नवदशः पाठः दीपावली दीपावली भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । अयम् उत्सवः कार्तिक-मासास्य अमावस्यायाम् भवति । इदम् कथ्यते यत् रावणम् हत्वा रामः अस्मिन् एव दिवसे सीतया लक्ष्मणेन च सह अयोध्याम् प्रति आगच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानाम् मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्व-मित्रेभ्यः बन्धुभ्यः च मिष्टान्नम् प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानाम् मिष्टान्नानाम् स्फोटक-पदार्थानाम् च क्रयणम् कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । सायंकाले सर्वे जनाः दीपाना मालाः प्रज्ज्वालयन्ति । दीपानाम् प्रकाशः अन्धकारम् अपनयति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानाम् च शोभाम् द्रष्टुम् गच्छन्ति । रात्रौ जनाः लक्ष्मीम् पूजयन्ति मिष्टान्नानि च भक्षयन्ति । भारतीयाः इमम् उत्सवम् प्रतिवर्षम् सोल्लासम् समायोजयन्ति ।