विज्ञानस्य समुत्कर्षः "मोहन ! आगच्छ पुत्र ! भोजने विलम्बः भवति !" रोहिणी अभवत् । "आगच्छामि मातः ! इदानीं केशवेन सह किञ्चित् सन्देशविनिमयं करोमि," मोहनः उत्तरं दत्तवान् । "पुत्र ! केशवस्तु अमेरिकायां निवसति ?" "आम् मतह् ! इदानीम् इन्टरनेट- माध्यमेन आवयोः सम्पर्कः अस्ति । सम्प्रति सङ्गणकेन सम्प्रेषितः सन्देशः क्षणेनैव सप्तसमुद्रस्य पारं याति ।" एतादृशम् अस्ति आधुनिकं जीवनम् ! अस्य सङ्गणक-यन्त्रस्य आविष्कारेण उद्योगः, शिक्षा, मनोरञ्जनादि सर्वेषु क्षेत्रेषु विकासः जातः । सत्यं दूरभाष-वायुयानादिभिः दूरस्थस्य संसारः समीपम् आयाति, परम् इण्टरनेटमाध्यमेन तु अधुना वसुधा एव कुटुम्बकं जातम् । दूरदर्शनस्य आविष्कारेण अधुना सर्वसाधारणाः सर्वान् कार्यक्रमान् दृश्यान् च पश्यन्ति । विद्युता लभ्यते प्रकाशः वायुश्च । गैस-इन्धनम्, तापकरणम्, शीतकम् इत्यादीनि नानाविधानि वैज्ञानिकोपकरणानि आधुनिकं जीवनं संवर्धयन्ति । अहो ! विज्ञानस्य चमत्कारः सर्वेषु क्षेत्रेषु दृश्यते । भवतु हिमालयस्य सर्वोच्चशिखरम् अथवा प्रशान्तमहासागरस्य गाम्भीर्यम्, अतिदूरस्थः मङ्गलग्रहः भवतु अथवा मानवोदरस्थः सूक्ष्मकीटः -सर्वम् इदानीं द्रष्टुं ज्ञातुं च शक्यते । विज्ञानस्य एतेन बहुविधेन विकासेन संसारस्य सर्वे प्राणिनः लाभान्विताः भवन्ति । परं विज्ञानस्य उपयोगः लोककल्याणाय एव कर्तव्यः, न तु विनाशाय ।