शक्ता नारी (आषाढमासः-२००५) नारीशक्तीकरणवर्षपालनेन किं नारी याथार्थ्येन शक्ता जाता? वर्षाभ्यन्तरे किं सहस्रवर्षात्मिका अशक्तता अपगता? किमद्य समाजे नारी कस्यापि सहायतां विना अग्रे गन्तुं क्षमा?" - एवं चिन्तयन्ती रविवासरीयायाः दिनपत्रिकायाः पॄष्ठानि पश्यन्ती आसीत् सुजाता । कस्मिन् पृष्ठे यौतुकाय वधूहत्या, कुत्र पुनः यातनाम् असहमानायाः स्त्रियाः आत्महत्या, पुनः कुत्र च बालिकायाः विषये असामाजिकैः कृतः दुर्व्यवहारः , कुत्र प्रणयिना कृता प्रणयिन्याः वञ्चना इति एकैकम् अपि परिशीलयन्ती आसीत् सा। सुजातायाः श्वश्रूः नारीजागरणसमितेः अध्यक्षा । गत दिने नारीशक्तीकरणवर्षपालनस्य समारोपकार्यक्रमे भागं गृहीतवत्याः तस्याः श्वश्रवाः अभिभाषणमपि तत्र प्रकाशितम् आसीत्। " नारी समाजस्य भित्तिः । तां विना समाजस्य स्थितिः असम्भवा । सा एव जननी , भगिनी ,पुनर्जाया च। अस्माकं पुरुषप्रधाने समाजे नारीणां जागर्या आवश्यकी । न केवलं नारीणाम् अपि तु पुरुषप्रधाने समाजे पुरुषाणां सहयोगः अपि अत्र काम्यते।...." एवमेवं बहुजागरणपूर्णम् अभिभाषणं कृतम् आसीत् अध्यक्षामहाभागया । तत्र एव मुख्यातिथेः सम्मानितातिथेः चापि वक्तव्यम् अपि आसीत् । एतत् सर्वं पठितवत्याः सुजातायाः भावना उद्वेगिता। ’एताभिः यदुक्तं किं तत् सर्वं सत्यम्? अथवा सत्यत्वेन परिणतं भवेत्? साऽपि नारि एव । परन्तु का तस्याः स्थितिः? श्वशुरालयं प्रति आगमनकालादेव सा यन्त्रवत् सर्वाणि कार्याणि करोति । एकैकस्य अपि मनसः अनुसारं कार्यं कर्तुं सा प्रतिमुहुर्त्तं प्रयतते । तथापि नास्ति शान्तिः, नास्ति परितृप्तिः। एषा एव किं सा नारीजागरणसमितेः अध्यक्षा, या प्रतिक्षणं आदेशनिर्देशावल्या सुजातां बहुधा पीडयति ? दातव्यत्वेन अवशिष्टं विवाहकालीनं धनराशिं ( यौतकशब्दस्य प्रयोगः नितरां वर्ज्यः खलु) मातृगृहात् शीघ्रम् आनयतु" इति प्रतिदिनं या तां निर्दिशति, तत् न आनीतं चत् भवत्याः जीवने महती विपत् सम्भविष्यति इति या जागरयति, "मम पुत्रस्य पत्नीत्वं प्राप्तुम् एषा अयोग्या" इति चिन्तयन्ती या विदेशे निवसन्तं पतिं प्रति दूरभाषां कर्तुमपि न सुजातायै अनुमतिं ददाति? "न। बहु प्रतीक्षितं मया । बहु सोढं मया । अद्यैव पत्रं लेखिष्यामि पतिं प्रति। सः यथाशीघ्रम् आगत्य मां नेष्यति" इति अचिन्तयत् सुजाता । परन्तु किञ्चित् चिन्तनानन्तरम् अश्रुणः बिन्दुद्वयं तस्याः गण्डदेशे प्रावहत् । ’मम पतिः तत्र विदशीयां काञ्चित् गृहीत्वा निवसन् यदि स्यात् तर्हि का गतिः भदेत् मम ? " अग्रे चिन्तयितुं सा न समर्था। तस्याः चिन्तायाः सूत्रं छेदयन् श्वश्र्वाः कर्कशः कण्ठस्वरः श्रुतः - " अये! किम् एतत् !! किं लाट्साहेबस्य पत्नीवत् दिनपत्रिकां पठसि ? गृहकर्माणि किं तव पिता माता वा आगत्य करिष्यति?" इति । झटिति एव सुजाता हस्तस्थां दिनपत्रिकाम् उत्पीठिकायाः उपरि संस्थाप्य उक्तवती- " गच्छामि मातः । अद्य भवदीयम् अभिभाषणं तत्र प्रकाशितम् । तदेव पठन्ती आसम्।" परन्तु सहसा मुष्टिप्रहारद्वयं सुजातायाः उपरि पतितम् । प्रहारेण सह गर्जनमपि श्रुतं सुजातया- " किं त्वं नेत्री भविष्यसि? मम अभिभाषणस्य पठनस्य अधिकारः ते नास्ति । अहं नारीजागरणसमितेः अध्यक्षा इति तु जानासि? अभिभाषाणात् किमधिकं ज्ञास्यसि? दासीपुत्रि ! दिनपत्रिकापठनाय यावान् समयः व्ययितः तावता मम वस्त्रद्वयं प्रक्षालितं भवेत्। तावता कालेन मम कन्यायाः कृते अल्पाहारः सज्जीकृतः अभविष्यत्। मुष्टिकाप्रहारस्य वेदना द्विगुणिता जाता भर्त्सन्प्रहारसहितत्वात् । मुखम् अधः कृत्वा पाकशालायां ननान्दुः निर्देशानुसारम् अल्पाहारसज्जीकरणाय सा प्रस्थितवती त्वरया.... केनापि न दृष्टं तस्याः अश्रु ।