यस्य बुद्धिर्बलं तस्य कस्मिंस्चिद् वने भासुरकः नामः सिंहः अवसत् । सः प्रतिदिनम् अनेकेषां पशूनां वधम् अकरोत् । एकदा वनस्य सर्वे पशवः तस्य सिंहस्य समीपमगच्छन् अवदत् च - "मृगेन्द्र ! त्वं किमर्थं पशूनां वधं करोषि ? यदि एकेनैव तव तृप्तिर्भवति वयं स्वयमेव तव भोजनाय प्रतिदिनम् एकं पशुं प्रेषयिष्यामः । " तेषां वचनानि श्रुत्वा भासुरकोऽवदत् -"यदि यूयम् एवं वदथ तहि भवतु तथा । परन्तु यदि कस्मिंस्चिद् दिवसे मम भोजनाय एकः पशुः नागमिष्यति तहि अहं सर्वेषां पशूनां वधं करिष्यामि । " ततः प्रभृति प्रतिदिनम् एकः पशुः सिंहस्य भोजनाय तस्य समीपमगच्छत् । एकदा एकस्य शशकस्य वारः आसीत् । सः अचिन्तयत् - "यदि मम मरणं निश्चितमस्ति तहि अहं मन्दं मन्दं गच्छामि । " सः शशकः मार्गे एकं कूपमपश्यत् । तस्मिन् कूपे स्वप्रतिबिम्बं दृष्ट्वा सः एकम् उपायमचिन्तयत् । अथ सः शशकः तस्य सिंहस्य समीपे विलम्बेन अगच्छत् । क्षुधापीडितः भासुरकः तं दृष्टवा क्रुद्धोऽभवत् अपृच्छत् च - "किमर्थं त्वं विलम्बेन आगतोऽसि ? प्रातः अहमवष्यमेव सर्वेषां पशूनां वधं करिष्यामि । " शशकः विनयेन अवदत् -"मृगराज ! अत्र अहम् अन्येषां च पशूनां दोषो नास्ति । अहं तु पञ्चशशकैः सह तव समीपे आगन्तुं प्रवृतः आसम् । परं मार्गे एकः अपरः सिंहः अस्मान् अमिलत् अवदत् च -"अहमस्य वनस्य नृपः अस्मि । अतः अहं युष्मान् भक्षयिष्यामि । " अहं तमवदम् - "अस्य वनस्य नृपस्तु भासुरकः नाम सिंहः अस्ति । सः अद्य अस्मान् भक्षयिष्यति । " एतत् श्रुत्वा सः सिंहः अतिक्रुद्धोऽभवत् । अहं तु पुनः आगमिष्यामि इति शपथं कृत्वा अत्र आगतोऽस्मि । " एतदाकर्ण्य भासुरकः क्रोधेन अवदत् -"सः अपरः सिंहः कुत्र वसति ? तं शीघ्रं मह्यं दर्शय । " तदा सः शशकः भासुरकमेकस्य कूपस्य समीपे अनयत् अकथयत् च - " अस्मिन् कूपे सः सिंहः वसति । " भासुरकः तस्मिन् कूपे स्वप्रतिबिम्बं दृष्ट्वा अयम् अपरः सिंहः इति मत्वा उच्चैः अगर्जत् । स्वशब्दस्य प्रतिध्वनिं श्रुत्वा सः तस्मिन् कूपे अकूर्दत् प्राणान् च अत्यजत् । उक्तञ्च - बुधिर्यस्य बलं तस्य निबुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मतः शशकेन निपातितः ॥