वसन्तः ऋतुः पृथिवी रविं परितः भ्रमति । अस्याः भ्रमणेनैव एकस्मिन् वर्षे वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरश्च इमे षड् ऋतवः भवन्ति । शिशिरस्य पश्चात् फरवरीमार्चमासयोः वसन्तः ऋतुः आगच्छति । अस्मिन् ऋतौ सूर्यस्य रश्मयः मनाक् उष्णाः भवन्ति । एतस्मात् कारणात् अस्मिन् ऋतौ न अतिशीतम् न च अत्युष्णम् भवति । अयमेव हेतुः यत् सर्वेषु ऋतुषु एषः ऋतुः सर्वेषां प्रियतमः वर्तते । अस्य ऋतोः ऋतुराजः मधुमासः कुसुमाकरः इति अनेकानि नामानि सन्ति । अस्मिन् ऋतौ सर्वतः वृक्षेषु नूतनाः पल्लवाः रम्याणि च पुष्पाणि उद्भवन्ति । सकला धरा अभिनवैः परिधानैः इव सज्जिता भवति । आम्रवृक्षोऽअपि नूतनैः पल्लवैः नूतनाभिः च मञ्जरीभिः युक्तः भवति । अस्य शाखासु स्थित्वा कोकिलः पञ्चमेन स्वरेण मधुरं गायति । अस्य मधुरः स्वरः जनानां चित्तं हरति । युवतयः केशेषु पुष्पाणि धारयन्ति । ताः प्रसन्नाः भूत्वा इतस्ततः भ्रमन्ति । मधुकराः अपि पुष्पेषु स्थित्वा पुष्पाणां रसं पिबन्ति गुञ्जन्ति च । अस्मिन् ऋतौ उद्यानानां अतीव रमणीया भवति । विकसितानि चित्रवर्णानि पुष्पाणि परितः जनाः जनानां चित्तम् आह्लादितं कुर्वन्ति । अनेके संगीतकार्यक्रमाः सांस्कृतिककार्यक्रमाः च भवन्ति । जनाः एतेषु कार्यक्रमेषु आगत्य प्रसीदन्ति । माघमासस्य शुक्ले पक्षे पञ्चम्यां तिथौ स्थाने स्थाने वसन्तपञ्चमी-महोत्सवः समायोज्यते । वसन्तपञ्चम्याम् जनाः पीतानि वस्त्राणि धारयन्ति पीतं च ओदनं खादन्ति । बालाः अस्मिन्नेव दिवसे सरस्वतीपूजां कृत्वा विद्याअध्ययनस्य आरम्भं कुर्वन्ति । ग्रामे ग्रामे अनेकेषु स्थानेषु कृषकाः इक्षूणां रसेन गुडस्य शर्करायाश्च निर्माणं च कुर्वन्ति । जनाः इक्षूणां रसम् पीत्वा तृप्तिमनुभवन्ति । क्षेत्रेषु सर्वतः सर्षपस्य पादपाः सकलाम् धरां पीतवर्णाम् कुर्वन्ति । एवम् एषः ऋतुराजः सर्वान् जनान् रञ्जयति सर्वेभ्यश्च अत्यन्तं रोचते ।