सूर्यो बटुश्च ***************** अरुण एषः प्रकाशः पूर्वस्यां भगवतो मरीचिमालिनः । एषः भगवान् मणिः आकाशमण्डलस्य, चक्रवर्ती खेचरचक्रस्य, कुण्डलम्,आखण्डलदिशः ,दीपको ब्रह्माण्डभागस्य,प्रेयान् पुण्डरीकपटलस्य , शोकविमोकः कोकलोकस्य, अवलम्बो रोलम्बकदम्बस्य , सूत्रधारः सर्वव्यवहारस्य इनश्च दिनश्च । अयमेव अहोरात्रं जनयति, अयमेव वत्सरं द्वादशसु भागेषु विभनक्ति ,अयमेव कारणं षण्णामृतूनाम्, एष एव अङ्गीकरोति उत्तरं दक्षिणं च अयनम् , एनैनेव सम्पादिता युगभेदाः ,एनेनैव कृताः कल्पभेदाः ,एनमेव आश्रित्य भवति परमेष्ठिनः परार्द्धसङ्ख्या, असौ एव चर्कर्ति, बर्भर्ति जहर्ति च जगत् , वेदा एतस्यैव वन्दिनः , गायत्री अमुमेव गायति, ब्रह्मनिष्ठा ब्राह्मणा अमुमेव अहरहः उपतिष्ठन्ते । धन्य एष कुलमूलं श्रीरामचन्द्रस्य । प्रणम्य एष विश्वेषामिति उदेष्यन्तं भास्वन्तं प्रणमन् निजपर्णकुटीरात् निश्चक्राम कश्चित् गुरुसेवनपटुः विप्रबटुः । "अहो ! चिररात्राय सुप्तोऽहम्, स्वप्नजालपरतन्त्रेण एव महान् पुण्यमयः समयः अतिवाहितः , सन्ध्योपासनसमयः अयम् अस्मद्गुरुचरणानाम् तत्सपदि अवचिनोमि कुसुमानि" इति चिन्तयन् कदलीदलमेकम् आकुञ्च्य, तृणशकलैः सन्धाय, पुटकं विधाय पुष्पावचयं कर्तुमारेभे। बटुरसौ आकृत्या सुन्दरः , वर्णेन गौरः , जटाभिः ब्रह्मचारी , वयसा षोडशवर्षदेशीयः, कम्बुकण्ठः, आयतललाटः, सुबाहुः विशाललोचनश्चासीत् ।