सन्देशः युगाब्दः ५७०७ कार्त्तिकमासः अक्टोबर्-२००५ सर्वकारेण संस्कृतस्य संवर्धनं करणीयम् इति आदिदेश उच्चन्यायालयः डा.सौ माधवी दीपक जोशी, चिपल्लूण "महाविद्यालय संस्कृतं प्रमुखविषये त्वेन पठतां छात्राणाम् संख्या प्रतिवर्षं न्युना भवति । एतम् एव अंशं निमित्तीकृत्य महाविद्यालये संस्कृत विभागस्य पिधानं छात्राणां, शिक्षिकाणां, समाजस्य वा हिताय न भवेत्" इति मुम्बयीयस्य उच्चन्यायालयस्य न्यायमुर्तिः डा. धनञ्जय चन्द्रचूडवर्यः सूवीयं निर्णयम् श्रावित-वान् एषु दिनेषु । महाविद्यालय स्नातकक्ष्यायां प्रथमे वर्षे संस्कृतं मुख्यविषये त्वेन पठन्तः पञ्चदश छात्राः भवेयुः । यदि छात्राणां सङ्खया ततोऽपि न्युनाः भवति तर्हि संस्कृत प्राध्यापकस्य वेतनस्य कृते कृते महाविद्यालयः सर्वकारीयं अनुदानं न प्राप्नोति । अतः तादृशे प्रसङ्गे महाविद्यालयः सर्वकारीयंस्य अनुदानस्य अभावात्,वेतनं दातुं महाविद्यालयस्य अनिच्छातः च संस्कृत अध्यापकः पदात् च्युतः भवति । ग्राम परीसरे तु पञ्चषाः एव संस्कृतानुरागिणः संस्कृते पठितुम् इच्छन्ति । सर्वकार्स्य नियमात् महाविद्यालयास्य असहकारात् च तादृशे स्थले संस्कृतशिक्षिणाय व्यवस्था न भवति । प्रायः एषा एव स्थितिः जागर्ति समग्रे देशे । मुम्बापुर्याः विल्सन् महाविद्यालये अपि एषा एव स्थिति कदाचित् उपस्थिता । वैशाली दाबके, तस्मिन् महाविद्यालये १९९६ तमे वर्षे व्याख्यात्री रुपेण नियुक्ता जाता । किन्तु अग्रे छात्रसङ्खयायाः न्यूनतां निमित्तीकृत्य तस्याः स्थिरनियुक्तिः निराकृता महाविद्यालयेन । महाविद्यायीयेन न्यायाधिकरेन छात्रसङ्खया न्युनतां मनसि कुर्वता महाविद्यालयीयः पक्षः एव समर्थितः । ततः विषयोऽयम् उच्च न्यायालयं प्रति नीतः । "एतादृश्यां स्थितौ सर्वकारः एव संस्कृत विषये उदारवादी भवेत्" इति मुम्बयीरेन उच्चन्यायालयेन स्वाभिप्रायः प्रकटितः । 'धनं सर्वकारसमिपे नास्ति । सर्वेषां विषयाणां साहाय्यं सर्वकारः कर्तुं न शक्नोति । जनाः यस्य विषयस्य अनुधावनं कुर्वन्ति तस्मै विषयाय एव अनुदानं दीयते' इति एतं सर्वकारस्य युक्तिवादं खण्डयता खण्डपीठेन उक्तम् - "उत्तमाना वैद्यानाम् अभियन्तॄणां च निर्माणम् आवश्यकम् एव । किन्तु तेषाम् एव निर्मणं सर्वकारस्य लक्ष्यं न स्यात् । आधुनिकतास्पर्धायां भागवहनं चिन्तयता सर्वकारेण भारतस्य प्राचीनायाः परम्परायाः संरक्षणाय सर्वकारेण एव प्रयत्न करणीयः । सर्वः अत्याधुनिकः अपि देशः स्वस्य इतिहासस्य रक्षणं करोति । प्राचीनां परम्परां संस्कृतिं च कोऽपि न परित्यजति । संस्कृतं भारतीयसंस्कृतेः अविभाज्यम् अङ्गम् अस्ति । अतः तस्य रक्षणस्य विषये उपेक्षा सर्वथा न शोभते" इति । "संस्कृतशिक्षणार्थं सपपिर्तजीवनाः ध्येयवादिनः प्राद्यापकाः विरलाः तेषां विषये सर्वकारस्य उपेक्षा न स्यात् । तेषां वेतनार्थम् अनुदान दानस्य व्यवस्थायाः स्थगनं यथा न स्यात् तथा सर्वाकारेण सामञ्जस्य प्रवृत्तिः दर्शनीया" इति तेन खण्डपीठेन सर्वकारः बोधितः अस्ति ।