एकविंशः पाठः मूर्खः शृगालः कस्मिन्-चित् वने चण्डरवः नाम शृगालः वसति स्म । एकदा सः क्षुधाआ-पीडितः इतस्ततः विचरन् नगर-अन्तरे प्राविशत् । तत्र सः एकस्मिन् महापात्रे अपतत् । तत् पात्रम् नीलीरस-पूर्णम् आसीत् । यावत् सः तस्मात् पात्रात् बहिः आगच्छत् तावत् पूर्ण-रूपेण नीलवर्णः अभवत् । तस्याम् एव अवस्थायाम् सः चण्डरवः वनम् अव्रजत् । तत्र तथा-विधम् तम् चण्डरवम् अवलोक्य सर्वे सिंह-व्याघ्र-गज-वाआनर-प्रभृतयः पशवः भयभीताः पलायितुम् च तत्पराः अभवन् । तेषाम् भयाकुलानाम् पशूनाम् समीपे गत्वा चण्डरवः अभणत्- “यूयम् माम् दृष्ट्वा मा त्रस्यत । अहम् वनदेवतया एतस्य वनस्य नृपति-रूपेण नियुक्तः अस्मि । सा माम् आदिशत् यत् एतस्मिन् वने पशूनाम् कः अपि नृपः न अस्ति । तत्र गत्वा त्वम् तान् पशून् परि-पालय । अत एव अहम् अत्र आगतः अस्मि ।” एतत् श्रुत्वा सर्वे पशवः तम् चण्डरवम् प्रणम्य अकथयन्- “य आज्ञापयति देवः ।” तत् अनन्तरम् तेन शृगालेन सिंह-व्याघ्र-गज-आदयः अमात्य-आदि-रूपेण विविध-कार्येषु नियुक्ताः । परम् अन्यैः आत्मीयैः शृगालैः सह सः आलाप-मात्रम् अपि न अकरोत् । सर्वे च ते शृगालाः तेन दूरी-कृताः । किम्-चित् काल-अनन्तरम् एकदा सन्ध्या-समये चंडरवः शृगाल-समूहस्य कोलाहलम् आकर्णयत् । तम् शृगाल-रवम् श्रुत्वा सः अपि तथा एव शब्दम् अकरोत् । तस्य शृगाल-सदृशम् ध्वनिम् श्रुत्वा सिंह-आदयः अपि ‘शृगालः अयम्’ इति ज्ञात्वा तम् खण्डशः अकुर्वन् । उक्तम् च- आत्म-पक्षम् परित्यज्य पर-पक्षेषु यः रतः । अस्ः परैः हन्यते मूढः नील-वर्ण-शृगाल-वत् ॥