प्राणा जीवतिस्तु क्रियान्तरम् ॥७०॥

 

तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम् ।

अन्वाख्यानाय भेदास्तु सदृशाः प्रतिपादकाः ॥७१॥

 

आक्षेपाच्च प्रयोगेण विषयान्तरवर्तिना ।

सदपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते ॥७२॥

 

प्रसिद्धेन कृतः शब्दो भावगहाभिधायिना ।

अभ्यासे तुल्यरूपत्वान्न यङन्तः प्रयुज्यते ॥७३॥

 

शब्दा यथा विभज्यन्ते भागैरिव विकल्पितैः ।

अन्वाख्येयास्तथा शास्त्रमतिदूरे व्यवस्थितम् ॥७४॥

 

अर्थस्यानुगमं कञ्चिद् दृष्ट्यैव परिकल्पितम् ।

पदं वाक्ये पदे धातुर्धातौ भागश्च मुण्डिवत् ॥७५॥

 

अविप्रयोगः साधुत्वे व्युत्पत्तिरनवस्थिता ।

उपायान् प्रतिपत्तॄणां नाभिमन्येत सत्यतः ॥७६॥

 

यथैव डित्थे डयतिः पाचके पचतिस्तथा ।

डयतिश्च पचिश्चैव द्वावप्येतावलौकिकौ ॥७७॥

 

प्रकृतिप्रत्ययावूह्यौ पदात् ताभ्यां पदं तथा ।

अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान् प्रति॥७८॥

 

शास्त्रदृष्टिस्तु शास्त्रस्य प्राप्तिमात्रेऽप्यनिश्चिते ।

युज्यते प्रत्यवायेन शास्त्रं चक्षुरपश्यताम् ॥७९॥

 

अर्थान्तराभिधानाच्च पौर्वापर्यं न भिद्यते ।

राजदन्ताहिताग्न्यादिराजाश्वादिषु सर्वथा ॥८०॥

 

विनैव प्रत्ययैर्वृत्तौ ये भिन्नार्थाभिधायिनः ।

गर्गादयो लुका तेषां साधुत्वमनुगम्यते ॥८१॥

 

सोऽयमित्यभिसंबन्धात् प्रत्ययेन विना यदि ।

बभ्र्वादयः प्रयुज्येरन्नपत्ये नियमो भवेत् ॥८२॥

 

सोऽयमित्यभिसंबन्धे लिङ्गोपव्यञ्जनादृते ।

प्रष्ठादिषु न जायैव नियमेन प्रतीयते ॥८३॥

 

मानमेयाभिसंबन्धविशेषेऽङ्गीकृते तथा ।

प्रस्थादीनामसाधुत्वं तद्धितेन विना भवेत् ।८४॥

 

तद्धितो योगभेदेन वाक्यं वा स्याद् विभाषितम् ।

परिमाणाधिके तत्र प्रथमा शिष्यते पुनः ॥८५॥

 

व्यतिरिक्तस्य साधुत्वे तदेव च निदर्शनम् ।

युज्यतेऽङ्गीकृताधिक्यं तत् सर्वाभिर्विभक्तिभिः ॥८६॥

 

शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात् ।

असाधुत्वनिवृत्त्यर्थं साधवस्ते बिदादिवत् ॥८७॥

 

विशेषणाद् विशेष्येऽर्थे तद्भावाभ्युच्चये सति ।

पुनश्च प्रतिसंहारे वृत्तिमेके प्रचक्षते ॥८८॥

 

निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना ।

निमित्तवति बुद्धेश्च न निमित्तसरूपता ॥८९॥

 

संस्कारसहिताद् ज्ञानान्नोपश्लेषः स्मृतेरपि ।

व्यापारे तन्निमित्तानां न ग्राह्यं स्याद् तथाविधम् ॥९०॥

 

अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना ।

तस्मादनुपकारो वा ग्राह्यं वा न तथा स्थितम् ॥९१॥

 

अनुस्यूतेव संसृष्टेरर्थे बुद्धिः प्रवर्तते ।

व्याख्यातारो विभज्याथ तां भेदेन प्रचक्षते ॥९२॥

 

तदात्मन्यविभक्ते च बुद्ध्यन्तरमुपाश्रिताः ।

विभागमिव मन्यन्ते विशेषणविशेष्ययोः ॥९३॥

 

अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् ।

आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥९४॥

 

अन्वयाद् गम्यते सोऽर्थो विरोधी वा निवर्तते ।

द्व्यर्थमर्थान्तरे वापि तत्राहुरुपसर्जनम् ॥९५॥

 

उपायमात्रं नानात्वं समूहस्त्वेक एव सः ।

विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना ॥९६॥

 

वृत्तिर्वर्तयतामेवमबुधप्रतिपत्तये ।

भिन्नाः सम्बोधनोपायाः पुरुषेष्वनवस्थिताः ॥९७॥

 

वाचिका द्योतिका वापि सङ्ख्यानां या विभक्तयः ।

तद्रूपेऽवयवे वृत्तौ सङ्ख्याभेदो निवर्तते ॥९८॥

 

अभेदैकत्वसङ्ख्या वा तत्रान्यैवोपजायते ।

संसर्ग(र्गि)रूपं सङ्ख्यानामविभक्तं तदुच्यते ॥९९॥

 

यथौषधिरसाः सर्वे मधुन्याहितशक्तयः ।

अविभागेन वर्तन्ते तां सङ्ख्यां तादृशीं विदुः ॥१००॥

 

भेदानां वा परित्यागात् सङ्ख्यात्मा स तथाविधः ।

व्यापाराज्जातिभागस्य भेदापोहेन वर्तते ॥१०१॥


 

अगृहीतविशेषेण यथा रूपेण रूपवान् ।

प्रख्यायते न शुक्लादिभेदरूपस्तु(रूपन्तु) गृह्यते ॥१०२॥

 

भेदरूपसमावेशे तथा सत्यविवक्षिते ।

भागः प्रकाशितः कश्चिच्छास्त्रेऽङ्गत्वेन गृह्यते ॥१०३॥

 

सङ्ख्यासामान्यरूपेण तदा सोंऽशः प्रतीयते ।

अर्थस्यानेकशक्तित्वे शब्दैर्नियतशक्तिभिः ॥१०४॥

 

अव्ययानां च यो धर्मो यश्च भेदवतां क्रमः ।

अभिन्नव्यपदेशाहमन्तरालं तदेतयोः ॥१०५॥

 

अलुकश्चैकवद्भावस्तस्मिन् सति न शिष्यते ।

स च गोषुचरादीनां धर्मोऽस्ति वचनान्तरे ॥१०६॥

 

जातौ द्विवचनाभावात् तद् वृत्तिषु न विद्यते ।

प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः ॥१०७॥

 

आश्रयाद् भेदवत्तायाः सर्वभेदसमन्वयः ।

द्रव्याभिधानपक्षोऽपि जात्याख्यायां न विद्यते ॥१०८॥

 

सर्वद्रव्यगतिश्चैवमेकशेषश्च नोच्यते ।

प्रत्याख्यातेऽन्यथा सूत्रे भिन्नद्रव्यगतिर्भवेत् ॥१०९॥

 

वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते ।

अभेदैकत्वसङ्ख्यायां गोदौ तत्र न सिध्यति ॥११०॥

 

प्राग्वृत्तेर्युक्तवद्भावे षष्ठी भेदाश्रया भवेत् ।

वृत्तौ सङ्ख्याविशेषाणां त्यागाद् भेदो निवर्तते ॥१११॥

 

विद्यमानासु सङ्ख्यासु केचित् सङ्ख्यान्तरं विदुः ।

अभेदाख्यमुपग्राहि वृत्तौ तच्चोपजायते ॥११२॥

 

व्यापारं याति भेदख्यैस्तत् स्वैरवयवैः क्वचित् ।

आत्मा भेदानपेक्षोऽस्य क्वचिदेति निमित्तताम् ॥११३॥

 

दास्याः पतिरिति व्यक्तो गोदाविति च दृश्यते ।

व्यापारभेदः सङ्ख्यायास्तस्मादेवं व्यवस्थितः ॥११४॥

 

द्व्यादीनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते ।

विभक्तिवाच्यः स्वार्थत्वान्निमित्तं त्ववतिष्टते ॥११५॥

 

द्वित्वोपसर्जने सङ्घे द्विशब्दस्तत्र वर्तते ।

सोऽयमित्यभिसम्बन्धादुभशब्दे न तत्तथा ॥११६॥

 

उभयस्तस्य तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते ।

सूत्रेऽपि नित्यग्रहणं तदर्थमभिधीयते ॥११७॥

 

आपि के चापरार्थत्वान्नाभेद उपजायते ।

उभे इति ततः स्वार्थे भेदवृत्तिः प्रयुज्यते ॥११८॥

 

स्त्रीत्वाभिधानपक्षेऽपि गुणभावविपर्ययः ।

स्वभावादपरार्थत्वात् तत्र भेदो न हीयते ॥११९॥

 

तस्माद् द्विवचनाट्टापश्चोभयोऽन्यत्र दृश्यते ।

प्रत्ययं तयपं हित्वा नास्त्युत्तरपदे पुनः ॥१२०॥

 

प्राप्तिः प्रगृह्यसंज्ञाया न स्यात् प्रत्ययलक्षणात् ।

कुमार्यगारे न ह्यस्ति समासो वचनान्तरे ॥१२१॥

 

एकद्वयोर्यञादीनां विभाषा लुङ् न कल्पते ।

यौष्माकस्तावकश्चेति भेदाभावान्न सिध्यति ॥१२२॥

 

दृष्टो गार्ग्यतरे भेदस्तया गर्गतरा इति ।

युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ ॥१२३॥

 

उपाधिभूता या सङ्ख्या प्रकृतौ समवस्थिता ।

आदेशैः संज्ञया वापि विभक्त्या व्यज्यते विना ॥१२४॥

 

शौर्पिके मासजाते च परिमाणं स्वभावतः ।

उपाधिभूतामाश्रित्य सङ्ख्यां भेदेन वर्तते ॥१२५॥

 

वयस्विनि परिच्छेदः क्रीते चापि न गम्यते ।

इष्टो भेदादृते तत्र परिमाणमनर्थकम् ॥१२६॥

 

भिन्नस्याभेदवचनात् प्रस्थादिभ्यः शसो विधिः ।

तद्धर्मत्वादभेदात् तु घटादिभ्यो न दृश्यते ॥१२७॥

 

श्रूयते वचनं यत्र भावस्तत्र विशिष्यते ।

निवर्तते यद् वचनं तस्य भावो न विद्यते ॥१२८॥

 

कार्यं सत्ताश्रयं शास्त्रादप्रवृत्तिरदर्शनम् ।

वाक्ये दृष्टं यदत्यन्तमभावस्तस्य वृत्तिषु ॥१२९॥

 

संज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम् ।

श्रूयमाणं तु वचनं विशिष्टमुपलभ्यते ॥१३०॥

 

अभावो वा लुको यत्र रूपवान् वा विधीयते ।

व्यभिचारान्निमित्तस्य तत्रासाधुः प्रसज्यते ॥१३१॥

 

भेदः संख्या विशेषो वा व्याख्यातो वृत्तिवाक्ययोः ।

सर्वत्रैव विशेषस्तु नावश्यं तादृशो भवेत् ॥१३२॥

 

जातेश्च भेदहेतुत्वान्न लिङ्गेन विशेष्यते ।

प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः ॥१३३॥

 

अभेदे लिङ्गसंख्याभ्यां योगाच्छुक्लं पटा इति ।

प्रसक्ते शास्त्रमारब्धं सिद्धये लिङ्गसंख्ययोः ॥१३४॥

 

परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते ।

गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते ॥१३५॥

 

शब्दान्तरत्वाद् वाक्येषु विशेषा यद्यपि श्रुताः ।

वृत्तेरभिन्नरूपत्वात् तेषु वृत्तिर्न विद्यते ॥१३६॥

 

रूपाच्च शब्दसंस्कारः सामान्यविषयो यतः ।

तस्मात् तदाश्रयं लिङ्गं वचनं च प्रसज्यते ॥१३७॥

 

सलिङ्गं च ससङ्ख्यं च ततो द्रव्याभिधायिना ।

सम्बध्यते पदं तत्र तयोर्भिन्ना श्रुतिर्भवेत् ॥१३८॥

 

भाविनो बहिरङ्गस्य वचनादाश्रयस्य ये ।

लिङ्गसङ्ख्ये गुणानां ते सूत्रेण प्रतिपादिते ॥१३९॥

 

विशेषवृत्तेरपि च रूपाभेदादलक्षितः ।

यस्माद् विशेषस्तेनात्र भेदकार्यं न कल्पते ॥१४०॥

 

विशेष एव सामान्यं विशेषाद् भिद्यते यतः ।

अभेदो हि विशेषाणामाश्रितो विनिवर्तकः ॥१४१॥

 

यद् यदाश्रीयते तत् तदन्यस्य विनिवर्तकम् ।

भेदाभेदविभागस्तु सामान्ये न निरूप्यते ॥१४२॥

 

अपोद्धारश्च सामान्यमिति तस्योपकारिणः ।

निमित्तावस्थमेवातस्तत् स्वधर्मेण गृह्यते ॥१४३॥

 

अनिर्धारितधर्मत्वाद् भेदा एव विकल्पिताः ।

निमित्तैर्व्यपदिश्यन्ते सामान्याख्याविशेषिताः ॥१४४॥

 

यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः ।

प्रयोगेष्वेव साधुत्वं वाक्ये प्रक्रम्यते तदा ॥१४५॥

 

तत्र प्रयोगोऽनियतो गुणानामाश्रयैः सह ।

सामान्यं यत् तदत्यन्तं तत्रैव समवस्थितम् ॥१४६॥

 

न गोत्वं शाबलेयस्य गौरिति व्यपदिश्यते ।

शुक्लत्वं बाहुलेयस्य शुक्ल इत्यपदिश्यते ॥१४७॥

 

व्यतिरेके च सत्येवं मतुपः श्रवणं भवेत् ।

लुगन्वाख्यायते तस्माद् रसादिभ्यश्च नास्ति सः ॥१४८॥

 

यत्सोऽयमिति संबन्धाद्रूपाभेदेन वर्तते ।

शुक्लादिवत् ततो लोपस्तद्रसादौ न विद्यते ॥१४९॥

 

आवेशो लिङ्गसंख्याभ्यां क्वचिन्मञ्चादिवत् स्थितः ।

सोऽयमित्यभिसंबन्धे स प्रष्ठादौ न विद्यते ॥१५०॥

 

लिङ्गं लिङ्गपरित्यागे सूत्रे प्रत्ययशासनम् ।

सोऽयमित्यभिसंबन्धात् पुंशब्दे स्त्र्यभिधायिनी ॥१५१॥


 

आश्रये लिङ्गसंख्याभ्यामाश्रितं व्यपदिश्यते ।

विशेषणानां चाजातेरिति शास्त्रव्यवस्थया ॥१५२॥

 

निमित्तानुविधायित्वाद् ये धर्मा भेदहेतुषु ।

त आश्रयेऽपि विद्यन्त इति बुद्धिर्निवर्त्यते ॥१५३॥

 

आख्यायते च शास्त्रेण लोकरूढा स्वभावतः ।

निमित्ततुल्या गोदादौ प्रवृत्तिर्लिङ्गसंख्ययोः ॥१५४॥

 

हरीतक्यादिषु व्यक्तिः सङ्ख्या खलतिकादिषु ।

मनुष्यलुब्विशेषाणामभिधेयाश्रयं द्वयम् ॥१५५॥

 

जातिप्रयोगे जात्या चेत् सम्बन्धमुपगच्छति ।

विशेषणं ततो धर्माञ् जातेस्तत् प्रतिपद्यते ॥१५६॥

 

लुबन्ते सन्निपतितं जातेरन्यद् विशेषणम् ।

लुबन्तस्य प्रधानत्वात् तद्धर्मैर्व्यपदिश्यते ॥१५७॥

 

नञ्समासबहुव्रीहिद्वन्दस्त्र्यतिशयेषु ये ।

भेदा भाष्यानुसारेण वाच्यास्ते लिङ्गसङ्ख्ययोः ॥१५८॥

 

यदि षष्ठीद्वितीयान्तान्निकृष्टात् तरबादयः ।

न्यक्कारिणि स्युरुत्कृष्टे प्रकृतेः स्यात् विलिङ्गता ॥१५९॥

 

काल्यां कालाद् द्वितीयान्तात् काले काल्यास्तरब् भवेत् ।

न्यक्कर्तरि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् ॥१६०॥

 

न्यक्कर्तृषु च गर्गेषु गार्ग्यात् स्यात् तच्च नेष्यते ।

कुमार्याः स्वार्थिके ङीप् स्यात् प्रकृत्यर्थो हि नाधिकः ॥१६१॥

 

षठ्यन्तादधिके तस्माद् गुणे स्वाश्रयवर्तिनि ।

उत्कृष्टसमवेतायां क्रियायां वा विधीयते ॥१६२॥

 

उपात्तं च प्रकृत्यर्थो द्रव्यमेवाश्रयस्तयोः ।

सोऽयमित्यभिसंबन्धादभेदेन प्रतीयते ॥१६३॥

 

रूपाभेदाच्च तद् द्रव्यामाकाङ्क्षावत् प्रतीयते ।

विशेषैर्भिन्नरूपैस्तदाश्रयैरिव युज्यते ॥१६४॥

 

भिन्नरुपेषु यल्लिङ्गं विशेषेषु व्यावस्थितम् ।

संख्या च ताभ्यां द्रव्यात्मा सोऽभिन्नो व्यपदिश्यते ॥१६५॥

 

आश्रयः समवायी च निमित्तं लिङ्गसंख्ययोः ।

कर्तृस्थभावकः शेतिरतो भाष्य उदाहृतः ॥१६६॥

 

निमित्तमाश्रयत्वेन गृह्येत यदि साधनम् ।

कर्मापदिष्टयोः प्राप्तिस्तत्र स्याल्लिङ्गसंख्ययोः ॥१६७॥

 

शास्त्रे निर्मित्तभावेन समुदायादपोद्धृतः ।

स्त्र्यर्थस्तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा ॥१६८॥

 

स्त्रीशब्दो गुणशब्दत्वात् तुल्यधर्मा सितादिभिः ।

गुणमात्रे प्रयुज्यते संस्त्यानवति वाश्रये ॥१६९॥

 

स्त्र्यर्थः संस्त्यानवद् द्रव्यं प्रकृत्यर्थश्च यद्यसौ ।

द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति ॥१७०॥

 

संस्त्यानेन क्वचिद् द्रव्यं दृष्टं यदुपलक्षितम् ।

अनङीकृतसंस्त्यानात् तद्वृत्तेः प्रत्ययो भवेत् ॥१७१॥

 

भूतादयः षडाख्याश्च संस्त्यानेनोपलक्षिते ।

ब्राह्मण्यादौ यदा वृत्तास्तेभ्यः स्युः प्रत्ययास्तदा ॥१७२॥

 

तद्वन्तो हि प्रधानत्वात् प्रत्ययानां प्रयोजकाः ।

सामानाधिकरण्येऽपि तस्माट्टाबादिसम्भवः ॥१७३॥

 

गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा ।

प्रकृत्यर्थश्च संस्त्यानं स्वार्थिकाः प्रत्ययास्तदा ॥१७४॥

 

संस्त्याने केवले वृत्तिः प्रकृतीनां न विद्यते ।

तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः ॥१७५॥

 

उपकारि च संस्त्यानं येषु शब्देष्वपेक्षितम् ।

तेभ्यष्टाबादयस्तच्च भूतादिष्वविवक्षितम् ॥१७६॥

 

संस्त्यानं प्रत्ययस्यार्थः शुद्धमाश्रीयते यदा ।

तदा द्विवचनानेकप्रत्ययत्वं न सिध्यति ॥१७७॥

 

जातिश्चेत् स्त्रीत्वमेवासौ भेदोऽन्यत्राविवक्षितः ।

यस्माद् भिन्नैरपि द्रव्यैस्तदेकं सद् विशिष्यते ॥१७८॥

 

मात्राणां हि तिरोभावे परिमाणं न विद्यते ।

कुमार्य इति तेन स्यात् कुमार्यां भेदसम्भवात् ॥१७९॥

 

जातिसङ्खयासमाहारैर्यथैव सहचारिणि ।

द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वेऽप्यपेक्षिते ॥१८०॥

 

मूर्तिभ्यो मूर्तिधर्माणां तथाऽभेदस्य दर्शनात् ।

समानाधिकरण्यं च क्रियायोगश्च कल्पते ॥१८१॥

 

समानाधिकरण्ये तु मतुब्लोपादपेक्षिते ।

लुक् तद्धितलुकीति स्याल्लुक् तत्राप्युपलक्षणम् ॥१८२॥

 

केषाञ्चित् त्यक्तभेदेषु द्रव्येष्वेव विधीयते ।

संस्त्यानवत्सु टाबादिरभेदेन समन्वयात् ॥१८३॥

 

सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः ।

क्रियाभिर्युज्यते भेदैर्भागशश्चावतिष्ठते ॥१८४॥

 

शुक्लादिष्वाश्रयद्रव्यं प्राधान्येनाभिधीयते ।

स्त्रीत्वं तु प्रत्ययार्थत्वादभिधाविषयो यतः ॥१८५॥

 

सोऽयमित्यभिसम्बन्धादाश्रयं प्रतिपद्यते ।

स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः ॥१८६॥

 

साकाङ्क्षत्वाद् गुणत्वेन सामान्यं वोपदिश्यते ।

व्यक्तीनामात्मधर्मोऽसावेकप्रख्यानिबन्धनः ॥१८७॥

 

एवम्भूता च सावस्था भागभेदपरिग्रहे ।

कृते बुद्ध्यैव भेदानामाश्रयत्वेऽवकल्पिते ॥१८८॥

 

निकृष्टेष्वपि भेदेषु व्यक्तिरूपाश्रये ततः ।

लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते ॥१८७॥

 

अन्तरेण चशब्दस्य प्रयोगं द्वन्द्वभाविनाम् ।

अविशिष्टार्थवृत्तित्वं रूपाभेदात् प्रतीयते ॥१९०॥

 

विकल्पवति वा वृत्तिर्निवर्त्येऽर्थे समुच्चिते ।

तेषामज्ञातशक्तीनां द्योतकेन नियम्यते ॥१९१॥

 

वृत्तौ विशिष्टरुपत्वाच्चशब्दो विनिवर्तते ।

अर्थभेदेऽपि सारूप्यात् तच्चार्थेनापदिश्यते ॥१९२॥

 

चस्य चासत्त्वभूतोऽर्थः स एवाश्रीयते यदि ।

तद्धर्मत्वं ततो द्वन्द्वे चादिष्वर्थकृतं हि तत् ॥१९३॥

 

चार्थः शक्तेः क्वचिद् भेदात् कथञ्चित् समवस्थितः ।

द्योतकाश्चादयस्तस्य वक्ता द्वन्द्वस्तु तद्वताम् ॥१९४॥

 

विकल्पाद्यभिधेयस्य चार्थस्यान्यपदार्थता ।

द्योतकत्वान्न कल्पेत तस्मात् सदुपलक्ष्यते ॥१९५॥

 

तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते ।

शब्दः कश्चित् तमेवार्थं कथञ्चित् प्रतिपद्यते ॥१९६॥

 

शब्दादर्थाः प्रतायन्ते स भेदानां विधायकः ।

अनुमानं विवक्षायाः शब्दादन्यन्न विद्यते ॥१९७॥

 

समुच्चितः स्याद् द्वन्द्वार्थो गुणभूतसमुच्चयः ।

समुच्चयो वापि भवेद् गुणभूतसमुच्चितः ॥१९८॥

 

समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः ।

समुच्चयस्य प्राधान्ये शास्त्रं स्यात् प्रतिपादकम् ॥१९९॥

 

समुच्चयवतोऽर्थस्य प्राधान्येऽप्यपरे विदुः ।

निमित्तानुविधायित्वादसिद्धिं लिङ्गसंख्ययोः ॥२००॥

 

समुच्चयो निमित्तं चेत् स्यान्निमित्तानुवर्तनम् ।

अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः ॥२०१॥


 

समुच्चितनिमित्तत्वे चार्थस्यापगमेऽपि वा ।

स्वाभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते ॥२०२॥

 

पदान्तरस्थस्यार्थस्य द्योतकत्वान्न युज्यते ।

निपातो लिङ्गसङ्ख्याभ्यां द्वन्द्वस्त्वर्थस्य वाचकः ॥२०३॥

 

निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात् ।

गुणप्रधानभावेन क्रियायोगो न कल्पते ॥२०४॥

 

यस्य नास्ति क्रियायोगः स्वतन्त्रोऽसौ न विद्यते ।

अर्थो द्वन्द्वस्य तत्र स्यादुपादानमनर्थकम् ॥२०५॥

 

समुच्चयवतोऽर्थस्य वाचको नानुवर्तते ।

निमित्तमपि चास्यार्थः स्वधर्मैर्युज्यते ततः ॥२०६॥

 

बाह्यो नास्त्याश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ ।

समुच्चयस्तदाधारस्तद्धर्मैर्व्यपदिश्यते ॥२०७॥

 

यो वावयवभेदाभ्यां भेदवद्भ्यामिवान्वितः ।

एकः समूहो धर्मान् स भागयोः प्रतिपद्यते ॥२०८॥

 

एकश्च द्वयात्मकोऽर्थोऽसौ भेदाभेदसमन्वितः ।

यौ भेदावाश्रितस्तत्स्थे लिङ्गसङ्ख्ये प्रपद्यते ॥२०९॥

 

यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते ।

चैत्रशब्दो बहुव्रीहावप्रयोगस्तथा भवेत् ॥२१०॥

 

यथा गौरिति शुक्लादेरभिधानं न विद्यते ।

एवं यस्याभिसम्बन्धो गोभिस्तावत् प्रतीयते ॥२११॥

 

सम्बन्धी नियतो रूढश्चित्राणां न च विद्यते ।

गवां यथा वज्रपाणिस्त्र्यक्षो वापि व्यवस्थितः ॥२१२॥

 

शब्दान्तरत्वाद् वाक्येषु विशेषा यद्यपि श्रुताः ।

वृत्तिशब्दोऽन्य एवायं सामान्यस्याभिधायकः ॥२१३॥

 

अगोरचित्रगोश्चैव रूपभेदान्निवर्तकः ।

एवं चित्रगुविशेषाणां रूपाभेदात्तु वाचकः ॥२१४॥

 

यथा चित्रगुरित्येतत्प्रयुक्ते न प्रयुज्यते ।

एवं यदि स्यात् सामान्यं तस्य न स्यात् प्रतिश्रुतिः ॥२१५॥

 

सर्वादयो विशेषास्तु प्रदेशानां निवर्तकाः ।

यथा प्रदेशाः सामान्यप्रदेशान्तरबाधकाः ॥२१६॥

 

विभक्त्यर्थाभिधानाद् वा षष्ठी नानुप्रयुज्यते ।

द्रव्यस्यानभिधानात्तु तच्छब्दोऽनुप्रयुज्यते ॥२१७॥

 

सामानाधिकरण्यं चेन्मतुब्लोपात् प्रकल्पते ।

मतुपोऽपि तदर्थत्वादनवस्था प्रसज्यते ॥२१८॥

 

सम्बन्धस्य च सम्बन्धी सम्बन्धोऽन्यः प्रसज्यते ।

विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते ॥२१९॥

 

विभक्त्यर्थप्रधानत्वात् ततस्तत्रेति न क्रिया ।

दृश्यादिः कर्मकर्त्रादिनिमित्तत्वाय कल्पते ॥२२०॥

 

अन्तर्भवेच्च सम्बन्धः प्राधान्याभिहितः कथम् ।

स प्रातिपदिकार्थश्च तथाभूतः कथं भवेत् ॥२२१॥

 

असम्भवात्तु सम्बन्धे सम्बन्धसहचारिणि ।

जातिसङ्ख्यासमाहारकार्याणामिव सम्भवः ॥२२२॥

 

सोऽयमित्यभिसम्बन्धाद् विशिष्टाश्रयवाचिनाम् ।

शुक्लादिवल्लिङ्गसङ्ख्ये शास्त्रारम्भाद् भविष्यतः ॥२२३॥

 

भेदेन तु विवक्षायां सामान्ये वा विवक्षिते ।

सलिङ्गस्य ससङ्ख्यस्य पदार्थस्यागतिर्भवेत् ॥२२४॥

 

साधुत्वं न विभक्त्यर्थमात्रे वृत्तस्य दृश्यते ।

कृत्स्नार्थवृत्तेः साधुत्वमित्यर्थग्रहणं कृतम् ॥२२५॥

 

सोऽयमित्यभिसम्बन्धाद् द्रव्यवृत्तिरयं यदा ।

सलिङ्गस्य ससङ्ख्यस्य तदा साधुत्वमुच्यते ॥२२६॥

 

अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा ।

तथाऽश्रुतिः प्रसज्यते लिङ्गसङ्ख्याभिधायिनाम् ॥२२७॥

 

साधर्म्यमव्ययेन स्याद् बहुव्रीहेस्तथा सति ।

लिङ्गसङ्ख्यानिमित्तस्य संस्कारस्यापवर्तनात् ॥२२८॥

 

प्रयुक्तेन च सम्बन्धाच्चैत्रादिश्रवणं भवेत् ।

विना विभक्त्या सम्बन्धो विभक्त्या विद्यते विना ॥२२९॥

 

अभिधानेऽपि सङ्ख्यायां संख्यात्वं न निवर्तते ।

षष्ठ्यर्थस्याभिधाने तु स्यात् प्रातिपदिकार्थता ॥२३०॥

 

अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना ।

वस्त्वन्तरमुपक्षिप्तमिति केचित् प्रचक्षते ॥२३१॥

 

सम्बन्धिभिर्विशिष्टानां सम्बन्धानां निमित्तता ।

सम्बन्धैर्वा विशिष्टानां तद्वतां स्यान्निमित्तता ॥२३२॥

 

केचित् संयोगिनो दण्डाद् विषाणात् समवायिनः ।

तद्वति प्रत्ययानाहुर्बहुव्रीहिं तथैव च ॥२३३॥

 

भिन्नं सम्बन्धिभेदेन सम्बन्धमपरे विदुः ।

निमित्तं सविभक्त्यर्थः समासेनाभिधीयते ॥२३४॥

 

प्रधानमन्यार्थतया भिन्नं स्वैरूपसर्जनैः ।

निमित्तमभिधेयं वा सर्वपश्चादपेक्ष्यते ॥२३५॥

 

स्वामिनि व्यतिरेकश्च वाक्ये यद्यपि दृश्यते ।

प्राधान्य एव तस्येष्टो बहुव्रीहिर्विवक्षिते ॥२३६॥

 

गवां विशेषणत्वेन यदा तद्वान् प्रवर्तते ।

अस्यैता इति तत्रार्थे बहुव्रीहिर्न विद्यते ॥२३७॥

 

यदा प्रत्यवमर्शस्तु तासां स्वामी गवामिति ।

गोभिस्तदाभिसम्बन्धो निमित्तत्वाय कल्पते ॥२३८॥

 

अपेक्षमाणः सम्बन्धं रूढित्वस्य निवृत्तये ।

निमित्तानुविधायित्वात् तद्धर्मार्थः प्रसज्यते ॥२३९॥

 

नानाचित्रा इति यथा निमित्तमनुरुध्यते (वर्तते)।

नानाभूतेऽपि वृत्तः सन् बहुव्रीहिस्तथा भवेत् ॥२४०॥

 

सम्बन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते ।

लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते ॥२४१॥

 

संख्यावाँल्लिङ्गवांश्चार्थोऽभिन्नधर्मा निमित्ततः ।

आसन्न एव द्रव्यत्वात् तद्धर्मैर्न विरुध्यते ॥२४२॥

 

विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम् ।

द्रव्यं शुद्धस्य यो धर्मः स न स्यादन्यधर्मणः ॥२४३॥

 

द्रव्यमात्रस्य निर्देशे भेदोऽयमविवक्षितः ।

ग्रन्थे पूर्वत्र भेदस्तु द्वितीयेऽनुप्रदर्शितः ॥२४४॥

 

द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम् ।

द्रव्याश्रितत्वं हि तयोस्ततोऽन्यस्य न सिध्यतः ॥२४५॥

 

सम्बन्धिभिन्नसम्बन्धपरिच्छिन्ने प्रवर्तते ।

समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि ॥२४६॥

 

द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्ववस्थितः (ष्वशक्तितः) ।

भविष्यदाश्रयापेक्षे लिङ्गसङ्ख्ये प्रपद्यते ॥२४७॥

 

शास्त्रप्रवृत्तिभेदेऽपि लौकिकार्थो न भिद्यते ।

नञ्समासे यतस्तत्र त्रयः पक्षा विचारिताः ॥२४८॥

 

शब्दान्तरेऽपि चैकत्वमाश्रित्यैव विचारणा ।

अब्राह्मणादिषु नञः प्रयोगो न हि विद्यते ॥२४९ ॥

 

प्राक् समासात् पदार्थानां निवृत्तिर्द्योत्यते नञा ।

स्वभावतो निवृत्तानां रूपाभेदादलक्षिता ॥२५०॥

 

ब्राह्मणादिस्थया वाक्येष्वाख्यातपदवाच्यया ।

क्रियया यस्य सम्बन्धो वृत्तिस्तस्य न विद्यते ॥२५१॥


 

पाचकादिपदस्था चेन्नञा सम्बध्यते क्रिया ।

तत्र सत्तानुपादानात् त्रिपक्षी नोपपद्यते ॥२५२॥

 

सत्तयैवाभिसम्बन्धो यदि सर्वत्र कल्प्यते ।

असन्निति समासेऽस्मिन् सत्तान्या परिकल्प्यताम् ॥२५३॥

 

क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते ।

विशेषणविशेष्यत्वं नञा (नञः) सत्ताभिधायिना ॥२५४॥

 

क्रियायाः साधनाधारसामान्ये नञ् व्यवस्थितः ।

ततो विशिष्टैराधारैर्युज्यते ब्राह्मणादिभिः ॥२५५॥

 

वृत्तौ यथा गताद्यर्थमुपादाय निरादयः ।

युज्यन्ते साधनाधारैर्नञ्समासेऽपि स क्रमः ॥२५६ ॥

 

तत्रासति नञो वृत्तेर्ब्राह्मणक्षत्रियादिभिः ।

विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् ॥२५७॥

 

कामचारे च सत्येवमसतः स्यात् प्रधानता ।

गुणत्वमितरेषां च तेषां वा स्यात् प्रधानता ॥२५८॥

 

प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः ।

विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रियादयः ॥२५९॥

 

यथा गौरादिभिस्तेषामवच्छेदो विधीयते ।

असताप्यनभिव्यक्तं तादात्म्यं व्यज्यते तथा ॥२६०॥

 

यथा सत्ताभिधानाय सन्नर्थः परिकल्प्यते।

तथा सत्ताभिधानाय निरुपाख्यो विकल्प्यते ॥२६१॥

 

क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया ।

जात्या भिन्नां ततः सत्तां प्रसक्तामपकर्षति ॥२६२॥

 

अभाव इति भावस्य प्रतिषेधे विवक्षिते ।

सोपाख्यत्वमनाश्रित्य प्रतिषेधो न कल्पते ॥२६३॥

 

अनेकधर्मवचनैः शब्दैः सङ्घाभिधायिभिः ।

एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥२६४॥

 

यथैकदेशकरणात् कृत इत्यभिधीयते ।

अकृतश्चेति सङ्घातः स एवाब्राह्मणे क्रमः ॥२६५॥

 

ब्राह्मणोऽब्राह्मणस्तस्मादुपन्यासात् प्रसज्यते ।

अकृते वा कृतासङ्गादविशिष्टं कृताकृतात् ॥२६६॥

 

अमुख्यसम्भवे तत्र मुख्यस्य विनिवृत्तये ।

शास्त्रान्वाख्यानसमये नञ् प्रयुक्तो विशेषकः ॥२६७॥

 

पदार्थानुपघातेन दृश्यते न विशेषणम् ।

अथ जातिमतोऽर्थस्य कश्चिद् धर्मो निवर्तितः ॥२६८॥

 

अवश्यं ब्राह्मणे कश्चित् क्वचिद् धर्मो न विद्यते ।

विशेषावचनात् तत्र नञः श्रुतिरनर्थिका ॥२६९॥

 

अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते ।

अन्वाख्यानाद्धि साधुत्वमेवम्भूते प्रतीयते ॥२७०॥

 

पदार्थानुपघातेन यद्यप्यत्र विशेषणम् ।

उपचारसतोऽर्थस्य सावस्था द्योत्यते नञा ॥२७१॥

 

विशेष्येषु यथाभूतः पदार्थः समवस्थितः ।

तथाभूते तथाभावो गम्यते भेदहेतुभिः ॥२७२॥

 

निवृत्तेऽवयवस्तस्मिन् पदार्थे वर्तते कथम् ।

नानिमित्ता हि शब्दस्य प्रवृत्तिरुपपद्यते ॥२७३॥

 

आराच्छब्दवदेकस्य विरुद्धेऽर्थे स्वभावतः ।

शब्दस्य वृत्तिर्यद्यस्ति नञः श्रुतिरनर्थिका ॥२७४॥

 

अथ स्वभावो वचनादन्वाख्येयत्वमर्हति ।

तद्वाच्यमप्रसिद्धत्वान्नञार्थो विनिवर्त्यते ॥२७५॥

 

यद्यप्युभयवृत्तित्वं प्रधानं तु प्रतीयते ।

प्रस्थानं गम्यते शुद्धे तदर्थेऽपि न तिष्ठतौ ॥२७६॥

 

किमर्थमतथाभूते सति मुख्यार्थसम्भवे ।

भेदे ब्राह्मणशब्दस्य वृत्तिरभ्युपगम्यते ॥२७७॥

 

अयं पदार्थ एतस्मिन् क्षत्रियादौ न विद्यते ।

इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते ॥२७८॥

 

बुद्धेर्विषयतां प्राप्ते शब्दादर्थे प्रतीयते ।

प्रवृत्तिर्वा निवृत्तिर्वा श्रुत्या ह्यर्थोऽनुषज्यते ॥२७९॥

 

असम्यगुपदेशाद् वा निमित्तात् संशयस्य वा ।

शब्दप्रवृत्तिर्न त्वस्ति लोष्टादिषु विपर्ययम् ॥२८०॥

 

अनेकस्मादस इति प्राधान्ये सति सिध्यति ।

सापेक्षत्वं प्राधानानामेवं युक्तं त्वतल्विधौ ॥२८१॥

 

एकस्य च प्रधानत्वात् तद्विशेषणसन्निधौ ।

प्रधानधर्माव्यावृत्तिरतो न वचनान्तरम् ॥२८२॥

 

प्रधानमत्र भेद्यत्वादेकार्थो विकृतो नञा ।

हित्वा स्वधर्मान् वर्तन्ते द्व्यादयोऽप्येकतां गताः ॥२८३॥

 

ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः ।

द्वित्वादिषु तथैकत्वं नञ्योगादुपचर्यते ॥२८४॥

 

एकत्वयोगमासज्य स धर्मः प्रतिषिध्यते ।

द्व्यादिभ्यस्तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् ॥२८५॥

 

आविष्टसङ्ख्यो वाक्येऽसौ यथा द्व्यादौ प्रयुज्यते ।

वृत्तौ तस्य प्रधानत्वात् सा सङ्ख्या न निवर्तते ॥२८६॥

 

प्रतिषेध्यो यथाभूतस्तथाभूतोऽनुषज्यते ।

वचनान्तरयोगे हि न सोऽर्थः प्रतिषिध्यते ॥२८७॥

 

अशुक्ल इति कृष्णादिर्यथार्थः सम्प्रतीयते ।

सङ्ख्यान्तरं तथानेक इत्यत्राप्यभिधीयते ॥२८८॥

 

क्रियाप्रसङ्गात् सर्वेषु कर्मस्वङ्गीकृतेषु च ।

एकस्मिन् प्रतिषिद्धेऽपि प्राप्तमन्यत् प्रतीयते ॥२८९॥

 

क्रिया श्रुतिश्च प्रक्रान्ते प्रसज्यप्रतिषेधने ।

पर्युदासे तु नियतं सङ्ख्येयान्तरमुच्यते ॥२९०॥

 

धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः ।

अर्थात् सर्वाणि कर्माणि प्रागाक्षिप्यावतिष्ठते ॥२९१॥

 

निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते ।

अनेक इति पश्चाच्च तिष्ठतीत्यनुष्ज्यते ॥२९२॥

 

साध्यत्वात् तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते ।

प्रागेवाङ्गीकृतं द्रव्यमतः पूर्वेण भिद्यते ॥२९३॥

 

सङ्ख्यैव प्रतिषेधेन सङ्ख्यान्तरमपेक्षते ।

वाक्येऽपि तेन नैकत्वमात्रमेव निवर्त्यते ॥२९४॥

 

स्नेहान्तरादवच्छेदा यस्तथासत्तेः प्रतीयते ।

तैलेन भोजने प्राप्ते न त्वन्यदुपसेचनम् ॥२९५॥

 

एकार्थे वर्तमानाभ्यामसता ब्राह्मणेन च ।

यदा जात्यन्तरं बाह्यं क्षत्रियाद्यपदिश्यते ॥२९६॥

 

श्यामेव शस्त्री कन्येति यथान्यद् व्यपदिश्यते ।

असन् ब्राह्मण इत्याभ्यां तथान्ये क्षत्रियादयः ॥२९७॥

 

असास्नो गौरिति यथा गवयो व्यपदिश्यते ।

जात्यन्तरं न गोरेव सास्नाऽभावः प्रतीयते ॥२९८॥

 

तुल्यरूपं यथाख्यातं कण्टकै(कङ्कटै)र्भेदहेतुभिः ।

खदिरं जातिभेदेन खर्जूरात्(बर्बूरात्) प्रतिपद्यते ॥२९९॥

 

अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत् ।

अङ्गीकृतोपमानेन तथान्यार्थोभिऽधीयते ॥३००॥

 

अवृष्टयो यथावर्षा नीहाराभ्रसमावृताः ।

तद्रूपत्वात् स हेमन्त इत्यभिन्नः प्रतीयते ॥३०१॥


 

अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम् ।

द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते ॥३०२॥

 

न चैवंविषयः कश्चिद् बहुव्रीहिः प्रकल्पते ।

अगुरश्च इति व्याप्तिर्नञ्समासेन यस्य न ॥३०३॥

 

द्वन्द्वैकदेशिनोरुक्ता परवल्लिङ्गता यतः ।

अवर्षासु ततोऽसिद्धिरिष्टयोर्लिङ्गसंख्ययोः ॥३०४॥

 

विशेषणं ब्राह्मणादि क्रियासंबन्धिनोऽसतः ।

यदा विषयभिन्नं तत् तदाऽसत्त्व प्रतीयते ॥३०५॥

 

ब्राह्मणत्वेन चासत्त्वादुच्यतेऽसत्तदन्यथा ।

असदित्यपि सत्त्वेन सतः सत्ता निवर्त्यते ॥३०६॥

 

सामान्यद्रव्यवृत्तित्वान्निमित्तानुविधायिनः ।

अयोगो लिङ्गसंख्याभ्यां स्याद् वा सामान्यधर्मता ॥३०७॥

 

प्रागसत्त्वाभिधायित्वं समासे द्रव्यवाचिता ।

निमित्तानुविधानं च न सर्वत्र स्वभावतः ॥३०८॥

 

निमित्तानुविधाने च क्रियायोगो न कल्पते ।

तथाचाव्यपदेश्यत्वादुपादानमर्थकम् ॥३०९॥

 

असत्सामान्यवृत्तिर्वा विशेषैः क्षत्रियादिभिः ।

प्रयुक्तैराश्रयैर्भिन्नो याति तल्लिङ्गसङ्ख्यताम् ॥३१०॥

 

प्रागाश्रयो हि भेदाय प्रधानेऽभ्यन्तरीकृतः ।

पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते ॥३११॥

 

समासे श्रूयते स्वार्थो येन तद्वास्तदाश्रयः ।

द्रव्यं तु लिङ्गसङ्ख्यावदसताभ्यन्तरीकृतम् ॥३१२॥

 

एकार्थविषयौ शब्दौ तस्मिन्नन्यार्थवर्तिनौ ।

असतैव तु भेदानां सर्वेषामुपसंग्रहः ॥३१३॥

 

ते क्षत्रियादिभिर्वाच्या वाच्या वा सर्वनामभिः ।

यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् ॥३१४॥

 

विशेषस्याप्रयोगे तु लिङ्गसङ्ख्ये न सिध्यतः ।

अवर्षादिषु दोषश्च हेमन्तोऽन्याश्रयो यतः ॥३१५॥

 

आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते ।

एकत्वादेकशब्दत्वं न्याय्यं तस्या च वर्ण्यते ॥३१६॥

 

आविष्टलिङ्गता तस्यां स्याद् ग्राम्यपशुसङ्घवत् ।

द्रव्यभेदेऽपि चैकत्वात् तत्रैकवचनं भवेत् ॥३१७॥

 

आश्रयाणां हि लिङ्गैः सा नियतैरेव युज्यते ।

तथा च युक्तावद्भावे प्रतिषेधो निरर्थकः ॥३१८॥

 

सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे ।

विरोधित्वात् प्रसज्येत नाश्रितं तच्च लौकिकम् ॥३१९॥

 

सामान्यमाकृतिर्भावो जातिरित्यत्र लौकिकम् ।

लिङ्गं न सम्भवत्येव तेनान्यत् परिगृह्यते ॥३२०॥

 

प्रवृत्तिरिति सामान्यं लक्षणं तस्य कथ्यते ।

आविर्भावस्तिरोभावः स्थितिश्चेत्यथ भिद्यते ॥३२१॥

 

प्रवृत्तिमन्तः सर्वेऽर्थास्तिसृभिश्च प्रवृत्तिभिः ।

सततं न वियुज्यन्ते वाचश्चैवात्र सम्भवः ॥३२२॥

 

यश्चाप्रवृत्तिधर्मार्थश्चितिरूपेण गृह्यते ।

अनुयातीव सोऽन्येषां प्रवृत्तीर्विष्वगाश्रयाः ॥२२३॥

 

तेनास्य चितिरूपं च चितिकालश्च भिद्यते ।

तस्य स्वरूपभेदस्तु न कश्चिदपि विद्यते ॥३२४॥

 

अचेतनेषु संक्रान्तं चैतन्यमिव दृश्यते ।

प्रतिबिम्बकधर्मेण यत्तच्छब्दनिबन्धनम् ॥३२५॥

 

अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते ।

क्वचित्तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति ॥३२६॥

 

कृत्तद्धिताभिधेयानां भावानां न विरुध्यते ।

शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिरिष्यते ॥३२७॥

 

लिङ्गं प्रति न भेदोऽस्ति द्रव्यपक्षेऽपि कश्चन ।

तस्मात् सप्त विकल्पा ये सैवात्राविष्टलिङ्गता ॥३२८॥

 

वचने नियमः शास्त्राद् द्रव्यस्याभ्युपगम्यते ।

यतस्तदाकृतौ शास्त्रमन्यथैव समर्थ्यते ॥३२९॥

 

वर्तते यो बहुष्वर्थो भेदे तस्य विवक्षिते ।

स्वाश्रयैर्व्यपदिष्टस्य शास्त्रे वचनमुच्यते ॥३३०॥

 

यदा त्वाश्रयभेदेन भेद एव प्रतीयते ।

आकृतेर्द्रव्यपक्षेण तदा भेदो न विद्यते ॥३३१॥

 

अभेदे त्वेकश्ब्दत्वाच्छास्त्राच्च वचने सति ।

एकशेषो न वक्तव्यो वचनानां च सम्भवः ॥३३२॥

 

ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः ।

आकृतेरुपकारोऽयं द्रव्याभावान्न कल्पते ॥३३३॥

 

व्यपदेशोऽभिधेयेन न शास्त्रे कश्चिदाश्रितः ।

द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते ॥३३४॥

 

गुणभावोऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः ।

उपकारी गुणः शेषः पदार्थ इति कल्पना ॥३३५॥

 

द्रव्ये न गुणभावोऽस्ति विना द्रव्याभिधायिताम् ।

आकृतौ वा प्रधानत्वमत एवं समर्थ्यते ॥३३६॥

 

कैश्चिद् गुणप्रधानत्वं नामाख्यातवदिष्यते ।

न वृत्तिवत् परार्थस्य गुणभावस्तु वर्ण्यते ॥३३७॥

 

गुणभूतस्य नानात्वादाकृतेरेकशब्दता ।

सिद्धो वचनभेदश्च द्रव्यभेदसमन्वयात् ॥३३८॥

 

साधनं गुणभावेन क्रियाया भेदकं यथा ।

आख्यातेष्वेकशब्दाया जातेर्द्रव्यं तथोच्यते ॥३३९॥

 

एकत्वे तुल्यरूपत्वाच्छब्दानां प्रतिपादने ।

निमित्तात् तद्वतोऽर्थस्य विशिष्टग्रहणे सति ॥३४०॥

 

सोऽयमित्यभिसम्बन्धादाश्रयैराकृतेः सह ।

प्रवृतौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः ॥३४१॥

 

प्राक् च जात्यभिसंबन्धात् सर्वनामाभिधेयता ।

वस्तूपलक्षणाः सत्त्वे प्रयुज्यन्ते त्यदादयः ॥३४२॥

 

पाकौ पाका इति यथा भेदकः कैश्चिदाश्रयः ।

इष्यते चानुपादानो धर्मोऽसौ गुणवाचिनाम् ॥३४३॥

 

आश्रयस्यानुपादाने केवलं लभते यदि ।

आधारधर्मान् सामान्यं पुरस्तात् तद्विचारितम् ॥३४४॥

 

जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम् ।

अशब्दवाच्यात् सम्बन्धाद् व्यक्तिरप्युपजायते ॥३४५॥

 

सोऽयमित्यभिसम्बन्धाज्जतिधर्मोपचर्यते ।

द्रव्यं तदाश्रयो भेदो जातेश्चाभ्युपगम्यते ॥३४६॥

 

मञ्चशब्दो यथाऽऽधेयं मञ्चेष्वेव व्यवस्थितः ।

तत्त्वेनाह तथा जातिशब्दो द्रव्येषु वर्तते ॥३६७॥

 

तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते ।

जातिरुत्सृष्टसङ्ख्या तु द्रव्यात्मन्यनुषज्यते ॥३४८॥

 

अस्येदमिति वा यत्र सोऽयमित्यपि वा श्रुतिः ।

वर्तते परधर्मेण तदन्यदभिधीयते ॥३४९॥

 

यत् प्रधानं न तस्यास्ति स्वरूपमनिरूपणात् ।

गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते ॥३५०॥

 

गुणस्य भेदकाले तु प्राधान्यमुपजायते ।

संसर्गश्रुतिरर्थेषु साक्षादेव न वर्तते ॥३५१॥


 

जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः ।

जातेरेव पदार्थत्वं न तदाभ्युपगम्यते ॥३५२॥

 

प्रवृत्तानां पुनर्वृत्तिरेकत्वेनोपवर्ण्येते ।

प्रतिपत्तेरुपायेषु न तत्त्वमनुगम्यते ॥३५३॥

 

अपृथक्छदवाच्यस्य जातिराश्रीयते यदा ।

द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता ॥३५४॥

 

द्रव्यस्य सति संस्पर्शे द्रव्यमाश्रीयते यदा ।

वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता ॥३५५॥

 

अपृथक्च्छब्दवाच्यापि भेदमात्रे प्रवर्तते ।

यदा सम्बन्धवज्जाति: सापि द्रव्यपदार्थता ॥३५६॥

 

अत्यन्तभिन्नयोरेव जातिद्रव्याभिधायिनोः ।

अवाच्यस्योपकारित्व आश्रिते तूभयार्थता ॥३५७॥

 

आश्रिते त्वाश्रयकृतं भेदमभ्युपगच्छता ।

पुनश्चाप्येकशब्दत्वं जातिशब्देऽनुवर्णितम् ॥३५८॥

 

अनिर्ज्ञातस्य निर्ज्ञानं येन तन्मानमुच्यते ।

प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते ॥३५९॥

 

अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते ।

साकल्येनापरिज्ञानादुपमानं तदुच्यते ॥३६०॥

 

द्वयोः समानो यो धर्म उपमानोपमेययोः ।

समास उपमानानां शब्दैस्तदभिधायिभिः ॥३६१॥

 

आधारभेदाद् भेदो यः श्यामत्वे सोऽविवक्षितः ।

गुणोऽसावाश्रितैकत्वो भिन्नाधारः प्रतीयते ॥३६२॥

 

गुणयोर्नियतो भेदः गुणजातेस्तथैकता ।

एकत्वेऽत्यन्तभेदे वा नोपमानस्य सम्भवः ॥३६३॥

 

जातिमात्रव्यपेक्षायामुपमार्थो न कश्चन ।

श्यामत्वमेकं गुणयोरुभयोरपि वर्तते ॥३६४॥

 

येनैव हेतुना श्यामा शस्त्री तत्र प्रवर्तते(प्रतीयते) ।

स हेतुर्देवदत्तायाः प्रत्यये न विशिष्यते ॥३६५॥

 

आश्रयाद् यो गुणे भेदो जातेर्या चाविशिष्टता ।

ताभ्यामुभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते ॥३६६॥

 

सोऽयमेकत्वनानात्वे व्यवहारः समाश्रितः ।

भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते ॥३६७॥

 

श्यामेत्येवाभिधीयेत जातिमात्रे विवक्षिते ।

शस्त्र्यादीनामुपादाने तत्र नास्ति प्रयोजनम् ॥३६८॥

 

अशब्दवाच्यो यो भेद: श्याममात्रे न वर्तते ।

श्यामेषु केषुचिद् वृत्तिर्यस्य सोऽत्र व्यपेक्ष्यते ॥३६९॥

 

श्यामेषु केषुचित् किञ्चित् किञ्चित् सर्वत्र वर्तते ।

सामान्यं कश्चिदेकस्मिन् श्यामे भेदो व्यवस्थितः ॥३७०॥

 

तथाहि सति सौरभ्ये भेदो जात्युत्पलादिषु ।

गन्धानां सति भेदे तु सादृश्यमुपलभ्यते ॥३७१॥

 

गुणानामाश्रयाद् भेदः स्वतो वाप्यनुगम्यते ।

अनिर्देश्याद् विशेषाद्वा सङ्कराद्वा गुणान्तरैः ॥३७२॥

 

उपमानं प्रसिद्धत्वात् सर्वत्र व्यतिरिच्यते ।

उपमेयत्वमाधिक्ये साम्ये वा न निवर्तते ॥३७३॥

 

अन्यैस्तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते ।

अनिर्ज्ञातस्वरूपो हि ज्ञेयोऽर्थस्तेन मीयते ॥३७४॥

 

मितस्तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः ।

आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते ॥३७५॥

 

रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम् ।

भिन्नेन यस्य भेद्यानामुपमानं तदुच्यते ॥३७६॥

 

धर्मः समानः श्यामादिरुपमानोपमेययोः ।

आश्रीयमाणप्राधान्यो धर्मेणान्येन भिद्यते ॥३७७॥

 

शस्त्रीकुमार्योः सदृशः श्याम इत्येवमाश्रिते ।

व्यपदेश्यमनेनेति निमित्तं गुणयो: स्थितम् ॥३७८॥

 

यदा निमित्तैस्तद्वन्तो गच्छन्तीव तदात्मताम् ।

भेदाश्रयं तदाख्यानमुपमानोपमेययोः ॥३७९॥

 

तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते ।

लुप्तोपमानि तान्याहुस्तद्धर्मेण समाश्रयात् ॥३८०॥

 

शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते ।

अन्या श्यामा तु तद्रूपा(त्वतद्रूपा) तेनात्यन्तं न मीयते ॥३८१॥

 

शस्त्रीं स्वेन गुणेनातो मिमानामाश्रयान्तरम् ।

असमाप्तगुणं सिद्धेरुपमानं प्रचक्षते ॥३८२॥

 

उपमेये स्थितो धर्मः श्रुतोऽन्यत्रानुमीयते ।

श्रुतोऽथवोपमानस्थ उपमेयेऽनुमीयते ॥३८३॥

 

अधीयते ब्राहाणवत् क्षत्रिया इति दृश्यते ।

उपमेयस्य भिन्नत्वाद्वचनं क्षत्रियाश्रयम् ॥३८४॥

 

साधारणं ब्रुवन् धर्मं क्वचिदेव व्यवस्थितम् ।

सामान्यवचनः शब्द इति सूत्रेऽपदिश्यते ॥३८५॥

 

नाभेदेन न भेदेन गुणो द्विष्ठोऽभिधीयते ।

भिन्नयोर्धर्मयोरेकः श्रूयतेऽन्यः प्रतीयते ॥३८६॥

 

नात्यन्ताय मिमीते यत् सामान्ये समवस्थितम् ।

सादृश्यादुपमेयार्थः समीपे परिकल्प्यते ॥३८७॥

 

मानं प्रति समीपं वा सादृश्येन प्रतीयते ।

परिच्छेदाद्धि सादृश्यमिह मानोपमानयोः ॥३८८॥

 

एकजातिव्यपेक्षायां तदेवेत्यवसीयते ।

भेदस्यैव व्यपेक्षायामन्यदेवेति गम्यते ॥३८९॥

 

कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः ।

अत्यन्तैकत्वविषयान्न स्यात् तेनात्र संशयः ॥३९०॥

 

भेदेन तुल्यरूपत्वाच्छालींस्तानिति दृश्यते ।

जात्यभेदात् स एवायमिति भिन्नोऽभिधीयते ॥३९१॥

 

कथं ह्यवयवोऽन्यस्य स्यादन्य इति चोच्यते ।

अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते ॥३९२॥

 

अभेदस्य विवक्षायामेकत्वं सङ्घसङ्घिनोः ।

सङ्घिनोर्न त्वभेदोऽस्ति तथान्यत्वमुदाहृतम् ॥३९३॥

 

तत्राभिन्नव्यपेक्षायामुपमार्थो न विद्यते ।

यो हि गौरिति विज्ञाने हेतुः सोऽस्ति गवान्तरे ॥३९४॥

 

व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षते ।

न कश्चिदुपकारोऽस्ति बुद्धेर्बुद्ध्यन्तरं प्रति ॥३९५॥

 

किञ्चिद् यत्रास्ति सामान्यं यदि भेदाश्च केचन ।

गोत्वं गोष्वस्ति सामान्यं भेदाश्च शबलादयः ॥३९६॥

 

सामान्यं श्यामताद्येव तद्धि साधारणं द्वयोः ।

तदेव सिद्ध्यसिद्धिभ्यां भेद इत्यपदिश्यते ॥३९७॥

 

श्यामत्वमेव सामान्यमन्येषामुभयोः स्थितम् ।

सम्पूर्णत्वात् तदन्यस्माद् विशेष इति गम्यते ॥३९८॥

 

आकृतौ वापि सामान्ये क्वचिदेव व्यवस्थिताः ।

श्यामादयोऽवसीयन्ते विशेषास्त इहाश्रिताः ॥३९९॥

 

जातेरभेदे भेदे वा सादृश्यं तत् प्रचक्षते ।

कश्चित् कदाचिदर्थात्मा तथोभूतोऽपदिश्यते ॥४००॥

 

यत्रार्थे प्रत्ययाभेदो न कदाचिद् विकल्पते ।

अविद्यमानभेदत्वात् स एक इति गम्यते ॥४०१॥


 

योऽर्थ आश्रितनानात्वः स एवेत्यपदिश्यते ।

व्यापारं जातिभागस्य तत्रापि प्रतिजानते ॥४०२॥

 

जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते ।

व्यक्तिभागाश्रया बुद्धिस्तत्र भेदेन जायते ॥४०३॥

 

अन्यत्र वर्तमानं सद् भेदाभेदसमन्वितम् ।

निमित्तं पुनरन्यत्र नानात्वेनेव गृह्यते ॥४०४॥

 

आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम् ।

स सादृश्यस्य विषय इत्यन्यैरपदिश्यते ॥४०५॥

 

परापेक्षे यथा भावे कारणाख्या प्रवर्तते ।

तथान्याधिगमापेक्षमुपमानं प्रचक्षते ॥४०६॥

 

गुरुशिष्यपितापुत्रक्रियाकालादयो यथा ।

व्यवहारास्तथौपम्यमप्यपेक्षानिबन्धनम् ॥४०७॥

 

श्यामत्वमुपमाने चेद् वृत्तं वृत्तौ प्रयुज्यते ।

उपमेयं समासेन बाह्यं तत्राभिधीयते ॥४०८॥

 

टाबन्त एव चैत्रादौ श्यामाशब्दस्तथा भवेत् ।

सूत्रे च प्रथमाभावान्न श्यामाद्युपसर्जनम् ॥४०९॥

 

अथवैकविभक्तित्वाद् गुणत्वाद् वोपसर्जनम् ।

नैव तित्तिरिकल्माष्यामिष्टः स्त्रीप्रत्ययो भवेत् ॥४१०॥

 

सति शिष्टबलीयस्त्वाद् बाह्ये ङीषि च सत्यपि ।

उपमानस्वरो न स्यात् तस्मात् स्त्र्यन्त: समस्यते ॥४११॥

 

गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते ।

प्राधान्यस्य(प्रधानस्य) तथा न स्याद् व्याघ्रादौ लिङ्गदर्शनम् ॥४१२॥

 

तस्मात् सति गुणत्वेऽपि प्राधान्यं विग्रहान्तरे ।

नैवञ्जातीयकं शास्त्रे सम्भवत्युपसर्जनम् ॥४१३॥

 

उपमेयात्मनि श्यामे वर्तमानोऽभिधीयते ।

उपमानेष्वनिर्दिष्टः सामर्थ्यात् सम्प्रतीयते ॥४१४॥

 

द्रव्यमात्रेऽपि निर्दिष्टे चन्द्रवक्त्रेऽनुगम्यते ।

विशिष्ट इव चन्द्रस्थो गुणो नोपप्लवादयः ॥४१५॥

 

भेदभावनयैतच्च समासेऽप्युपवर्ण्यते ।

विशिष्टगुणभिन्नेऽर्थे पदमन्यत् प्रयुज्यते ॥४१६॥

 

यदि भिन्नाधिकरणो वचनादनुगम्यते ।

मृगीव चपलेत्यत्र पुंवद्भावो न सिध्यति ॥४१७॥

 

अस्त्रीपूर्वपदत्वात् तु पुंवद्भावो भविष्यति ।

तथैव मृगदुग्धादौ न चेत् स्त्र्यर्थो विवक्ष्यते ॥४१८॥

 

शस्त्रीव शस्त्री श्यामेति देवदतैव कथ्यते ।

तस्यामेवोभयं तस्मादुच्यते शास्त्रविग्रहे ॥४१९॥

 

पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च ।

बह्वपेक्ष्यमतस्तस्यामुभयप्रतिपादनम् ॥४२०॥

 

श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते ।

तत्रोपमानेतरयोः श्यामेत्येतदपेक्ष्यते ॥४२१॥

 

अथ श्यामेव शस्त्रीयं श्यामेत्येवं प्रयुज्यते ।

शस्त्री यथेयं श्यामेति तावदेव प्रतीयते ॥४२२॥

 

उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः ।

पृथग् द्वयोः श्रुतोऽप्येष नेष्टस्यार्थस्य वाचकः ॥४२३॥

 

उपमेयं तु यद् वाच्यं तस्य चेत् प्रतिपादने ।

सव्यापारा गुणास्तत्र सर्वस्योक्तिः सकृछ्रुतौ ॥४२४॥

 

प्रकाराधारभेदेन विशेषे समवस्थितः ।

शब्दान्तराभिसम्बन्धे सामान्यवचनः कथम् ॥४२५॥

 

सादृश्यमात्रं सामान्यं द्विष्ठं कैश्चित् प्रतीयते ।

गुणो भेदेऽप्यभेदेन द्विवृत्तिर्वा विवक्षितः ॥४२६॥

 

व्यापारो जातिभागस्य द्रव्ययोर्वाभिधित्सितः ।

रूपात् सामान्यवाचित्वं प्राग्वा वृत्तेरुदाहृतम् ॥४२७॥

 

व्याघ्रशब्दो यदा शौर्यात् पुरुषार्थोऽवतिष्ठते ।

तदाधिकरणाभेदात् समासस्यास्ति सम्भवः ॥४२८॥

 

शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः ।

भिन्नेऽधिकरणे वृत्तेस्तत्र नैवास्ति सम्भवः ॥४२९॥

 

सामानाधिकरण्येऽपि गुणभेदस्य सम्भवात् ।

प्रयोगः शूरशब्दस्य समासेऽप्यनुषज्यते ॥४३०॥

 

पूजोपाधिश्च यो दृष्टः कुत्सनोपाधयश्च ये ।

तेषां भिन्ननिमित्तत्वान्नियमार्था पुनः श्रुतिः ॥४३१॥

 

असम्भवेऽपि वा वृत्तेः स्यादेतल्लिड्गदर्शनम् ।

अच्वेरिति यथा लिड्गमभावेऽपि भृशादिषु ॥४३२॥

 

वत्यन्तावयवे वाक्ये यदौपम्यं प्रतीयते ।

तत्प्रत्ययविधौ सूत्रे निर्देशोऽयं विचार्यते ॥४३३॥

 

क्रियेत्युपाधिः प्राथम्यात् प्रकृत्यर्थस्य यद्यपि ।

न प्रातिपदिकं तत्र क्रियावाच्युपपद्यते ॥४३४॥

 

सत्त्ववृत्तस्य शेषे वा तृतीया साधनेऽपि वा ।

तिङामसत्त्ववाचित्वादुभयं तन्न विधते ॥४३५॥

 

पाकादयस्तृतीयान्ताः सत्त्वधर्मसमन्वयात् ।

न क्रियेत्यपदिश्यन्ते कृत्वोर्थप्रत्यये यथा ॥४३६॥

 

ये चाव्ययकृतः केचित् क्रियाधर्मसमन्विताः ।

तेषामसत्त्ववाचित्वं तिङन्तैर्न विशिष्यते ॥४३७॥

 

कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया ।

उपमानोपमेयत्वं तत्रात्यन्तमसम्भवि ॥४३८॥

 

न केवलौ द्रव्यगुणौ तद्वान् वाप्युपमीयते ।

शयितव्यादिभिस्तेषु नोपमार्थोऽस्ति कश्चन ॥४३९॥

 

उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि ।

निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः ॥४४०॥

 

होतव्यसदृशो होतेत्यत्राप्यर्थो न विद्यते ।

विरोधात् क्रियया तस्मात् क्रियावान् नोपमीयते ॥४४१॥

 

क्रिया समानजातीया तद्भावान्नोपमीयते ।

जातिभेदेऽपि पाकेन(वा केन) भिन्नाः पाकादयः क्रियाः ॥४४२॥

 

आधारभेदाद् भिन्नायामुपमानस्य सम्भवः ।

अध्येतव्येन विप्राणां तुल्यमध्ययनं विशाम् ॥४४३॥

 

अर्थात् प्रकरणाद् वापि यत्रोपेक्ष्यं प्रतीयते ।

सामर्थ्यादनपेक्षस्य तस्य वृत्तिः प्रसज्यते ॥४४४॥

 

तैलपाकेन तुल्ये च घृतपाके विवक्षिते ।

क्रियावदपि कार्याणां दर्शनात् प्रत्ययो भवेत् ॥४४५॥

 

अतिङ्ग्रहणमेवं तु समासस्य निवर्तकम् ।

गमनं कारकस्येति ण्वुल्यन्यस्मिन्न संभवेत् ॥४४६॥

 

सर्वस्य परिहारार्थं समुदायत्वमाश्रितम् ।

शुद्धायाः संभवान्न स्यात् क्रियाया ब्राह्मणादिषु ॥४४७॥

 

उपमानविवक्षायां स्वधर्मश्च निवर्तते ।

क्रियाया न श्रुताद् यस्मादुपमानं समाप्यते ॥४४८॥

 

तृतीयोऽप्याश्रितो भेदो धर्मः साधारणो द्वयोः ।

व्यापारवान् न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते ॥४४९॥

 

द्रव्ये वापि क्रियायां वा निमित्तात् तत् प्रकल्पते ।

क्रियाणां विधमानत्वाद् वृत्तिर्न स्याद् गवादिषु ॥४५०॥

 

अभावात् केवलायास्तु तद्वानर्थः प्रतीयते ।

प्रधानासम्भवे युक्ता लक्षणार्था क्रियाश्रुतिः ॥४५१॥


 

क्रियाधर्मान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे ।

उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः ॥४५२॥

 

यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः ।

द्रव्यवद् गुणशब्देऽपि स निमित्तमपेक्षते ॥४५३॥

 

यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः ।

यथा तथोपमानेषु व्यपेक्षा न निवर्तते ॥४५४॥

 

क्रियावृत्तेस्तृतीयान्तस्यैतच्चासंगते सति ।

प्रसिद्धन्यायकरणो भाष्ये युजिरुदाहृतः ॥४५५॥

 

अन्तर्भूते तु करणे प्रयोगो न पुनर्भवेत् ।

न्यायेनायुक्तमित्यत्र जीवतौ प्राणकर्मवत् ॥४५६॥

 

शास्त्राभ्यासाय भेदोऽयमयुक्तमिति वर्ण्यते ।

अशोभनमसम्बद्धमिति रूढिर्व्यवस्थिता ॥४५७॥

 

विविभक्तिः प्रकृत्यर्थं प्रत्युपाधिः कथं भवेत् ।

विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् ॥४५८॥

 

विभक्त्यन्तरयोगो हि यस्य तद्विषयान्तरे ।

विभक्त्यन्तरसम्बन्धः सामर्थ्यादनुमीयते ॥४५९॥

 

सारूप्यात् तु तदेवेदमिति तत्रोपचर्यते ।

शब्दान्तरे विभक्त्या तु युक्तं शास्त्रे तदश्रुतम् ॥४६०॥

 

प्रकृतिश्चेत् तृतीयान्ता तेनेत्यस्मात् प्रतीयते ।

क्रियेति प्रथमान्ता सा कथं भवितुमहति ॥४६१॥

 

क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम् ।

तेनेत्यस्य हि सम्बन्धः सूत्रस्थेन न विद्यते ॥४६२॥

 

सोपस्कारेषु सूत्रेषु वाक्ये शेषः समर्थ्यते ।

तेन यत् तत् तृतीयान्तं क्रिया चेत् सेति गम्यते ॥४६३॥

 

उपाधेः कस्यचिद् वाक्ये प्रयोग उपलभ्यते ।

प्रतीयमानधर्मान् यो न कदाचित् प्रयुज्यते ॥४६४॥

 

नीलमुत्पलमित्यत्र न विशेष्ये न भेदके ।

कश्चित् तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते ॥४६५॥

 

अत्यन्यानुगमात् तत्र न सूत्रे न च विग्रहे ।

विभक्तिपरिणामेन किञ्चिदस्ति प्रयोजनम् ॥४६६॥

 

तृतीयान्तं क्रियेत्येतद् विग्रहे न प्रयुज्यते ।

यथा दण्डः प्रहरणं क्रीडायामिति दृश्यते ॥४६७॥

 

घविधौ घश्च संज्ञायामिति सूत्र उदाहृतम् ।

उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते ॥४६८॥

 

यैरप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते ।

ते भेदेऽपि विभक्तीनां निर्दिश्यन्त उपाधयः ॥४६९॥

 

समुदायेषु वर्तन्ते भावानां सहचारिणाम् ।

शब्दास्तत्त्वाविवक्षायां समुच्चयविकल्पयोः ।४७०॥

 

समुच्चयस्तु क्रियते येषु प्रत्यर्थवृत्तिषु ।

भेदाधिष्ठानया योगस्तेषां भवति सङ्ख्यया ॥४७१॥

 

सर्वैर्विशिष्टास्तैरर्थैर्जन्यन्ते सहचारिभिः ।

बुद्धयः प्रतिपत्तॄणां शब्दार्थांस्तानतो विदुः ॥४७२॥

 

संसृष्टाः प्रत्ययेष्वर्थाः सर्व एवोपकारिणः ।

तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता ॥४७३॥

 

केवलानां तु भावानां न रूपमवधार्यते ।

अनिरूपितरूपेषु तेषु शब्दो न वर्तते ॥४७४॥

 

पूर्वशब्दप्रयोगाच्च समूहान्न निवर्तते ।

वर्ततेऽवयवे वापि नोपात्तं त्यजति क्वचित् ॥४७५॥

 

समुदायाभिधायी च यदि भेदं विशेषयेत् ।

तत्रातुल्यविभक्तित्वं पूर्वकायादिवद् भवेत् ॥४७६॥

 

समुहे च प्रदेशे च पञ्चाला इति दृश्यते ।

तथा विशेषणं सर्व इत्येतदुपपद्यते ॥४७७॥

 

तथार्धपिप्पलीत्यत्र जात्यन्तरनिवृत्तये ।

अर्ध च पिप्पली चेति खण्डे शब्दः प्रयुज्यते ॥४७८॥

 

पञ्चालानां प्रदेशोऽपि भिन्नो जनपदान्तरात् ।

तत्रान्यस्य विवृत्त्यर्थे शब्दे भेदो न गम्यते ॥४७९॥

 

प्रसिद्धास्तु विशेषेण समुदाये व्यवस्थिताः ।

प्रदेशे दर्शनं तेषामर्थप्रकरणादिभिः ॥४८०॥

 

यदुपव्यञ्जनं जातेः सहचारि च कर्मसु ।

तत्र वा रूढसम्बन्धं यत् प्रायेणोपलक्षितम् ॥४८१॥

 

समुदायः प्रदेशो वेत्येवं तस्मिन्ननाश्रिते ।

अर्थात्मन्यविशेषेण वर्तन्ते ब्राह्मणादयः ॥४८२॥

 

यश्च तुल्यश्रुतिर्दृष्टः समुदाये व्यवस्थितः ।

तेनोपचरितैकत्वं प्रदेशेऽप्युलभ्यते ॥४८३॥

 

संस्कारादुपघाताद् वा वृत्तोऽक्तपरिमाणके ।

तैलादौ जातिशब्दोऽत्र सामर्थ्यादवसीयते ॥४८४॥

 

न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः ।

ते जातिगुणसम्बन्धभेदमात्रानिबन्धानाः ॥४८५॥

 

कृष्णादिव्यपदेशश्च सर्वावयववृत्तिभिः ।

गुणैस्तेऽप्येकदेशस्थाः पटादीनां विशेषकाः ॥४८६॥

 

पटावयववृत्तास्तु यदा तत्र पटादयः ।

तदा तैलादिवत् तेषां जातिशब्दत्वमुच्यते ॥४८७॥

 

निवृत्त्यर्था श्रुतिर्येषां भेदस्तेष्वनपेक्षितः ।

प्रदेशे समुदाये वा गुणोऽन्येषां निवर्तकः ॥४८८॥

 

ब्राह्मणाध्ययने तत्र वर्तते ब्राह्मणश्रुतिः ।

सादृश्यं तत्र दृश्यं हि क्षत्रियाध्ययनादिभिः ॥४८९॥

 

ब्राह्मणाध्ययने वृत्तिर्यदि स्याद् ब्राह्मणश्रुतेः ।

व्यक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोरिति ॥४९०॥

 

अध्येतरि यदा वृत्तिरुच्यते ब्राह्मणश्रुतेः ।

निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता ॥४९१॥

 

सिंहशब्देन सम्बन्धे शौर्यमात्राभिधायिना ।

चैतात् षष्ठी प्रसज्येत योगे शौर्यादिभिर्यथा ॥४९२॥

 

ब्राह्मणायेव दातव्यं वैश्यायेत्येवमादिषु ।

सम्प्रदानादियोगश्च क्रियामात्रे न कल्पते ॥४९३॥

 

क्रियामात्राभिधायित्वादव्ययेषु वतेर्न च ।

पाठः कदाचित् कर्तव्यस्तुल्यौ पक्षावुभौ यतः ॥४९४॥

 

जहाति जातिं द्रव्यं वा तस्मान्नावयवे स्थितः ।

क्रियायास्तु श्रुतिर्यस्मात् तद्वत्यर्थेऽवतिष्ठते ॥४९५॥

 

अक्रियाणां निवृत्त्यर्था यतश्चात्र क्रियाश्रुतिः ।

क्रियोपलक्षिते तस्मात् क्रियाशब्दः प्रतीयते ॥४९६॥

 

होतव्यादिषु यस्माच्च क्रियान्या ब्राह्मणादिवत् ।

अपेक्षणीया शुद्धेऽर्थे तस्माद् वित्तिर्न कस्यचित् ॥४९७॥

 

सर्वं वाप्येकदेशो वा यस्मिन्नाश्रीयते क्वचित् ।

विशेषवृत्तिं तं सर्वमाहुर्भेदे व्यवस्थितम् ॥४९८॥

 

समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा ।

विशेषा इति वर्ण्यन्ते सामान्यं वाऽविकल्पितम् ॥४९९॥

 

न हि ब्राह्मण इत्यत्र भेदः कश्चिदुपाश्रितः ।

अपाकृतो वा तेनायं समुदाये व्यवस्थितः ॥५००॥

 

क्रिया त्वाश्रीयते यस्मिन् स भेदोऽध्यवसीयते ।

तथान्यथा सर्वथा चेत्यप्रयोगे न विद्यते ॥५०१॥


 

उपमाने क्रियावृत्तिमुपमेये क्रियाश्रुतिः ।

प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् ॥५०२॥

 

व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते ।

क्रियावद् वचनाच्छब्दात् प्रत्ययः प्रतिपाद्यते ॥५०३॥

 

क्रियावतोऽपि सादृश्ये वक्तुमिष्टे क्रियावता ।

अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते ॥५०४॥

 

अधीते तुल्य इत्येवं पुंल्लिङ्गेन विशेषणम् ।

क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् ॥५०५॥

 

प्रकृत्यर्थे विशिष्टेऽपि प्रत्यार्थाविशेषणात् ।

पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते ॥५०६॥

 

याः पुत्रे रूढसम्बन्धाः क्रिया लोके विवक्षिताः ।

ताभिः क्रियावतः पुत्राद् गुणतुल्ये वतिर्भवेत् ॥५०७॥

 

अन्तर्भूतं निमित्तं च रूढिशब्देषु यद्यपि ।

क्रियास्तु सहचारिण्यो रूढाः सन्ति पदार्थवत् ॥५०८॥

 

क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम् ।

प्रधानानुग्रहात् साम्याद् विभक्तेश्वावतिष्ठते ॥५०९॥

 

प्रकृतेरविशिष्टत्वात् क्रियातुल्ये प्रसज्यते ।

पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये ॥५१०॥

 

स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः ।

अनिमित्तं वतेस्तुल्यं यातीत्यत्रेष्यये वतिः ॥५११॥

 

द्वयं विशेष्यते तेन यदेकत्र विशेषणम् ।

तुल्यशब्दो हि तं धर्ममुभयस्थमपेक्षते ॥५१२॥

 

एकः समानो धर्मश्चेदुपमानोपमेययोः ।

तुलया संमितं तुल्यमिति तत्रोपपद्यते ॥५१३॥

 

सूत्रे श्रुतश्च द्विष्ठोऽसावभेदेन प्रतीयते ।

न च सामान्यशब्दत्वादश्रुता गम्यते क्रिया ॥५१४॥

 

अश्रुताश्च प्रतीयन्ते निदेशस्थायितादयः ।

ये धर्मा नियतास्तेषां पुत्रादिषु न विद्यते ॥५१५॥

 

अनाश्रितक्रियस्तस्मान्न तुल्योऽस्ति क्रियावता ।

क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते ॥५१६॥

 

द्वयोः प्रतिविधानाच्च ज्यायस्त्वमभिधीयते ।

नित्यासत्त्वाभिधायित्वात् प्रत्ययार्थविशेषणे ॥५१७॥

 

असत्त्वभूतो व्यापारः केवलः प्रत्यये यतः ।

विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः ॥५१८॥

 

क्रियावतस्तु ग्रहणात् प्रकृत्यर्थविशेषणे ।

क्रियामात्रेण तुल्यत्वे सिद्धाऽसत्त्वाभिधायिता ॥५१९॥

 

यदा क्रियानिमित्तं तु सादृश्यं स्यात् क्रियावतोः ।

क्रियावतोऽभिधेयत्वात् तदाऽद्रव्याभिधायिता ॥५२०॥

 

अव्ययेषु वतेः पाठः कार्यस्तत्र स्वरादिवत् ।

ब्राह्मणेन समोऽध्येतेत्यत्र च प्रत्ययो भवेत् ॥५२१॥

 

सामानाधिकरण्यं च वत्यर्थेनापदिश्यते ।

तुल्यमित्यन्यथा कल्प्यो वाक्यशेषोऽश्रुतो भवेत् ॥५२२॥

 

क्रियावतीश्च सादृश्ये प्रत्ययार्थविशेषणे ।

अध्येत्रा सदृशोऽध्येतेत्यत्र नास्ति वतेर्विधिः ॥५२३॥

 

तुल्यार्थैरिति या तस्यास्तृतीयाया न भिद्यते ।

अथो भेदेऽपि सर्वाभिरितराभिर्विभक्तिभिः ॥५२४॥

 

भुज्यते ब्राह्मणेनेव तुल्यं भुक्तं द्विजातिना ।

पश्यति ब्राह्मणमिव तुल्यं विप्रेण पश्यति ॥५२५॥

 

ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना ।

दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् ॥५२६॥

 

ब्राह्मणादिव वैश्यात् त्वमधीष्वाध्ययनं बहु ।

इत्येवमादिभिर्भेदस्तृतीयाया न कश्चन ॥५२७॥

 

तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम् ।

मधुरायाश्च मातुश्च कथं सादृश्यकल्पना ॥५२८॥

 

मधुराविषयः पाठः स्मरणं मातृकर्मकम् ।

मधुरामातृशब्दाभ्यामभेदेनाभिधीयते ॥५२९॥

 

उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर्यथा ।

वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः ॥५३०॥

 

यथाध्ययनयोः साम्यमध्येत्रोरपदिश्यते ।

तथा क्रियागतैर्धर्मैरुच्यन्ते साधनाश्रयाः ॥५३१॥

 

इवार्थे यच्च वचनं पूर्वसूत्रे च यो विधिः ।

क्रियाशब्दश्रुतौ भेदो न कश्चिद् विद्यते तयोः ॥५३२॥

 

यद्यप्युपाधिरन्यत्र नियतो न प्रयुज्यते ।

रूपाभेदात् त्वनिर्ज्ञाता क्रियान्न श्रूयते पुनः ॥५३३॥

 

यथा व्युत्परयः पुच्छौ क्यङन्ते सुदुरादयः ।

सत्यपि प्रत्ययार्थत्वे भेदाभावादुदाहृताः ॥५३४॥

 

एवञ्च सति पूर्वेण सिद्धोऽत्रापि वतेर्विधिः ।

नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः ॥५३५॥

 

इवे द्रव्यादिविषयः प्रत्ययः पुनरुच्यते ।

क्रियाणामेव सादृश्ये पूर्वसूत्रे विधीयते ॥५३६॥

 

मधुरायामिव गृहा ब्राह्मणस्येव पाण्डुराः ।

इत्यत्र द्रव्यगुणयोः पूर्वेण न वतिर्भवेत् ॥५३७॥

 

आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते ।

ऋते क्रियाया ग्रहणात् पूर्वयोगेन सिध्यति ॥५३८॥

 

मधुरावयवे वृत्तिर्व्याख्याता मधुराश्रुतेः ।

ब्राह्मणावयवान् दन्तान् वक्ष्यति ब्राह्मणश्रुतिः ॥५३९॥

 

न काचिदिवयोगे तु बाह्यात् सम्बन्धिनो विना ।

षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् ॥५४०॥

 

आधिक्यं तुल्यशब्देन सम्बन्ध उपजायते ।

षष्टीतृतीये तत्र स्तस्तुल्यशब्दो हि वाचकः ॥५४१॥

 

इवशब्दप्रयोगे तु बाह्यात् सम्बन्धिनो विना ।

नाधिक्यमुपमानेऽस्ति द्योतकः सम्प्रयुज्यते ॥५४२॥

 

इवे यो व्यतिरेकोऽत्र स प्रासादादिहेतुकः ।

तुल्ये तद्विषयापेक्षमाधिक्यमुपजायते ॥५४३॥

 

गवयेन समोऽनङ्वानिति वृतिस्तदा भवेत् ।

न त्वस्ति गौरिवेत्यत्र व्यतिरेक इवाश्रयः ॥५४४॥

 

उपमेयेन सबन्धात् प्राक् तु प्रासादादिहेतुके ।

व्यतिरेके वतेर्भावो न तु तुल्यार्थहेतुके ॥५४५॥

 

इवश्ब्देन सम्बन्धे न तृतीया विधीयते ।

प्रकृतां तामतस्त्यक्त्वा विभक्त्त्यन्तरमाश्रितम् ॥५४६॥

 

सप्तम्यपि न तत्रास्ति ज्ञापनार्था तु सा कृता ।

इष्टा सा शेषविषये नियतासु विभक्तिषु ॥५४७॥

 

यदि तु व्यतिरेकेण विषयेऽस्मिन् विभक्तयः ।

प्रवर्तेरंस्तृतीयैव व्यभिचारं प्रदशयेत् ॥५४८॥

 

व्यभिचारे तथासिद्धे सप्तमीगहणाद् विना ।

सप्तम्येवोच्यते सर्वा न सन्त्यन्या विभक्तयः ॥५४९॥

 

अत्यन्तमत्र विषये सप्तम्या ज्ञापनार्थया ।

बाधिता विनिवर्तेत षष्टी सा गृह्यते पुनः ॥५५०॥

 

पूर्वाभ्यामेव योगाभ्यां विगहान्तरकल्पनात् ।

अहार्थेऽपि वतिः सिद्धः स त्वेकेन निदर्श्यते ॥५५१॥


 

तेन तुल्यमिति प्राप्तेः क्रियोपाधिः प्रसिध्यति ।

राजवद् वर्तते राजेत्यत्र भेदे विवक्षिते ॥५५२॥

 

राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः ।

युधिष्ठिरान्तास्तेऽन्येषामुपमानं महीक्षिताम् ॥५५३॥

 

सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः ।

सर्वत्रैव यतोऽसिद्धं प्रसिद्धेनोपमीयते ॥५५४॥

 

राजवद् रूपमस्येति राजन्येव विवक्षिते ।

अक्रियार्थेन योगेन द्वितीयेन भविष्यति ॥५५५॥

 

उपमानाविवक्षायां नियमार्थोऽयमुच्यते ।

धर्मोऽहति क्रियाकता तदर्थं वचनं पुनः ॥५५६॥

 

कृतहस्तवदित्येतत् प्रसिद्धेष्वेव दृश्यते ।

राजत्वेन प्रसिद्धे च राज्ञि राजवदित्यपि ॥५५७॥

 

अराज्ञि येषां धर्माणां दृष्टोऽत्यन्तमसम्भवः ।

ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणा ॥५५८॥

 

अहतेश्च किया कर्त्री या तस्यां वतिरिष्यते ।

राजानमहतिच्छत्रमिति न त्वेवमादिषु ॥५५९॥

 

प्रयुक्तानां हि शब्दानां शास्त्रेणानुगमः सताम् ।

छत्राद्यर्थे तु वचने प्रत्याख्यानं न सम्भवेत् ॥५६०॥

 

तदहमिति नारब्धं सूत्रं व्याकरणान्तरे ।

सम्भवत्युपमात्रापि भेदस्य परिकल्पना ॥५६१॥

 

एकस्य कार्यनिर्ज्ञानात् सिद्धस्य विषयान्तरे ।

तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते ॥५६२॥

 

सूत्रारम्भान्न चैतस्मादिवशब्दस्य विद्यते ।

प्रयोगः सोऽपि चैतस्य विषये विद्यते वतेः ॥५६३॥

 

दस्युहेन्द्र इवेत्येतदैन्द्रे मन्त्रे प्रयुज्यते ।

अन्यत्र दृष्टकर्मेन्द्रो यथेत्यस्मिन् विवक्षिते ॥५६४॥

 

पूर्वामवस्थामाश्रित्य यावस्था व्यपदिश्यते ।

सदृशस्त्वं तवैवेति तत्रैवमभिधीयते ॥५६५॥

 

प्रसिद्धभेदं यत्रान्यदुपमानं न विद्यते ।

उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते ॥५६६॥

 

योऽपि स्वाभाविको भेदः सोऽपि बुद्धिनिबन्धनः ।

तेनास्मिन् विषये भिन्नमभिन्नं वा न विद्यते ॥५६७॥

 

अङ्गदी कुण्डली चेति दर्शयन् भेदहेतुभिः ।

चैत्रमीदृश इत्याह बुद्ध्यवस्थापरिग्रहात् ॥५६८॥

 

एतैः शब्दैर्यथाभूतः प्रत्ययात्मोपजायते ।

तत्प्रत्ययानुकारेण विषयोऽप्युपपद्यते ॥५६९॥

 

बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते ।

जन्यन्त इव शब्दानामर्थाः सर्वे विवक्षया ॥५७०॥

 

तथाविधेऽपि बाह्येऽर्थे भिद्यन्ते यत्र बुद्धयः ।

न तत्र कश्चित् सादृश्यं सदपि प्रतिपद्यते ॥५७१॥

 

अत्यन्तं विषये भिन्ने यावत् प्रख्या न भिद्यते ।

न तावत् प्रत्यभिज्ञानं कस्यचिद् विनिवर्तते ॥५७२॥

 

अयमेव तु सूत्रेण भेदो भेदेन दर्शितः ।

प्रसिद्धमपि दुर्ज्ञानमबुधः प्रतिपद्यते ॥५७३॥

 

वैयाकरणवद् ब्रूते न वैयाकरणः सदा ।

वैयाकरणवद् ब्रूष्वेत्यतः सोऽप्यभिधीयते ॥५७४॥

 

केचित् पुमांसो भाषन्ते स्त्रीवत्, पुंवच्च योषितः ।

व्यभिचारे स्वधर्मोऽपि पुनस्तेनोपदिश्यते ॥५७५॥

 

सदृशस्त्वं तवैवेति लोके यदभिधीयते ।

उपमानान्तरं तत्र प्रसक्तं विनिवर्तते ॥५७६॥

 

युक्तमौपयिकं राज्ञ इत्यर्थस्य निदर्शने ।

उपमानाविवक्षायां तदहमिति पठ्यते ॥५७७॥

 

प्रसक्तानुप्रसक्तस्तु वतिशेषोऽभिधीयते ।

उपमानाभिसंबन्धादस्मिन् वतिरुदाहृतः ॥५७८॥

 

प्रधानकल्पनाऽभावे गुणशब्दस्य दर्शनात् ।

उपसर्गाद् वतौ सिद्धा धातौ धात्वर्थकल्पना ॥५७९॥

 

स्वं रूपमिति चैतस्मिन्नर्थस्यापि परिग्रहः ।

रूपवज्ज्ञापितस्तस्मादासन्नोऽर्थो ग्रहीष्यते ॥५८०॥

 

धात्वर्थेनोपजनितं साधनत्वेन साधनम् ।

धातुना कृतमित्येवमस्मिन् सूत्रे प्रतीयते ॥५८१॥

 

यः शब्दश्चरितार्थत्वादत्यन्तं न प्रयुज्यते ।

विषयेऽदर्शनात् तत्र लोपस्तस्याभिधीयते ॥५८२॥

 

क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः ।

तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते ॥५८३॥

 

प्रत्ययेन विना प्रादिस्तत्रार्थेन प्रयुज्यते ।

भेदेन तु समाख्याने विभागः परिकल्पितः ॥५८४॥

 

अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम् ।

विभक्तिभिर्न योगः स्याद् यथैव तसिलादिषु ॥५८५॥

 

पाठाद् यैरविभक्तित्वं वत्यन्तेष्वनुगम्यते ।

तेषामुद्वत् इत्यत्र वक्तव्या सविभक्तिता ॥५८६॥

 

वत्यर्थं नावगाहेते पुंवदित्यस्य दर्शनात् ।

नञ्स्नञावपवादस्य बाधकं तन्निपातनम् ॥५८७॥

 

एवमुत्क्रामतो नूनं वत्यर्थं नञ्स्नञाविति ।

तयोः प्रवृत्तावुत्सर्गो बाधनान्नोपपद्यते ॥५८८॥

 

नञ्स्नञौ विहितौ येन स योगो नावगाहते ।

वतिकरणं तद्धि लिङ्गमेवं समर्थ्यते ॥५८९॥

 

अभेदेनोपमानस्य भिन्नार्थोपनिपातिता ।

ऊहस्तथोपमानानामङ्गवन्नोपलभ्यते ॥५९०॥

 

गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः ।

पशू रुद्र इव ह्येतावित्येकवचनश्रुतिः ॥५९१॥

 

उपमानस्य भेदाच्च बहुषु स्यादञो विधिः ।

कश्यपा इति लोपः स्यात् तथा प्रतिकृतिष्वपि ॥५९२॥

 

एवं तु युक्तवद्भावादत्रैकवचनं भवेत् ।

लुम्मनुष्ये तथोक्तं स्याल्लिङ्गस्यैकस्य सिद्धये ॥५९३॥

 

उपमेयेषु भिन्नेषु किञ्चिदेकं प्रवतते ।

प्रत्ययस्य विधौ तत्र नित्यं युक्तवदिष्यति ॥५९४॥

 

यदा प्रत्युपमेयं तु तदेकैकमवस्तिथम् ।

तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते ॥५९५॥

 

यथा समूहप्रचये द्विगूनां भिन्नसंख्यता ।

पञ्चपूल्यादिषु तथा सुबन्तप्रचये भवेत् ॥५९६॥

 

प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते ।

अर्थभेदो लुबन्तेषु नैवं कश्चन दृश्यते ॥५९७॥

 

येषूपमेयवचनः शब्दोऽन्यो न प्रयुज्यते ।

उपमानस्य तत्रान्यैः संख्याया भेद इष्यते ॥५९८॥

 

यथा गुडतिलादीनां प्रयोगादेकसंख्यता ।

पाकादेरप्रयोगे तु भिन्नसंख्याभिद्यीयते ॥५९९॥

 

यः सम्बन्धिगतो भेदः स प्रयोगे प्रतीयेते ।

संबन्धिनामतो भेद उपमेये न गम्यते ॥६००॥

 

तस्मात् सामान्यशब्दत्वप्रसङ्गविनिवृत्तये ।

उपमेयगतो भेद उपमानेषु दृश्यते ॥६०१॥


 

उपमानं समस्तानामभिन्नं श्रूयते क्वचित् ।

भिन्नानामुपमेयानामेकैकं वोपमीयते ॥६०२॥

 

यथा गरुड इत्येतद् व्यूहापेक्षं प्रयुज्यते ।

एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् ॥६०३॥

 

एकस्यापि प्रतीयेत भिन्ना प्रतिकृतिः सह ।

काश्यपस्येति तेनायं प्रत्येकमवतिष्ठते ॥६०४॥

 

मेघाः शैल इवेत्युक्ते समस्तानां प्रतीयते ।

सादृश्यं गिरिणैकेन प्रत्येकं तेन भिद्यते ॥६०५॥

 

छापेक्षा तद्विषयता विधेयत्वान्न गम्यते ।

काकतालीयमित्यत्र प्रसिद्धं ह्युपलक्षणं ॥६०६॥

 

राजाश्वादिश्च विषयः स्यादन्यो वेत्यनिश्चितम् ।

तेन छस्य विधानात् प्राग् व्यपदेशो न विद्यते ॥६०७॥

 

द्वयोरिवार्थयोरत्र निमित्तत्वं प्रतीयते ।

एकेनावयवो युक्तः प्रत्ययोऽन्येन युज्यते ॥६०८॥

 

चैत्रस्य तत्रागमनं काकस्यागमनं यथा ।

दस्योरभिनिपातस्तु तालस्य पतनं यथा ॥६०९॥

 

संनिपाते तयोर्यान्या क्रिया तत्रोपजायते ।

वधादिरुपमेयेऽर्थे तया छविधिरिष्यते ॥६१०॥

 

क्रियायां समवेतायां द्रव्यशब्दोऽवतिष्ठते ।

पातागमनयोः काकतालशब्दौ तथा स्थितौ ॥६११॥

 

यदन्वाख्यायकं वाक्यं तदेवं परिकल्प्यते ।

प्रयोगवाक्यं यल्लोके तदेवं न प्रयुज्यते ॥६१२॥

 

ययोरतर्किता प्राप्तिर्दृश्यते काकतालवत् ।

तयोः समासप्रकृतेर्वृत्तिरभ्युपगम्यते ॥६१३॥

 

काकस्य तालेन यथा वधो यस्य तु दस्युना ।

तत्र चित्रीकृतेऽन्यस्मिन्नुपमेये छ इष्यते ॥६१४॥

 

चञ्चत्प्रकारश्चञ्चत्को बृहत्क इति चापरे ।

मणिमण्डूकखद्योतान् सादृश्येन प्रचक्षते ॥६१५॥

 

तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते ।

श्वासप्रबन्धैर्मण्डूकः स्पन्दमानप्रभो मणिः ॥६१६॥

 

प्रविकासिप्रभोऽल्पोऽपि महान् य उपलभ्यते ।

बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते ॥६१७॥

 

सादृश्यमेव सर्वत्र प्रकारः कैश्चिदिष्यते ।

भेदेऽपि तु प्रकाराख्या कैश्चिदभ्युपगम्यते ॥६१८॥

 

प्रकारवचनः कश्चित् प्रकारवति संस्थितः ।

प्रकारमात्रे वर्तित्वा कश्चित् तद् व्यतिवर्तते ॥६१९॥

 

सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम् ।

तुल्ययोरव्ययीभावे सहशब्दोऽभिधायकः ॥६२०॥

 

वीप्सासादृश्ययोर्वृत्तिर्या यथार्थाभिधायिनः ।

स चायमव्ययीभावे भेदो भेदेन दशितः ॥६२१॥

 

सादृश्यं योग्यता कैश्चिदनावभ्युपगम्यते ।

यत् तु मुर्तिगतं साम्यं तत् सहेनाभिधीयते ॥६२२॥

 

इत्थंभावेऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम् ।

ग्रहणे भेदमात्रास्य तत्रान्यैवाभिधीयते ॥६२३॥

 

गौर्वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम् ।

शुक्लादौ सति निष्पन्ने बाहीको न द्विरुच्यते ॥६२४॥

 

 

॥*॥ इति वृत्तिसमुद्देशः समाप्तः ॥*॥

 

॥**॥ इति श्रीभर्तृहरिविरचिते वाक्यपदीये पदकाण्डं संपूर्णम् ॥**॥

 

॥*॥*॥ शुभमस्तु ॥*॥*॥