स्तुतिमहिमा फाल्गुनमासः-२००५ हेमन्ते प्रथमे मासि रैलयानेन दिवायात्रा नाम महीयान् अनुभव:। मम गत्यन्तराभावेन तमवापम्। मद्रपुरीतः चोलत्वरितयानेन तञ्जापुरं जिगमिषुः यानागारं प्राविशम् । सर्वाः पेटिकाः निस्सम्मर्दाः। कामपि पेटिकां प्रविश्य यथासुखमुपाविशम्। हिन्दूपत्रिकाम् उदघाटयम्। आर्च् बुष्वाल्य़्-नामकस्य लेखः । "वैज्ञानिकपरिबृढानां कर्तव्याभावेन उपचारादि सहितं वेतनं सम्पूर्णं प्रदाय पानशालासु पानकनियोगकर्मणि नियोगः सम्भवति अमेरिकायामिति विडम्बनम् अपठम्। आस्वदयम् चेङ्गल्पट्यानागारं प्राविशद् यानश्रेणी! कोऽपि विशिष्टवेषः उत्तरीयमालः पेटिकाः सर्वा आमृश्य- मम पेटिकामारोहत्। मामेकान्ते उपासीनं दृष्ट्वा मम पुर उपाविशत्। शकटश्रेणी प्रातिष्ठत। हिन्दूमग्नं मां हेषारवेण द्वित्रवारम् उद्बोध्य भग्नोद्यमः "नमो नमः" इति वचसा प्राबोधयत्। अहमपि"नमो नमः " इत्युक्त्वा पत्रिकायाम् अवादधाम्। " को विशेषः पत्रिकायाम्?" "न कोऽपि" " पत्रिकानामतः प्रकाशकनामपर्यन्तं चतुर्विंशतिदलानि पठित्वाऽपि " न कोपि विशेषः इत्यवगतं भवता।" " सर्वे विशेषा एव। सामान्यजनस्य नोपयुक्ताः।" "अस्तु! विस्मृतोऽहं भवता!" " न मे प्रत्यभिज्ञा जायते" " संमुखपरिचयो नासीत्। तथाऽपि भवतः श्रुतपूर्वोऽहम्"। " विस्मृतिः ममावष्टम्भः ! तया दुःस्मृतीः परिहरामि" "तदन्यत्। यदि न विस्मृतं महान् लाभः स्यात् भवतः। जानाति भवान् भानुकोषनायकम् । स किल भूतपूर्वः विद्यामन्त्री।" " स भवतो निकटबन्धुर्वा?" "बान्धव्यादतिनिबिडं सौहृदम्। मयैव मन्त्रिपदे प्रतिष्ठापितः। निर्वाचनाय चोदनावसरे अहमेव तस्य नाम् प्रधानमन्त्रिणे उपामन्त्रयम्।" " प्रधानमन्त्रिणोऽपि भवान् अतिसंनिहितः किम्?" "गाढो मय्यभिमानस्तस्य । किष्कुव्यथया यदाऽहं चिकित्सालये शयितः झटित्युपगत्य मां दृष्ट्वा भिषग्वरमभिमन्त्रय सपदि निवृत्त: ।" "कदा" "नवम्वरद्वितीयसप्ताहे।" "तदा किल प्रान्तमुख्यमन्त्रिणं शुभे वर्त्मनि व्यवस्थापयितुम् आगत इति वार्ता।" " सा खलु लोकश्रवणाय। मुख्यमुद्देश्यं मम समागम एव।" " मुख्यमन्त्रिसंवादादनुपदमेव विमानम् आरोहत् किल?" मध्ये मार्गं मामुपागमत्। वार्ताहराणां नायं विषयः ।" विकत्थनसार्वभौमोऽयं सर्वथा परिहरणीयः इत्यात्मानमवष्टभ्यम्। पुनः पत्रिकाऽऽत्मानम् आवेष्टयम्। "मम कथाऽस्तु। आदरो दर्शितो भवतेति किंचिदुक्तम्। पेटिकान्तरे मम सखा वर्तते । मध्यमन्त्रालये किमपि कार्यमिति मां सततम् अनुरूणद्धि। त्रुटिघटनीयमिदं मम । तथाऽपि भवन्तं दृष्ट्वाऽहमत्राऽऽगतः।" " अपरिचितस्य भवतः कथमियानादरो मयि?" "संमुखपरिचयाभावेऽपि भवन्तम् अभ्यजानां तदा-यदा भवान् मद्रपुरी- संस्कृतपरिषदि संस्कृतसाहितीरधिकृत्य सीमस्वरुपरेखां प्रावोचत् । तन्न विस्मर्यते मया । भवदीयवैदुष्यस्य विस्तरं गाम्भीर्यं च दृष्ट्वा महान् मे विस्मयो जातः । घटदीप इव भवान्न प्रकाशते लोके! लोके बहवो वर्तन्ते सस्याग्रदंशिनः प्रवक्तारः। प्रश्ने कृते ते पलायन्ते।" " अलमलम्। अन्या वार्ता यदि".... "नाहमापातरसिक:। तलस्पर्शी मम पठनोद्यमः। यदि किमपि पठितं न स्वरसम्, तस्मिन्नेव क्षणे तस्मै लेखकाय तिलाञ्जलिं दद्याम्। यदि कश्चन स्वरसं सार्थं सचमत्कारं हृद्यं च लिखति, तर्हि तस्य साहित्यं हिमगिरिशिखरादपि आच्छिद्य पठेयम् । एवं मम हृदयमावर्जयन्ति त्रय एव साहित्यस्रष्टारः । एकः सर्वपल्ली राधाकृष्ण: द्वितीयः आन्टन् चेकाव्, तृतीयस्तत्र भवान्।" तस्य वदने लगत: स्म मम लोचने। "आङ्ग्लभाषायां रीडर्स डैजस्ट् इति खलु वर्ते पत्रिका । तादृश्याः रसिकरसायनम् इति पत्रिकायाः प्रकाशनाय बद्धकक्षो देहलीस्थः बिरला महोदय:। तदर्थं समागतानां लेखानां पर्यालोचनाय कमपि समर्थं सम्पादकम् अन्विष्यन् मां दूरवाचा प्रार्थयामास अद्यैव प्रातः। तदैव वाचि मे भवतो नाम् प्रास्फुरत्। इह भवन्तं प्रवृत्तिः । विश्रान्तिम् अभिरोचये । न तत्र भवतः कोऽपि श्रमः ।भवान् यथास्थानं तिष्ठतु।" आगतान् लेखान् आलोचकः कश्चन परिशोध्य- युक्ततमान दश वा पञ्चदश वा सङ्गृह्णाति। तान् सश्चन भवन्निकटमाहरेत्। तान् परिशील्य भवान् याननुमन्यते -तान् प्रकाशयेयुः । एतदर्थं भवते दशसहस्रं - न वेतनं -संमानं दद्युः प्रतिमासम्।" "चिन्तयामि" " काऽत्र चिन्ता । अङ्गीकरोतु तदा मम प्रभावो बिरलानिकटे प्रवर्धेत । महत्साधितमिति। अस्तु। पश्यामः। "अरेर् चिदम्बरमागतम्। भवतः स्थान्सङ्केतो मम निकटे वर्तते। संस्कृतचन्द्रिकायाः सकाशात्तदैव गृहीतः। अत्र सर्वकलाशालायाम् उपाध्यक्षपदवी विराममुपैति। तस्या अनुवर्तनमपेक्षते प्रकृतः। तदर्थं मयोपक्रान्तम् । सः लभतेऽनुवर्तनम्। निवेदनीयं तत्तस्मै। अतोऽहमवतरामि। अस्ति शतकम्? दीयताम्। इह एव इनसाट् द्वारा बिरलामावेद्य भवतः सम्पादकव्यवस्थां निष्कर्षेयम्। बिरलामहोदयस्य व्यग्रता शमनीया । प्रथमसंमानस्य पूर्वप्रतिपादनेन साकं शतकमिदमपि प्रेषयितुं निवेदये।" क्षणेन कोशात् मम शतकं तस्य हस्तगतम्। अवरुह्य अयं तिरोऽभवत्। शकटश्रेणी शङ्खम् अवादयत्। किमिदं दुःशकुनम्? सा प्रस्थिता। कोल्लिडं सेतौ शकटी धप्थडप इत्यारवम् अकरोत् । ममापि मानसं थडपति स्म। आत्मश्लाघां कुर्वाणं विकत्थनसार्वभौमं परिहरणीयं निश्चितवतो मम कथमयं तस्मिन् झटिति विस्रम्भः? शतकं करतः गलितम् ? कथं तस्य हस्तगतम्?माम् अधिकृत्य तेनोक्तं सत्यमित्यनुसंधानम् आसीत् कथम् ? स्तुतिमहिमा विजयते । ॥ इति शम्॥