त्रयो धूर्ताः कस्मिंश्चिद् नगरे मित्रशर्मा नाम एकः ब्राहमणः अवसत् । सः एकदा एकम् अजं स्कन्धे कृत्वा गृहं प्रत्यगच्छत् । तदा त्रयो धूर्ताः मार्गे तं ब्राहमणम् अपश्यन् अचिन्तयन् च - "एतस्मात् ब्राहमणात् एषः अजः अस्माभिः येन केन उपायेन प्राप्तव्यः ।" अथ तेषु धूर्तेषु एकः धूर्तः वेषपरिवर्तनं कृत्वा तस्य ब्राहमणस्य सम्मुखे आगच्छत् अपृच्छत् च - "भो ब्राहमण ! त्वम् एतं कुक्कुरं किमर्थं वहसि ?" तस्य वचन् श्रुत्वा मित्रशर्मा अवदत् - "एषः कुक्कुरः न अस्ति । एषः तु अजःअस्ति ।" अथ किञ्चिद् दूरं गत्वा तं ब्राहमणं द्वितीयः धूर्तः अमिलत् अभणत् च - "भो ब्राहमण ! त्वं किमर्थम् एतम् अपवित्रं कुक्कुरं स्कन्धे कृत्वा नयसि ?" तदा सः ब्राहमणः क्रुद्धोऽभवत् अकथयत् च - "हे मुर्ख ! किं त्वं अन्धः असि यद् अजं कुक्कुरम् अवगच्छसि ?" अथ किञ्चिद् दूरं गत्वा तृतीयः धूर्तः तं ब्राहमणं अमिलत् तथैव च अवदत् । तस्य तादृशं वचनमाकर्ण्य मित्रशर्मा अजम् ‘अयं कुक्कुर’ इति मत्वा भूमौ अक्षिपत् अगच्छत् च । त्रयो धूर्ताः तम् अनयन् अपचन् अभक्षयन् च ।