विद्यायाः बुद्धिरुत्तमा कस्मिंश्चित् स्थाने चत्वारो ब्राह्मणकुमाराः परस्परं मित्रभावेन वसन्ति स्म । तेषां त्रयः शास्त्रेषु पारङ्गताः परन्तु बुद्धिरहिताः आसन् । एकस्तु बुद्धिमान्, केवलं शास्त्रविमुखः । एकदा ते अचिन्तयन् - "कः गुणः विद्यायाः येन देशान्तरं गत्वा धनार्जनं न कृतम् ? तत् वयं पूर्वदेशं चलेम ।" तथा कृते मार्गे ज्येष्ठः अवदत्- "अहो ! अस्माकं एकः चतुर्थः शास्त्रविमुखः, केवलं बुद्धिमान् । न तु धनादिकं लभ्यते विद्यां विना । तत् सः गच्छतु गृहम् ।" एतस्य परं द्वितीयः अवदत्- " एवं कर्तुम् उचितं न भवति, यतः एषः अस्माकं चिरमित्रम् । अत एव, आगच्छ मित्र ! अस्मदुपार्जितस्य वित्तस्य समभागी भविष्यसि ।" तदा ते प्रस्थिताः । एकस्मिन् वने मृतसिंहस्य अस्थीनि दृष्टवन्तः । तदा प्रथमः अवदत्- "अहो ! अद्य विद्यायाः परीक्षा कर्तव्या । अयं सिंहः मृतः तिष्ठति । अस्मै सिंहाय जीवनदानं दातव्यम् ।" इत्युक्त्वा सः सिंहस्य अस्थीनि संयोजितवान् । द्वितीयः तेषु चर्म-मासं-रुधिरं संयोजयति । तृतीयः यावत् जीवनं सञ्चारयितुम् उद्युक्तः तावत् चतुर्थः सुबुद्धिः उच्चैः अकथयत् - " भो मित्र ! तिष्ठतु । एषः सिंहः । यदि एषः जीवति तहि सर्वे वयं मृत्युमुखे गमिष्यामः ।" ततः तृतीयः अवदत् - "धिक् मूर्ख ! अहं विद्यां निष्फला न करिष्यामि । सुबुद्धिः प्रत्यवदत्-"यदि एवम् तदा क्षणं तिष्ठ यावत् अहं वृक्षम् आरोहामि ।" अतः परं यावत् सिंहः सजीवः कृतः तावत् उत्थाय सः तान् त्रीन् अपि कुमारान् हतवन्तः । शास्त्रविमुखः सुबुद्धिश्च वृक्षात् अवतीर्य गृहं गतः ।