Computational Linguistics R&D at CSS, JNU
Website Home Multimedia-Elearning Home Back

Sanskrit E-Learning and Multimedia (Secondary Level)


वाच्य (voice)

The different ways of presenting a sentence according to the mode of the verb is called voice.
In Sanskrit there are three voices –
1.कर्तृवाच्य। (Active voice)
.2.कर्मवाच्य। (Passive voice)
3.भाववाच्य। (Impersonal construction)
1.कर्तृवाच्य (Active voice)-The sentence where doer or agent is the subject that is the verbal form is constructed according to the doer is called a sentence of active voice.
In active voice doer becomes the subject and takes the first case-ending.The verb follows the subject that is if the subject is of first person the verb also takes the form of first person and so on.For example-1.राम पाठं पठति।2.रमा ग्रामम् अगच्छत्।3.अहं गृहम् अगच्छम्।4.त्वं फलं खादसि।
एक वचन द्विवचन बहुवचन
प्रथम पुरूष(पुं)
(स्त्री.)
नपुं सः (he)बालः
सा (she)बाला etc
तत् तौ(they two)बालौ
ते ( ” )बाले
ते ते(they)बालाः
ताः( ” )बालाः
तानि
मध्यम पुरुष त्वम्(you) युवाम्(you two) यूयम्(you all)
उत्तम पुरूष अहम्(I) आवाम्(we two) वयम्(we all)
In first or second person there is no difference in gender while in third person there are three genders.for example-सः, सा, तत्, बालः, बाला, पत्रम् etc.
सः पाठं पठति। (He reads lessons)
सा जलम् अपिबत्। (He drinks water)
पत्रम् पतति। (leaves fall)
देवः विद्यालयं गच्छति। (Deva goes to school)
त्वं जलं पिबसि। (you drink water)
यूयं गृहं गच्छत। (you go home)
अहं चटाकां पश्यामि। (I see the bird)
वयं फलानि खादिष्यामि। (we shall eat fruits)
2.कर्मवाच्य(passive voice) :-The voice where object(कर्म) takes the position of subject that is verbal form is constructed according to the object is called passive voice.In passive voice doer(कर्ता) takes third case-ending, object takes first case-ending and verb follows the object.For example
देवेन विद्यालयः गम्यते। School is gone by Deva.
त्वया जलं पीयते। water is drunk by you.
मया चटका दृश्यते। Bird is seen by me.
Here in the first sentence देव is credited with third case-ending singular number,विद्यालय is credited by first case-ending singular number and according to the object विद्यालय verb is applied in first person singular number.
3.भाववाच्य (Impersonal construction) :- In the sentences where there is no object(कर्म), verb(क्रिया) takes the formost position instead of doer(कर्ता) .If verb is of without object then active voice turns into impersonal construction.
In impersonal construction doer takes the third case-ending and verb is always used in third person singular number.
कन्यया क्रीड्यते। played by girl.
रामेण स्मर्यते। remembered by Rama.
Here in the first ssentence कन्या takes third person singular number and verb is used in third person singular number.
In the sentences of past tense verb is used in neuter gender singular number.For example –
रामः पठितवान्। रामेण पठितम्।
ते गीतवन्तः। तैः गीतम्।
ते क्रीडितवत्यौ। ताभ्यां क्रीडितम्।
वयम् खादितवन्तः। अस्माभिः खादितम्।
List of active, passive and impersonal construction of some roots:-
वाच्यम् कर्त्ता कर्म क्रिया
कर्तृवाच्यम् First case-ending.
Gender, person, number –according to the doer (कर्त्ता).
Second case-ending.
Gender, person, number –according to the object (कर्म).
Person and number of verb is decided according to the person and number of the doer (कर्त्ता).
Two sets of personal terminations-परस्मैपद(word for another)/आत्मनेपद(word for self)
सकर्मक विपुलः विद्यालयं गच्छति।
आशुतोषः गीताः पठति।
सर्वे गृहं गमिष्यन्ति।
कामिनी फलानि खादति।
अकर्मक साः - पीतवती।
दीक्षा - पठति।
तौ - गतवन्तौ।
शीतांशुः - धावति।
सः - अपठत्।
कर्मवाच्य Third case-ending.
Gender,person,number-
according to the doer(कर्त्ता) First case-ending.
Gender,person,number-
According to the object(कर्म) Person,number of verb(क्रिया)-according to the person and number of object(कर्म).The root is followed by य and the terminations of आत्मनेपद.
सकर्मक विपुलेन विद्यालयः गम्यते
आशुतोशेण गीता पठ्यते।
सर्वैः गृहं गमिष्यते।
कामिन्या फलानि खाद्यन्ते।
तया जलम् पीतम्।
भाववाच्य Third case-ending.
Gender,person,number-according to the doer(कर्त्ता)

- The root is followed by य and first person singular number termination of आत्मनेपद .The past tense injdicative affix क्त is always used in neuter singular.
दीक्षया - पठ्यते।
ताभ्याम् - गतम्।
शीतांशुना - धाव्यते।
तेन - अपठ्यत।


Rules of conjugation of roots in passive voice and impersonal construction:-


1. The ultimate sound of those roots that have आ at their end (such as-दा,धा,पा,स्था,मा etc)and of the roots like गै,दे,धे etc changes into
Long ई .For example-दीयते,धीयते,पीयते,स्थीयते,मीयते etc.

2.The final ऋ of roots like मृ,कृ,भृ,वृ,धृ etc is replace by रि if followed by य.For example-म्रियते,क्रियते,व्रियते,ध्रियते.

3. After the expantion (सम्प्रसारण) of र of roots like प्रच्छ् ग्रह् etc forms like पृच्छ्यते, गृह्यते etc are formed.

4. The न of roots like खन्, जन् and तन् is optionally changed into आ.For example – of जन् जायते, जन्यते; of तन् तायते, तन्यते; of खन् खायते, खन्यते।

5. In लृट् लकार passive and active bases are same.But the roots exclusively take आत्मनेपद terminations.For example – भविष्यते, पठिष्यते etc.

6.The व of roots like वद्,वच्,वस्,वह्,वप् and स्वप् etc becomes उ after expantion (सम्प्रसारण).For example- उद्यते,उच्यते,उष्यते,उह्यते,उप्यते,सुप्यते etc.

7. The य of roots like यज्, व्यध् etc becomes इ after expantion (सम्प्रसारण).For example – इज्यते, विध्यते etc.

8. The penultimate nasal of a root becomes elided.For example – of भञ्ज् भज्यते, of रञ्ज् रज्यते, of ग्रन्थ् ग्रथ्यते, of स्तम्भ् स्तभ्यते.

9. The final short इ or short उ of roots becomes long if followed by य .For example – of जि जीयते, of चि चीयते, of स्तु स्तूयते, of सु सूयते etc.

Conjugation of roots in passive voice and impersonal construction:-

पठ लट्लकार
प्रथम पुरुष पठ्यते पठ्येते पठ्यन्ते
मध्यम पुरुष पठ्यसे पठ्येथे पठ्यध्वे
उत्तम पुरुष पठ्ये पठ्यावहे पठ्यामहे

लङ् लकार
प्रथम पुरुष अपठ्यत अपठ्यताम् अपठ्यन्त
मध्यम पुरुष अपठ्यथाः अपठ्येताम् अपठ्यध्वम्
उत्तम पुरुष अपठ्ये अपठ्यावहि अपठ्यामहि

लोट् लकार
प्रथम पुरुष पठ्यताम् पठ्येताम् पठ्यन्ताम्
मध्यम पुरुष पठ्यस्व पठ्येथाम् पठ्यध्वम्
उत्तम पुरुष पठ्यै पठ्यावहै पठ्यामहै

विधिलिङ् लकार
प्रथम पुरुष पठ्येत पठ्येयाताम् पठयेरन्
मध्यम पुरुष पठयेथाः पठयेयाथाम् पठयेध्वम्
उत्तम पुरुष पठ्येय पठ्येवहि पठ्येमहि

लृट् लकार
प्रथम पुरुष पठिष्यते पठिष्येते पठिष्यन्ते
मध्यम पुरुष पठिष्यसे पठिष्येथे पथिष्यध्वे
उत्तम पुरुष पठिष्ये पठिष्यावहे पठिष्यामहे




कानिचित् सर्वनाम-शब्द-रूपाणि (केवलं वाच्य परिवर्तनार्थम्)
अस्मद् (I)
विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अहम् आवाम् वयम्
द्वितीया माम् आवाम् अस्मान्
तृतीया मया आवाभ्याम् अस्माभिः
युष्मद् (You)
प्रथमा त्वम् युवाम् यूयम्
द्वितीया त्वाम् युवाम् युष्मान्
तृतीया त्वया युवाभ्याम् युष्माभिः

तत् (पु.)(He)
प्रथमा सः तौ ते
द्वितीया तम् तौ तान्
तृतीया तेन ताभ्याम् तैः

तत् (स्त्री.)(She)
प्रथमा सा ते ताः
द्वितिया ताम् ते ताः
तृतीया तया ताभ्याम् ताभिः

तत् (नपु.)(It)
प्रथमा तत् ते तानि
द्वितीया तत् ते तानि
तृतीया तेन ताभ्याम् तैः

कर्तृवाच्य-कर्मवाच्य-भाववाच्येषु प्रयुक्तानि कानिचित् शब्दरूपाणि
1.बालक (boy)
विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा बालकः बालकौ बालकाः
द्वितीया बालकम् बालकौ बालकान्
तृतीया बालकेन बालकाभ्याम् बालकैः
Note: masculine bases ended in अ such as बाल, छात्र, राम, देव, मृग, सिंह, अज, नायक etc takes same forms.
2.बाला (girl)
प्रथमा बाला बाले बालाः
द्वितीया बालाम् बाले बालाः
तृतीया बालया बालाभ्याम् बालाभिः
Note: feminine bases ended in आ such as बालिका,गंगा,यमुना, लता,माला,कक्षा, सुधा,रमा, छात्रा,कथा, दीक्षा,सीता, अनामिका, शाखा etc takes same forms.

3.फल
प्रथमा फलम् फले फलानि
द्वितीया फलम् फले फलानि
तृतीया फलेन फलाभ्याम् फलैः
Note:Neuter bases ended in अ such as गृह,ज्ञान,पत्र,चक्र,पुष्प,कमल,वस्त्र,धन,व्यंजन,वन etc takes same forms.


कर्तृवाच्यात् कर्मवाच्यवाक्यानि (लट्लकार प्रयोगः)

कर्तृवाच्यम् कर्मवाच्यम्
रामः पुस्तकं पठति। रामेण पुस्तकं पठ्यते।
देवः लेखं लिखति। देवेन लेखः लिख्यते।
सुखदा फलं खादति। सुखदया फलं खाद्यते।
त्वम् जलं पिबसि। त्वया जलं पीयते।
अहम् ग्रामम् गच्छामि। मया ग्रामः गम्यते।
बालकौ विद्यालयं गच्छतः। बालकाभ्यां विद्यालयः गम्यते।
बालिका गीतं गायति। बालिकया गीतं गीयते।
तौ चन्द्रं पश्यतः। ताभ्यां चन्द्रः दृश्यते।
ते भोजनं पचतः। ताभ्यां भोजनं पच्यते।
युवां पत्रं लिखथः। युवाभ्यां पत्रं लिख्यते।
आवां चन्द्रमसं पश्यावः। आवाभ्यां चन्द्रमाः दृश्यते।
ते कार्यं कुर्वन्ति। तैः कार्यं क्रियते।
ताः पुस्तकानि पठन्ति। ताभिः पुस्तकानि पठ्यन्ते।
अहम् कर्म करोमि। मया कर्म क्रियते।
यूयं विद्यालयं गच्छथ। युष्माभिः विद्यालयः गम्यते।
वयं भोजनं कुर्मः। अस्माभि भोजनं क्रियते।
सः ग्रन्थौ पठति। तेन ग्रन्थौ पठ्येते।
तौ शत्रून् हतः। ताभ्यां शत्रवः हन्यन्ते।
ते पुष्पाणि चिन्वन्ति। तैः पुष्पाणि चीयन्ते।
त्वं कथां शृणोषि। त्वया कथा श्रूयते।
युवां चटके पश्यथः । युवाभ्यां चटके दृश्यते।
अहम् पुस्तकं पठामि। मया पुस्तकम् पठ्यते।
राधा कृष्णं पश्यति। राधया कृष्णः दृश्यते।
अनामिका मन्दिरं गच्छति। अनामिकया मन्दिरं गम्यते।
कामिनी जलं पिबति। कामिन्या जलं पीयते।
अहं त्वाम् कथयामि। मया त्वम् कथ्यसे।
अहं युवां वदामि। मया युवां उद्येथे।
शीतांशुः क्रीडां क्रीडति। शीतांशुना क्रीडा क्रीड्यते।
अहं युष्मान् पश्यामि। मया यूयं दृश्यध्वे।
सः माम् कथयति। तेन अहं कथ्ये।
तौ आवाम् पश्यतः । ताभ्याम् आवां दृष्यावहे।
सोहनः मोहनं पश्यति। सोहनेन मोहनः दृश्यते।
अहं सूर्यं पश्यामि। मया सूर्यः दृश्यते।
शीला विद्यालयं गच्छति। शीलया विद्यालयः गम्यते।
विहगाः पाशं पश्यन्ति। विहगैः पाशः दृश्यते।
ते अस्मान् आदिशति। तैः वयम् आदिश्यामहे।
आशुतोषः विद्यालयं न गच्छति। आशुतोषेण विद्यालयः न गम्यते।
मुनिः अस्मान् उपदिशति। मुनिना वयम् उपदिश्यामहे।
मोहनः चित्रं पश्यति। मोहनेन चित्रं दृश्यते।
वयं जलं पिबामः। अस्माभिः जलं पीयते।
कन्या क्रीडां पश्यति। कन्यया क्रीडा दृश्यते।
गीता कार्यं करोति। गीतया कार्यं क्रियते।
रामः लक्ष्मणं कथयति। रामेण लक्ष्मण़ः कथ्यते।
वयं ईश्वरं नमामः। अस्माभिः ईश्वरः नम्यते।
त्वम् इन्द्रप्रस्थं गच्छसि। त्वया इन्द्रप्रस्थः गम्यते।
कृष्णः शिशुपालं हन्ति। कृष्णेन शिशुपालः हन्यते।
रामः राक्षसान् हन्ति। रामेण राक्षसाः हन्यते।
शिशुः पयः पिबति। शिशुना पयः पीयते।
बालकाः वॄक्षान् पश्यन्ति। बालकैः वृक्षाः दृश्यन्ते।
दीक्षा अभ्यास-पुस्तिकां पश्यति। दीक्षया अभ्यास-पुस्तिका दृश्यते।
अध्यापकः छात्रान् ताडयति। अध्यापकेन छात्राः ताड्यन्ते।
मित्राणि अस्मान् स्मरन्ति। मित्रैः वयम् स्मर्यामहे।
नृपः सेवकान् आदिशति। नृपेण सेवकाः आदिश्यन्ते।
छात्राः कोलाहलं कुर्वन्ति। छात्रैः कोलाहलः क्रियते।
विपुलः दुग्धं न पिबति। विपुलेन दुग्धं न पीयते।
माता शिशुं पश्यति। मात्रा शिशुः दृश्यते।
पिता पुत्रं ताडयाति। पित्रा पुत्रः ताड्यते।
नदी तृणं नयति। नद्या तृणं नयते।
लक्ष्मीः धनं ददाति। लक्ष्म्या धनं दीयते।
हरिः जगत् रक्षति। हरिणा जगत् रक्ष्यते।
गणपतिः विघ्नान् दूरीकरोति। गणपतिना विघ्नाः दूरीक्रियन्ते।
गुरुः ग्रन्थं पठति। गुरुणा ग्रन्थः पठ्यते।
गौः तृणं भक्षयति। गवा तृणं भक्ष्यते।
महिषी पयः ददाति। महिष्या पयः दीयते।
सा दधि खादति। तया दधि खाद्यते।
कीडकाः कन्दुकं गृह्णाति। क्रीडकैः कन्दुकः गृह्यते।
द्रौपदी पाण्डवान् कथयति। द्रौपद्या पान्डवाः कथ्यन्ते।
गौरी शिवं भजति। गौर्या शिवः भज्यते।
भूः अन्नं ददाति। भुवा अन्नं दीयते।
जलमुक् जलं ददाति। जलमुचा जलं दीयते।
पत्रवाहकः पत्रम् आनयति। पत्रवाहकेन पत्रम् आनीयते।
वृक्षाः फलानि ददाति। वृक्षैः फलानि दीयन्ते।
त्वं फलं प्राप्नोषि। त्वया फलं प्राप्यते।
भिषक् रोगिणं पश्यति। भिषजा रोगी दृश्यते।
वणिक् आपणं गच्छति। वणिजा आपणं गम्यते।
भगवान् कं पश्यति ? भगवता कः दृश्यते ?
सुहृत् उपकारं करोति। सुहृदा उपकारः क्रियते।
तापसः समिधः आनयति। तापसेन समिधः आनीयन्ते।
करी तृणानि भक्षयति। करिणा तृणानि भक्ष्यन्ते।
विद्वान् ग्रन्थान् पठति। विदुषा ग्रन्थाः पठ्यन्ते।
नरः उपानहौ धारयति। नरेण उपानहौ धार्यते।
अध्यापकः सर्वान् बालान् कथयति। अध्यापकेन सर्वे बालाः कथ्यन्ते।
अध्यापिका कानि पठति ? अध्यापिकया कानि पठ्यन्ते ?
अहम् फलानि क्रीणामि। मया फलानि क्रीयन्ते।
अम्बा ओदनं पचति। अम्बया ओदनं पच्यते।
विद्यार्थिनः प्रार्थनां कुर्वन्ति। विद्यार्थिभिः प्रार्थना क्रियते।
वानराः फलानि खादन्ति। वानरैः फलानि खाद्यन्ते।
बालकाः आम्रफलानि खादन्त्ति। बालकैः आम्रफलानि खाद्यन्ते।
अहं वृक्षान् आरोपयामि। मया वृक्षाः आरोप्यन्ते।
जनाः प्रदर्शनीं पश्यन्ति। जनैः प्रदर्शनी दृश्यते।
कलाकारः चित्रं रचयति। कलाकारेण शिक्षिकाः सम्मान्यन्ते।
राष्ट्र्पतिः शिक्षकान् सम्मानयति। राष्ट्रपतिना शिक्षकाः सम्मान्यन्ते।
सर्पाः पवनं पिबन्ति। सर्पैः पवनः पीयते।
सर्वे विद्वांसं पूजयन्ति। सर्वैः विद्वान् पूज्यते।
विद्या विनयं ददाति। विद्यया विनयः दीयते।
शिष्यः गुरुं नमति। शिष्येण गुरुः नम्यते।
यूयं कवितां श्रृणुथ। युष्माभिः कविता श्रूयते।
बालकः घटं पूरयति। बालकेन घटः पूर्यते।
कुम्भकारः घटं रचयति। कुम्भकारेण घटः रच्यते।
मेघाः वारि वर्षन्ति। मेघैः वारि वृष्यते।
सैनिकाः रष्ट्रं रक्षन्ति। सैनिकैः राष्ट्रं रक्ष्यते।
अहं पितरौ वन्दे। मया पितरौ वन्द्यते।
मालाकारः वृक्षान् सिञ्चति। मालाकारेण वृक्षाः सिञ्च्यन्ते।
सर्वे राष्ट्रगानं गायन्ति। सर्वैः राष्ट्रगानं गीयते।
सा गीतां पठति। तया गीता पठ्यते।
माता वस्त्राणि प्रक्षालयति। मात्रा वस्त्राणि प्रक्षाल्यन्ते।
सज्जनाः सत्यं वदन्ति। सज्जनैः सत्यम् उद्यते।
भक्तः रामकथां शृण्वन्ति। भक्तैः रामकथा श्रूयते।
ईश्वरः माम् रक्षति। ईश्वरेण अहम् रक्ष्ये।
सर्वे गुरुसेवां कुर्वन्ति। सर्वैः गुरुसेवा क्रियते।
अहं शास्त्राणि पठामि। मया शास्त्राणि पठ्यन्ते।
देवदत्तः भोजनं खादति। देवदत्तेन भोजनं खाद्यते।

द्विकर्मक-धातूनाम् प्रयोगाः-
In Sanskrit there are sixteen roots which are regarded as ditransitive(द्विकर्मक) –
दुह्,याच्,पच्,दण्ड,रूध्,प्रच्छ्,चि,ब्रू,शास्,जि,मन्थ,मुष्,नी,हृ,कृष्,वह्।
According to the rules of case ditransitives are of two types, namely primary object (मुख्य कर्म) and secondary object (गौण कर्म). In both the cases second case-ending is used.For example –
गोपः गां पयः दोग्धि।
(Cowherd squeezes out milk from cow.)
Here पयः is primary object and गां is secondary object.Fifth case-ending might have been applied to गो but as the root दुह् is a ditransitive second case-ending is used instead of the fifth.As second case-ending is used गो is treated as secondary object(गौण कर्म).
For the first twelve roots(दुह्------uptoमुष्) secondary object takes first case-ending and primary object takes second case-ending in passive voice.(गौणे कर्मणि दुह्यादेः).

गोपः गाम् पयः दोग्धि। गोपेन गौः पयः दुह्यते।
सः गाम् दुग्धं दोग्धि। तेन गौः दुग्धं दुह्यते।
वामनः बलिं वसुधां याचते। वामनेन बलिः वसुधां याच्यते।
निर्धनः नृपं धनं याचते। निर्धनेन नृपः धनं याच्यते।
पाचकः तण्डुलान् ओदनं पचति। पाचकेन ताण्डुलाः ओदनं पच्यते।
माता गोधूमचूर्णं रोटिकां पचति। मात्रा गोधूमचूर्णः रोटिकां पच्यते।
राजा चौरं शतं दण्डयति। राज्ञा चौरः शतं दण्ड्यते।
शिक्षकः छात्रं दशरूप्यकं दण्डयति। शिक्षकेन छात्रः दशरूप्यकं दण्ड्यते।
गोपः व्रजं गाम् अवरुणद्धि। गोपेन व्रजः गाम् अवरुध्यते।
सः पापं मित्रं अवरूणद्धि। तेन पापः मित्रं अवरुध्यते।
छात्रः गुरुं प्रश्नं पृच्छति। छात्रेण गुरुः प्रश्नं पृच्छ्यते।
सः बालिकां मार्गं पृच्छति। तेन बालिकां मार्गं पृच्छ्यते।
मालाकारः वृक्षान् पुष्पाणि चिनोति। मालाकारेण लता पुष्पाणि चीयन्ते।
देवः तडागं कमलानि चिनोति। देवेन तडागः कमलानि चीयन्ते।
आचार्यः शिष्यं धर्मं ब्रूते। आचार्येण शिष्यः धर्मं उच्यते।
भक्तः दर्शकं सत्यं ब्रूते। भक्तेन दर्शकः सत्यं उच्यते।
गुरुः शिष्यं धर्मं शास्ति। गुरुणा शिष्यः धर्मं शास्यते।(शिष्यते)
विद्वान् नृपं धर्मं शास्ति। विदुषा नृपः धर्मं शास्यते।(शिष्यते)
सः शत्रुं सहस्रं जयति। तेन शत्रुः सहस्रं जीयते।
शकुनिः युधिष्ठिरं शतं जयति। श्कुनिना युधिष्ठिरः शतं जीयते।
देवाः क्षीर-सागरं अमृतं मथ्नन्ति। देवैः क्षीर सागरः अमृतं मथ्यते।
चौरः राजानं सहस्रं मुष्णाति। चौरेण राजा सहस्रं मुष्यते।
कुपुत्रः मातरं द्विशतं मुष्णाति। कुपुत्रेण माता द्विशतं मुष्यते।
Excluding this twelve roots for the last four roots (नी,हृ, कृष्,वह्)primary object takes first and secondary object takes second case-ending in passive voice.(प्रधाने नी हृ कृष्वहाम्)

सः ग्रामं अजां नयति। तेन ग्रामं अजां नयते।
छात्रः गृहं पुस्तकं नयति। छात्रेण गृहं पुस्तकं नयते।
चौरः कृपणं धनं हरति। चौरेण कृपणं धनं हृयते।
सिंहः दिलीपं धेनु हरति। सिंहेन दिलीपं धेनुः हृयते।
नराः वसुधां रत्नानि कर्षन्ति। नरैः वसुधां रत्नानि कर्ष्यते।
कृषकः भूमिं हलं कर्षति। कृषकेण भूमिः हलं कर्ष्यते।
सः ग्रामं गाम् वहति। तेन ग्रामं गौः उह्यते।
भृत्यः गृहं भारं वहति। भृत्येन गृहं भारः उह्यते।

णिजन्त-द्विकर्मक-धातूनाम् वाच्यान्तर (change of voice in case of causative ditransitives):- In case of roots having the meaning of cognition and eating and having words as their object,first case-ending may be applied to any of the two (मुख्य,गौण).

गुरुः छात्रं धर्मं बोधयति। 1.गुरुणा छात्रः धर्मं बोध्यते।or
2.गुरुणा छात्रं धर्मः बोध्यते।
सः बालकं ओदनं भक्षयति। तेन बालकः ओदनं भक्ष्यते।
तेन बालकं ओदनं भक्ष्यते। (ओदन नपुं. वि.ए.व.)

In case of other causative (intransitive, having the meaning of movement)ditransitive roots the primary object which is being used in the formation of passive voice takes first case-ending.
गोविन्दः भृत्यं ग्रामं गमयति। गोविन्देन भृत्यः ग्रामं गम्यते।
सः स्वर्णकारं भूषणं हारयति। तेन स्वर्णाकारः भूषणं हार्यते।
सः कर्मकारं कटं कारयति। तेन कर्मकारः कटं कार्यते।



लृट्-लकार-प्रयोगः
कर्तृवाच्यम् कर्मवाच्यम्
सः फलं खादिष्यति। तेन फलं खादिष्यते।
ते मां द्रक्ष्यति। तैः अहं द्रक्ष्ये।
त्वं पुष्पाणि चेष्यसि। त्वया पुष्पाणि चेष्यते।
अहं इन्द्रप्रस्थं गमिष्यामि। मया इन्द्रप्रस्थः गमिष्यते।
छात्राः विद्यालयं गमिष्यन्ति। छात्रैः विद्यालयः गमिष्यते।
रामः वेदान् पठिष्यति। रामेण वेदाः पठिष्यते।
अहं लेखं लेखिष्यामि। मया लेखः लेखिष्यते।
वयं भोजनं करिष्यामः। अस्माभिझ् भोजनं करिष्यते।
सः बालिकां कथयिष्यति। तेन बालिका कथयिष्यते।
अहं कथां न विस्मरिष्यामि। मया कथा न विस्मरिष्यते।
रमा फलानि न खादिष्यति। र्मया फलानि न खादिष्यते।
वयं चन्द्रमसं द्रक्ष्यामः। अस्माभिः चन्द्रमाः द्रक्ष्यते।
पुत्रः पितरं सेविष्यते। पुत्रेण पिता सेविष्यते।
छात्रः ग्रामं गमिष्यति। छात्रेणा ग्रामः गमिष्यते।
भक्ताः ईश्वरं पूजयिष्यति। भक्तैः ईश्वरः पूजयिष्यते।
व्याघ्रः धेनुं हनिष्यति। व्याघ्रेण धेनुः हनिष्यते।
छात्राः ग्रन्थान् पठिष्यति। छात्रैः ग्रन्थाः पठिष्यन्ते।
न्यायाधीशः न्यायं करिष्यति। न्यायाधीशेन न्यायः करिष्यते।
लौहकाराः खनित्राणि रचयिष्यति। लौहकारैः खनित्राणि रचयिष्यन्ते।
कुम्भकारौ घटान् रचयिष्यतः। कुम्भकारैः घटाः रचयिष्यन्ते।
आवां पाठं पठयिष्यावः। अवाभ्यां पाठः पठिष्यते।
अहं जलं पास्यामि। मया जलं पास्यते।

लङ् - लकार – प्रयोगः
गौः तृणानि अभक्षयत्। गवा तृणानि अभक्ष्यन्त।
वयं कथाम् अशृणुम। अस्माभिः कथा अश्रूयत।
अहं कार्यम् अकरवम्। मया कार्यम् अक्रियत।
सर्वे यज्ञम् अकुर्वन्। सर्वैः यज्ञः अक्रियत।
रामः वनम् अगच्छात्। रामेण वनम् अगम्यत।
छात्रौ विद्यालयं अगच्छताम्। छात्राभ्यां विद्यालयः अगम्यत।
स्वर्णकारः भूषणानि अरचयत्। स्वर्णा-कारेण भूषणानि अरच्यन्त।
ते पाठम् अस्मरन्। तैः पाठः अस्मर्यत।
देवकी पतिम् अवदत्। देवक्या पतिः औद्यत।
सः तम् अहन्। तेन सः अहन्यत।
रामः रावणम् अहन्। रामेण रावणः अहन्यत।
तौ कार्यम् अकुरुताम्। ताभ्यां कार्यं अक्रियत।
सा फलम् अक्रीणात्। तया फलं अक्रीयत।
मालाकारः पुष्पाणि अचिनोत्। मालाकारेण पुष्पाणि अचीयन्त।
छात्रः जलम् अपिबत्। छात्रेण जलं अपीयत।
सा भोजनम् अपचत्। तया भोजनम् अपच्यत।
राजा मन्त्रिणम् अपृच्छम्। राज्ञा मन्त्री अपृच्छ्यत।
छात्राः क्रीडाक्षेत्रम् अगच्छन्। छात्रैः क्रीडाक्षेत्रंम् अगम्यत।
विद्यार्थिनः कोलाहलम् अकुर्वन्। विद्यार्थिभिः कोलाहलः अक्रियत।
गुरुः शिष्यम् अवदत्। गुरुणा शिष्यः औद्यत।
शिष्यः गुरुम् अनमत्। शिष्येण गुरुः अनम्यत।
ते पर्वतान् अपश्यन्। तैः पर्वताः अदृश्यन्त।
बालकाः मातरम् अब्रुवन्। बालकैः माता अब्रूयत।
त्वम् जलम् अपिबः। त्वया् जलम् अपीयत।
तौ आम्राणि अखादताम्। ताभ्याम् आम्राणि अखाद्यन्त।

कृदन्त – प्रत्यय – प्रयोगः
सा दुग्धं पीतवती । तया दुग्धं पीतम्।
देवः जलं पीतवान्। देवेन जलं पीतम्।
नृपः निर्धनाय धनं दत्तवान्। नृपेणा निर्धनाय धनं दत्तम्।
वयम् तान् मुक्तवन्तः । अस्माभिः ते मुक्ताः ।
अहं पत्राणि लिखितवान्। मया पत्राणि लिखितानि।
सा पुस्तकं क्रीतवती। तया पुस्तकं क्रीतम्।
शिष्याः गुरुं नतवन्तः शिष्यैः गुरुः नतः ।
सः बालम् ताडितवान्। तेन बालः ताडितः ।
ते विद्यालयं गतवन्तः। तैः विद्यालयः गतः।
ताः पुष्पाणि चीतवत्य। ताभिः पुष्पाणि चीतानि।
अहं गीतानि श्रुतवान्। मया गीतानि श्रुतानि।
व्याधः खगान् हतवान्। व्याधेन खागाः हताः ।
कृष्णः कंसं हतवान्। कृष्णेन कंसः हतः ।
बालकाः पाठान् पठितवन्तः। बालकैः पाठाः पठिताः।
अहं जलं पीतवान्। मया जलं पीतम्।
मुनिः अस्मान् उपदिष्टवान्। मुनिना वयम् उपदिष्टाः।
नृपः शत्रुं हतवान्। नृपेण शत्रुः हतः।
न्यायाधीशः चौरं त्यक्तवान्। न्यायाधीशेन चौरः त्यक्तः।
सुधा पत्रं लिखितवती। सुधया पत्रं लिखितम्।
मित्राणि अस्मान् मिलितवन्तः। मित्रैः वयं मिलिताः ।
अहं गीतां पठितवान्। मया गीता पठिता।

विशेषण – विशेष्य – वाक्येषु वाच्यान्तरः।
सः बालकः पाठं पठति। तेन बालकेन पाटः पठ्यते।
सा बालिका नृत्यं करोति। तया बालिकया नृत्यं क्रियते।
तौ बालकौ लेखं लिखतः । ताभ्यां बालकाभ्यां लेखाः लिख्यते।
ते बालिके भोजनं खादतः। ताभ्यां बालिकाभ्यां भोजनं खाद्यते।
ते बालकाः गीतं गायन्ति। तैः बालकैः गीतं गीयते।
ताः बालिकाः जलं पिबन्ति। ताभिः बालिकाभिः जलं पीयते।
अहं तानि पुस्तकानि पठामि। मया तानि पुस्तकानि पठ्यन्ते।
रामः तत् फलम् खादति। रामेण तत् फलं खाद्यते।
राजा तं मन्त्रिणं पृच्छति। राज्ञा सः मन्त्री पृच्छ्यते।
एकः बालकः गन्थं पठति। एकेन बालकेन ग्रन्थः पठ्यते।
द्वौ बालकौ पाठान् पठतः । द्वाभ्यां बालकाभ्यां पाठाः पठ्यन्ते।
त्रयः बालकाः पाठान् पठन्ति। त्रिभिः बालकैः पुष्पाणि चीयन्ते।
एका नारी गीतं गायति। एकया नार्या गीतं गीयते।
तिस्रः महिलाः कथां शृण्वन्ति। त्रिभि महिलाभिः कथा श्रूयते।
द्वे ललने ग्रामं गच्छतः । द्वभ्यां ललनाभ्यां ग्रामः गम्यते।
चत्वारः पुरुषाः वनं गच्छति। चतुर्भिः पुरुषैः वनं गम्यते।
चतस्रः महिलाः वस्त्राणि क्रीणन्ति। चतसृभिः महिलाभिः वस्त्राणि क्रीयन्ते।
त्वम् एकम् फलम् आनयसि। त्वया एकं फलं आनीयते।
युवाम् द्वे फले नमथः। युवाभ्यां द्वे फले नम्येते।
यूयम् त्रीणि फलानि खादथ। युष्माभिः त्रीणि फलानि खाद्यन्ते।
वयम् चत्वारि फलानि पश्यामः । अस्माभिः चत्वारि फलानि दृश्यन्ते।
सुन्दरी नारी उद्यानं गच्छति। सुन्दर्या नार्या उद्यानं गम्यते।
श्रेष्ठः पुरुषः सत्यं वदति। श्रेष्ठेन पुरुषेण सत्यं उद्यते।
सः मधुराणि फलानि खादति। तेन मधुराणि फलानि खाद्यन्ते।
सा बालिका निर्मलं जलं पिबति। तया बालिकया निर्मलं जलं पीयते।

कर्मवाच्यात् कर्तृवाच्यः (मिश्रित वाक्यानि)
कर्मवाच्यम् कर्तृवाच्यम्
बालेन विद्यालयः गम्यते। बालः विद्यालयं गच्छति।
बालकेन गृहं गम्यते। बालकः गृहं गच्छति।
बालाभ्यां फलानि खाद्यन्ते। बालौ फलानि खादतः।
बालैः जलं पीयते। बालाः जलं पिबन्ति।
बालकैः पुस्तके पठ्येते। बालकाः पुस्तके पठन्ति।
बालया गीतं गीयते। बाला गीतं गायति।
बालिकया दुग्धं पीयते। बालिका दुग्धं पिबति।
बालाभ्यां फले खाद्येते। बालौ पले खादतः।
बालकाभ्यां उद्यानं गम्यते। बालकौ उद्यानं गच्छतः ।
बालाभिः लेखाः लिख्यन्ते। बालाः लेखान् लिखन्ति।
बालिकाभिः मृगाः दृश्यन्ते। बालिकाः मृगान् पश्यति।
तेन अहं दृश्ये। सः माम् पश्यति।
ताभ्यां युवां कथ्येते। तौ युवां कथयतः ।
तैः मृगः दृश्यते। ते मूगं पश्यति।
तया विद्यालयः गम्यते। सा विद्यालयं गच्छति।
ताभ्यां पत्रे लिख्येते। तौ पत्रे लिखतः ।
ताभिः नृत्यं क्रियते। ताः नृत्यं कुर्वन्ति।
त्वया जलं पीयते। त्वं जलं पिबसि।
युवाभ्यां भजनं क्रियते। युवां भजनं कुरुथः।
युष्माभिः हरिः भज्यते। यूयं हरिं भजथः ।
मया रमेशः कथ्यते। अहं रमेशं कथयामि।
आवाभ्यां कथा श्रूयते। अवाम् कथां श्रुणुवः।
अस्माभिः सिंहौ दृश्यते। वयं सिंहौ पश्यामः ।
सिंहेन नरः खाद्यते। सिंहः नरं खादति।
राधया कृष्णः कथ्यते। राधा कृष्णं कथयति।
नारदेन वेदाः श्रूयन्ते। नारदः वेदान् शृणोति।
राज्ञा पूजा क्रियते। राजा पूजां करोति।
त्वया सर्पः हन्यते। त्वं सर्पं हंसि।
मया कार्यं क्रियते। अहं कार्यं करोमि।
मया त्वं कथ्यसे। अहं त्वां कथयामि।
त्वया अहं दृष्टः। त्वं माम् अपश्यः ।
कृष्णेन कंसः हतः। कृष्णः कंसं अहन्।
किं तेन अहं दृश्ये ? किं सः माम् पश्यति?
बालकाभ्यां कुत्र गम्यते? बालकौ कुत्र गच्छतः?
युष्माभिः कदा गृहं गम्यते? यूयं कदा गृहं गच्छथ?
तैः कदा भोजनं खाद्यते? ते कदा भोजनं खादन्ति?
भक्तैः कथा श्रुता। भक्ताः कथां शृण्वन्ति।
अध्यापकेन छात्राः कथिताः । अध्यापकः छात्रान् कथितवान्।
धर्मवीरेण फले खाद्येते। धर्मवीरः फले खादति।
देवेन पाठः स्मर्यते। देवः पाठं स्मरति।
बालया मधुरं गीतं गीयते। बाला मधुरं गीतं गायति।
तेन बालकेन कार्यं क्रियते। स बालकः कार्यं करोति।
ताभ्यां बालकाभ्यां चन्द्रमाः दृश्यते। तौ बालकौ चन्द्रमसं पश्यतः ।
तैः बालकैः शुकाः दृष्टाः। ते बालकाः शुकान् अपश्यन्।
तया बालिकया पाठशाला गम्यते। सा बालिका पाठशालां गच्छति।
ताभ्यां बालिकाभ्यां वार्ता न श्रूयते। ते बालिके वार्तां न शृणुतः ।
अनया बालया भोजनं पच्यते। इयम् बाला भोजनं पचति।
बालकेन वृक्षौ दृश्यते। बालकः वृक्षौ पश्यति।
देवेन त्वं दृश्यसे। देवः त्वां पश्यति।
अस्माभिः यूयं स्मर्यध्वे। वयं युष्मान् स्मरामः।
पुत्रेण पिता सेव्यते। पुत्रः पितरं सेवते।
मया पुरुषौ दृष्टौ। अहं पुरूषौ पश्यामि।
ब्रह्मचारिणा गृहं प्रविश्यते। ब्रह्मचारी गृहं प्रविशति।
विहगैः जालं ह्रियते। विहगाः जालं हरन्ति।
गवा तृणानि भक्ष्यन्ते। गौः तृणानि भक्षयति।
शशांकेन चन्द्रः दृश्यते। शशांकः चन्द्रं पश्यति।
किं त्वया पुस्तकानि न पठ्यन्ते? किं त्वं पुस्तकानि न पठसि?
सर्वैः सज्जनाः सम्मान्यन्ते। सर्वे सज्जनान् सम्मानयन्ति।
कार्यं केन क्रियते? कार्यं कः करोति?
तेन किं ज्ञायते? सः किं जानाति?
साधुभिः वृद्धाः सेव्यन्ते। साधवः वृद्धान् सेवन्ते।
तेन वीरेण अनेके शत्रवः हताः। सः वीरः अनेकान् शत्रून् हतवान्।
छात्रैः प्राथना क्रियते। छात्राः प्राथनां कुर्वन्ति।
महिलाभिः जलं आनीयते। महिलाः जलम् आनयन्ति।
अम्बया ओदनं पच्यते। अम्बा ओदनं पचति।
अस्माभिः फलानि क्रीयन्ते। वयं फलानि क्रीणीमः।
आशुतोषेण जनकः प्रणम्यते। आशुतोषः जनकं प्रणमति।
विष्णुना शिवः पूज्यते। विष्णुः शिवं पूजयति।
त्वया कविता श्रूयते। त्वम् कथां शृणोषि।
बालकेन घटः पूर्यते। बालकः घटं पूरयति।
दीक्षया प्रातः दुग्धं पीयते। दीक्षा प्रातः दुग्धं पिबति।
कामिन्या सेवफले खाद्येते। कामिनी सेवफले खादति।
विपुलेन असत्यं न उद्यते। विपुलः असत्यं न वदति।
विद्यार्थिभिः राष्ट्रगीतं गीयते। विद्यार्थिनः राष्ट्रगीतं गायन्ति।
मित्रैः सहयोगः दीयते। मित्राणि सहयोगं ददति।
भुवा अन्नं दीयते। भूः अन्नं ददाति।
शशाङ्केन तमः हन्यते। शशांकः तमः हन्ति।
कर्मकारैः वेतेनं लभ्यते। कर्मकाराः वेतनं लभन्ते।
कपोतैः धान्यं खाद्यते। कपोताः धान्यं खादन्ति।
दर्शकैः नाटकं दृश्यते। दर्शकाः नाटकं पश्यन्ति।
कृषकेण एडका नीयते। कृषकः एडकां नयति।
तेन अभिनयः न क्रियते। सः अभिनयं न करोति।
कलाकारेण मूर्तिः रच्यते। कलाकारः मूर्तिं रचयति।
राम-लक्ष्मणाभ्यां वनम् अगमत्। रामलक्ष्मणौ वनम् अगच्छताम्।
सन्दलया फलानि खाद्यन्ते। सन्दला फलानि खादति।
अनामियकया चन्द्रमाः दृश्यते। अनामिका चन्द्रमसं पश्यति।
मया त्वं कथ्यसे। अहं त्वाम् कथयामि।
किं त्वया चलचित्रं दृश्यते। किं त्वम् चलचित्रं पश्यसि?
सुधया मिष्टान्नं खाद्यते। सुधा मिष्टान्नं खादति।
अस्माभिः आपणं गम्यते। वयम् आपणं गच्छामः।
मात्रा वस्त्राणि क्षाल्यन्ते। माता वस्त्राणि क्षालयति।
भक्तैः रामकथा श्रूयते। भक्ताः रामकथां शृण्वन्ति।
सज्जनैः सत्यम् उद्यते। सज्जनाः सत्यं वदन्ति।
शिवभक्तैः जलाभिषेकः क्रियते। शिवभक्ताः जलाभिषेकं कुर्वन्ति।
एकेन पथिकेन नगरं गम्यते। एकः पथिकः नगरं गच्छति।
तेन पुस्तकं गृह्यते। सः पुस्तकं गृह्णाति।
तैः खगानां कलरवः श्रूयते। ते खगानां कलरवं शृण्वन्ति।
सर्वैः विद्वान् पूज्यते। सर्वे विद्वांसं पूजयन्ति।
बुभुक्षितैः व्याकरणं न भुज्यते। बुभुक्षिताः व्याकरणां न भुञ्जते।
पिपासुभिः काव्यरसः न पीयते। पिपासवः काव्यरसं न पिबन्ति।
विद्यया विनयं दीयते। विद्या विनयं ददाति।
मेघैः जलं वृष्यते। मेघाः जलं वर्षन्ति।
छात्रैः शिक्षिकाः अभिनन्द्यन्ते। छात्राः शिक्षकान् अभिनन्दन्ति।
राष्ट्रपतिना राष्ट्रं सम्बोध्यते। राष्त्रपतिः राष्ट्रं सम्बोधयति।
रामेण सीता कथिता। रामः सीतां कथितवान्।
तेन सुखम् अनुभूयते। सः सुखम् अनुभवति।
सिंहेन मृगौ हन्येते। सिंहः मृगौ हन्ति।
व्याधेन शूकराः हन्यन्ते। व्याधः शूकरान् हन्ति।
प्रधानमन्त्रिणा मन्त्रिणः सम्बोधयन्ते। प्रधानमन्त्री मन्त्रिणः सम्बोधयति।
मालाकारेण कमलानि चीयन्ते। मालाकारः कमलानि चिनोति।
तेन गौः पयः दुह्यते। सः गाम् पयः दोग्धि।
हरिणा बलिः वसुधां याच्यते। हरिः बलिं वसुधां याचते।
देवेन भारः नगरम् उह्यते। देवः भारं नगरं वहति।
पाचकेन तण्डुलाः उदनं पच्यन्ते। पाचकः तण्डुलान् ओदनं पचति।

कर्तृवाच्यात् भाववाच्यः

देवः पठति। देवेन पठ्यते।
देवौ खादतः। देवाभ्यां खाद्यते।
देवाः स्मरति। देवैः स्मर्यते।
सः गच्छति। तेन गम्यते।
तौ पिबतः। ताभ्यां पीयते।
ते चलन्ति। तैः चल्यते।
बाला क्रीडति। बालया क्रीड्यते।
बाले नृत्यतः। बालाभ्यां नर्त्यते।
बालाः हसन्ति। बालाभिः हस्यते।
सा पचति। तया पच्यते।
ते शृणुतः । तैः श्रूयते।
ताः गणायति। ताभिः गण्यते।
त्वम् क्रीडसि। त्वया क्रीड्यते।
युवाम् हससि। युवाभ्याम् हस्यते।
यूयं सेवध्वे। युष्माभिः सेव्यते।
अहं स्मरामि। मया स्मर्यते।
आवां भजावः। आवाभ्यां भज्यते।
वयं लभामहे। अस्माभिः लभ्यते।
अयं बालकः कथयति। अनेन बालकेन कथ्यते।
इमौ बालकौ हसतः । आवाभ्यां बालकाभ्यां हस्यते।
इमे बालकाः गायन्ति। एभिः बालकैः गीयते।
इयं छात्रा नृत्यति। अनया छात्रया नर्त्यते।
इमे छात्रे पश्यतः। आभ्यां छात्राभ्यां दृश्यते।
इमाः छात्राः शोभन्ते। आभिः छात्राभिः शोभ्यते।
इदं फलं पतति। अनेन फलेन पत्यते।
इमे फले पततः । आभ्यां फलाभ्यां पत्यते।
चक्रं भ्रमति। चक्रेण भ्रम्यते।
पुष्पे विकसतः । पुष्पाभ्यां विकस्यते।
कमलानि विकसन्ति। कमलैः विकस्यते।
आम्राणि मधुराणि सन्ति। आम्रैः मधुरैः भूयते।
बालिके पचतः । बालिकाभ्यां पच्यते।
एकः पथिकः गच्छति। एकेन पथिकेन गम्यते।
द्वौ नरौ भजतः । द्वाभ्यां नराभ्यां भज्यते।
त्रयः बालकाः पठन्ति। त्रिभिः बालकैः पठ्यते।
चत्वारः मृगाः धावन्ति। चतुर्भिः मृगैः धाव्यते।
एका महिला पचति। एकया महिलया पच्यते।
द्वे ललने नूत्यतः । द्वभ्यां ललनाभ्यां नर्त्यते।
तिस्रः स्त्रियः गायन्ति। तिसृभिः स्त्रीभिः गीयते।
चतस्रः शाखाः नमन्ति। चतसृभिः शाखाभिः नम्यते।
एकं पत्रं पतति। एकेन पत्रेण पत्यते।
द्वे पत्रे शोभने स्तः । द्वाभ्यां पत्राभ्यां शोभनाभ्यां भूयते।
चत्वारि चक्राणि भ्रमन्ति। चतुर्भिः चक्रैः भ्रम्यते।
श्रेष्ठः पुरुषः सहते। श्रेष्ठेन पुरुषेण सह्यते।
रामलक्ष्मणौ गच्छतः । रामलक्ष्मणाभ्यां गम्यते।
सुन्दरी नारी लिखति। सुन्दर्या नार्या लिख्यते।
शुकः वदति। शुकेन उद्यते।
गजाः धावन्ति। गजैः धाव्यते।
सिंहौ गर्जतः । सिंहाभ्यां गर्ज्यते।
मयूराः नृत्यन्ति। मयूरैः नर्त्यते।
मक्षिके उत्पततः। मक्षिकाभ्याम् उत्पत्यते।
कलिकाः विकसन्ति। कलिकाभिः विकस्यते।
ते हसन्ति। तैः हस्यते।
ते क्रीडतः। ताभ्यां क्रीड्यते।
तानि पतन्ति। तैः पत्यते।
मित्राणि गच्छन्ति। मित्रैः गम्यते।
चक्रे भ्रमतः । चक्राभ्यां भ्रम्यते।
युवां लिखथः । युवाभ्यां लिख्यते।
यूयं खादथ। युष्माभिः खाद्यते।
त्वं पश्यसि । त्वया दृश्यते।
वयं तिष्ठामः । अस्माभिः स्थीयते।
आवां हसावः । आवाभ्यां हस्यते।
गोपालः आनयति। गोपालेन आनीयते।
जम्बूफलानि पतन्ति। जम्बूफलैः पत्यते।
कृषकाः आगच्छन्ति। कृषकैः आगम्यते।
ग्रामस्य नराः आगच्छन्ति। ग्रामस्य नरैः आगम्यते।
खगाः वृक्षयोः तिष्ठन्ति। खगैः वृक्षयोः स्थीयते।
मञ्जूषासु वस्त्राणि सन्ति। मञ्जूषासु वस्त्रैः भूयते।
यूयं यतध्वे। युष्माभिः यत्यते।
सः पठिष्यति। तेन पठिष्यते।
तौ क्रीडिष्यतः । ताभ्यां क्रीडिष्यते।
ते रचयिष्यन्ति। तैः रचयिष्यते।
त्वं लेखिष्यसि। त्वया लेखिष्यते।
युवां द्रक्षथः । युष्माभिः द्रक्षते।
यूयं पास्यथ। युष्माभिः पास्यते।
अहं पास्यामि। मया पास्यते।
आवां चलावः । आवाभ्यां चल्यते।
वयं सेविष्यामहे। अस्माभिः सेविष्यते।
छात्रः अपठत्। छात्रेण अपठ्यत।
कन्या अपचत्। कन्यया अपच्यत।
बालकौ अक्रीडताम्। बालकाभ्यां अक्रीड्यत।
बाले अगच्छताम्। बालाभ्याम् अगम्यत।
वृक्षात् पत्राणि अपतन्। वृक्षात् पत्रैः अपत्यत ।
त्वम् अनृत्यः । त्वया अनृत्यत।
युवाम् अखादताम्। युवाभ्याम् अखाद्यत।
यूयम् अपश्यत। यूष्माभिः अदृश्यत।
अहम् अभ्रमम् । मया अभ्रम्यत।
आवाम् अजपाव। आवाभ्याम् अजप्यत।
वयम् अधावाम। अस्माभिः अधाव्यत।
सः ध्यानेन पठति। तेन ध्यानेन पठ्यते।
सः पठितवान्। तेन पठितम्।
तौ पठितवन्तौ। ताभ्यां पठितम्।
ते पठितवन्तः। तैः पठितम्।
सा गतवती। तया गतम्।
ते गतवत्यौ। ताभ्यां गतम्।
ताः गतवत्यः । ताभिः गतम्।
मूषकः बिलाद् बहिः आगच्छत्। मूषकेण बिलाद् बहिः अगम्यत।
सः सिंहस्य उपरि अकूर्दत। तेन सिंहस्य उपरि अकूदर्यत।
गुरुः अहसत् अवदत् च। गुरुणा अहस्यत औद्यत च।
के गच्छन्ति ? कैः गम्यते?
का वदति? कया उद्यते?
कानि चलन्ति? कैः चल्यते?
ते ददति। तैः दीयते?
वने ओषधयः मिलन्ति। वने ओषधीभिः मिल्यते।
सूर्यः भासते। सूर्येण भास्यते।
चन्द्रः प्रकाशते। चन्द्रेण प्रकाश्यते।
दुष्टः बालकः अचोरयत्। दुष्टेन बालकेन अचोर्यत।


भाववाच्यात् कर्तृवाच्यम्
रामेण पठ्यते। रामः पठति।
बालकाभ्यां हस्यते। बालकौ हसतः ।
छात्रैः दृश्यते। छात्राः पश्यन्ति।
रमया क्रीड्यते। रमा क्रीडति।
लताभ्यां नम्यते। लते नमतः ।
शाखाभिः नम्यते। शाखाः नमन्ति।
पत्रैः पत्यते। पत्राणि पतन्ति।

चक्राभ्यां भ्रम्यते। चक्रे भ्रमतः।
पुष्पैः विकस्यते। पुष्पाणि विकसन्ति।
त्वया लिख्यते। त्वं लिखसि।
युवाभ्यां नृत्यते। युवां नृत्यथः।
युष्माभिः पीयते। यूयं पिबथ।
मया भज्यते। अहं भजामि।
आवाभ्यां गीयते। आवां गायावः।
आवाभ्यां गम्यते। आवां गच्छावः ।
अस्माभिः क्रीड्यते। वयं क्रीडामः।
तेन स्थीयते। सः तिष्ठाति।
ताभ्यां खाद्यते। तौ खादतः।
तैः क्रियते। ते कुर्वन्ति।
तया पच्यते। सा पचति।
ताभ्यां नम्यते। तौ नमतः ।
ताभिः हस्यते। ताः हसन्ति।
तेन तत्र दृश्यते। सः तत्र पश्यति।
सिंहैः गर्ज्यते। सिंहाः गर्जन्ति।
छात्राभ्यां तत्र स्थीयते। छात्रौ तत्र तिष्ठतः।
अस्माभिः स्मर्यते। वयं स्मरामः ।
युवाभ्यां गृह्यते। युवां गृह्णीथः ।
ताभ्यां क्रीयते। तौ क्रीणीतः ।
भवता ज्ञायते । भवान् जानाति।
मृगैः भुज्यते। मृगाः भुञ्जन्ति।
स्त्रीभिः उद्यते। स्त्रियः वदन्ति।
तया बालिकया अहस्यत। सा बालिका अहसत्।
तेन मृगेण धाव्यते। सः मृगः धावति।
ताभ्यां पत्राभ्यां पत्यते। ते पत्रे पततः।
सर्वैः देशभक्तैः रक्ष्यते। सर्वे देशभक्ताः रक्षन्ति।
चौरैः चोर्यते। चौराः चोरयन्ति।
तैः चिन्तितम्। ते चिन्तितवन्तः।
शिशुना चल्यते। शिशुः चलति।
अस्माभिः प्राप्यते। वयं प्राप्नुमः।
मयूरेण अनृत्यत। मयूरः अनृत्यत्।
राज्ञा दीयते। राजा ददाति।
सेवकैः सेव्यते। सेवकाः सेवन्ते।
देवेन हस्यते। देवः हसति।
कथया भूयते। कथा अस्ति।
कन्यया क्रीड्यते। कन्या क्रीडति।
मूर्खेण नश्यते। मूर्खः नश्यति।
तेन गमिष्यते। सः गमिष्यति।
ताभिः नर्तिष्यते। ताः नर्तिष्यन्ति।
चक्रैः भ्रमिष्यते। चक्राणि भ्रमिष्यन्ति।
अध्यापिकया पाठ्यते। अध्यापिका पाठयति।
बलवता रक्ष्यते। बलवान् रक्षति।
वानराभ्यां कूद्र्यते। वानरौ कूर्दतः ।
पिकैः कूज्यते। पिकाः कूजन्ति।
बालकेन क्षिप्रं चल्यते। बालकः क्षिप्रं चलति।