स्वतन्त्रता-दिवसः स्वतन्त्रता-दिवसः भारतवर्षस्य राष्ट्रियः उत्सवः अस्ति । अयम् उत्सवः अगस्तमासस्य पञ्चदश्यां तिथौ भवति । पूर्वं भारतदेशः पराधीनः आसीत् । अस्मिन् एव दिवसे १९४७ तमे वर्षे अस्माकं देशः स्वतन्त्रोऽभवत् । अतः एव भारतीयाः प्रतिवर्षम् एतस्मिन्नेव दिवसे इमम् उत्सवं समायोजयन्ति । लोकमान्यः बालगंगाधरतिलकः, महात्मा गान्धी, जवाहरलालः नेहरूः एते अन्ये च अनेके महापुरुषाः भारतदेशस्य स्वतन्त्रतायै महान्तं प्रयत्नम् अकुर्वन् । भारतस्य स्वतन्त्रतायाः कृते भगतसिंहसुखदेवआदयः अनेके देशभक्ताः स्वप्राणान् अत्यजन् । दिल्लीनगरे एतस्य उत्सवस्य शोभा अतीव रमणीया भवति । एतस्मिन् दिवसे प्रातः रक्तदुर्गस्य प्राकारे अस्माकं देशस्य प्रधानमन्त्री ध्वजारोहणं करोति । ध्वजारोहणानन्तरं प्रधानमन्त्री देशं प्रति सन्दिशति । गृहेषु स्थिताः जनाः अपि इमं कार्यक्रमं दूरदर्शने अवलोकयन्ति । रात्रौ विद्युद्दीपकैः सर्वाणि राष्ट्रियभवनानि शोभन्ते । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । एतस्मिन् एव दिवसे वयं प्रतिज्ञां कुर्मः यद् वयं श्रेष्ठाः नागरिकाः भविष्यामः, भारतस्य सर्वाविधविकासाय प्रयत्नशीलाः भविष्यामः अस्य च स्वतन्त्रतां प्राणपणेन रक्षिष्यामः ।