त्रयोविंशः पाठः वसन्तः ऋतुः पृथिवी रविम् परितः भ्रमति । अस्याः भ्रमणेनेव एकस्मिन् वर्षे वसन्तः, ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः च षड् ऋतवः भवन्ति । शिशिरस्य पश्चात् फरवरी-मार्च-मासयोः वसन्तः ऋतुः आगच्छति । अस्मिन् ऋतौ सूर्यस्य रश्मयः मनाक् उष्णाः भवन्ति । एतस्मात् कारणात् अस्मिन् ऋतौ न अति-शीतम् नच अति-उष्णम् भवति । अयम् एव हेतुः यत् सर्वेषु ऋतुषु एषः ऋतुः सर्वेषाम् प्रियतमः वर्तते । अस्य ऋतोः ऋतुराजः मधुमासः कुसुमाकरः इति अनेकानि नामानि सन्ति । अस्मिन् ऋतौ सर्वतः वृक्षेषु नूतनाः पल्लवाः रम्याणि च पुष्पाणि उद्भवन्ति । सकला धरा अभिनवैः परिधानैः इव सज्जिता भवति । आम्र-वृक्षः अपि नूतनैः पल्लवैः नूतनाभिः च मञ्जरीभिः युक्तः भवति । अस्य शाखासु स्थित्वा कोकिलः पञ्चमेन स्वरेण मधुरम् गायति । अस्य मधुरः स्वरः जनानाम् चित्तम् हरति । युवतयः केशेषु पुष्पाणि धारयन्ति । ताः प्रसन्नाः भूत्वा भ्रमन्ति । मधुकराः अपि पुष्पेषु स्थित्वा पुष्पाणाम् रसम् पिबन्ति गुञ्जन्ति च । अस्मिन् ऋतौ उद्यानानाम् अतीव रमणीया भवति । विकसितानि चित्र-वर्णानि पुष्पाणि परितः जनाः जनानाम् चित्तम् आह्लादितम् कुर्वन्ति । अनेके सङ्गीत-कार्यक्रमाः सांस्कृतिक-कार्यक्रमाः च भवन्ति । जनाः एतेषु कार्यक्रमेषु आगत्य प्रसीदन्ति । माघ-मासस्य शुक्ले पक्षे पञ्चम्याम् तिथौ स्थाने स्थाने वास्न्त-पञ्चमी-महोत्सवः समायोज्यते । वसन्त-पञच्म्याम् जनाः पीतानि वस्त्राणि धारयन्ति पीतम् ओदनम् च खादयन्ति । बालाः अस्मिन् एव दिवसे सरस्वती-पूजाम् कृत्वा विद्या-अध्ययनस्य आरम्भम् कुर्वन्ति । ग्रामे ग्रामे अनेकेषु स्थानेषु कृषकाः इक्षूणाम् रसेन गुडम् शार्कराम् च उत्पादयन्ति । जनाः इक्षूणाम् रसम् पीत्वा तृप्तिम् अनुभवन्ति । क्षेत्रेषु सर्वात्ः सर्षपस्य पादपाः सकलाम् धराम् पीतवर्णाम् कुर्वन्ति । एवम् एषः ऋतुराजः सर्वान् जनान् रञ्जयति सर्वेभ्यः च अत्यन्तम् रोचते ।