विंशः पाठः गङ्गा गङ्गा पर्वत-राज-हिमालयात् प्रभवति । एषा सर्वासु नदीषु श्रेष्ठा पवित्रतमा च अस्स्स्ति । गङ्गायाः उद्भव-विषये एका कथा अस्ति । भगीरथः नाम नृपः पूर्वजानाम् उद्धाराय तपस्याम् अकरोत् तपस्यायाः च प्रभावेण सः गङ्गाम् स्वर्गात् धरायाम् अवतारयितुम् समर्थः अभवत् । अतः एव इमाम् जनाः भागीराअथी इति अपि कथयन्ति । ते अस्याः जलम् अत्यधिकम् पावनम् मन्तन्ते । बहवः श्रद्धालु-जनाः प्रतिदिनम् अस्याम् स्नानम् कुर्वन्ति इमाम् च पूजयन्ति । अस्याः तटे हरिद्वार-ऋषिकेष-प्रयाग-वाराणसी-इत्यादीनि अनेकानि तीर्थ-स्थानानि सन्ति ॥ प्रति-वर्षम् पुण्येषु पर्वसु लक्षाणि जनाः एषु तीर्थ-स्थानेषु आगत्य अस्याः पावन-जलेन स्नानम् कृत्वा दुरितानि दूरी-कुर्वन्ति । यन्त्रकाराः अस्याः जलम् अवरुद्ध्य सेतुम् बद्ध्वा महा-जलाषयेषु जल-सञ्चयम् कुर्वन्ति । एवम् प्रकारेण सञ्चितम् जलम् क्षेत्राणाम् सिञ्चनाय उपयुज्यते । अनेन भूमिः उर्वरा भवत्ति प्रभूतम् च अन्नम् उत्पादयति । एवम् गङ्गायाः जलम् कृषेः महान्तम् उपकारम् करोति । अस्याः जलेन विद्युत् अपि उत्पन्ना भवति । इयम् दूरदर्शन-ध्वनिविस्तारक-शीतक-इत्यादीनि यन्त्राणि सञ्चालयति विविधानाम् च पण्यानाम् वस्तूनाम् निर्माणे सहायिका भवति । एवम् गङ्गा लोकम् परलोकम् च उभयम् अपि उपकरोति ।