सप्तदशः पाठः हिमालयः भारत्यवर्षस्य उत्तरदिशायाम् हिमालयः नाम पर्वतः अस्ति । अस्य पर्वतस्यशिखराणि अति उन्नतानि सन्ति । एतानि शिखराणि सदा एव हिमेन आच्छादितानि सन्ति । अतः एव अस्य पर्वतस्य नाम हिमस्य आलयः हिमालत्यः इति प्रसिद्द्धः अस्ति । हिमालयात् गङ्गा-यमुना-शतद्रु-विपाशा-इराअवती-वितस्ता-प्रभृतयः अनेकाः नद्यः प्रादुर्भवन्ति । एतासाम् नदीनाम् जलम् भाअरतवर्षस्य विशालम् भूभागम् सिञ्चति । अतः एव अस्मिन् देशे र्पभूतान्नि विविधानि अन्नानि फलानि च उद्भवन्ति । अस्मिन् पर्वते विविधाः ओषधयः वृक्षाः धातवः विविधानि च रत्नानि उपलभ्यन्ते । ग्रीष्म-काले तापेन व्याकुलाः जनाः हिमालयस्य पर्वतीय-स्थलेषु गच्छन्ति सुखम् च अनुभवन्ति । अस्मिन् एव पर्वते मानसरोवर-अमरनाथ-बद्रीनाथ-केदारनाथ-हरिद्वारप्रभृतीनि अनेकानि दर्शनीयानि तीर्थानानि अनेके च देवालयाः सन्ति । एतस्मिन् पर्वते स्थितासु अनेकासु गुहासु साधकाः तपश्चरन्ति । अत्र देवीनाम् मन्दिराणि अपि सन्ति । एतस्मात् कारणात् अयम् पर्वतः देव-भूमिः अपि कथ्यते । हिमेन आच्छदितानि अस्स्य उन्नतानि शिखराणि अतिशैत्यात् शत्रुभ्यः च अस्मान् रक्षन्ति । अयं पर्वतः सुराक्षा-दृष्ट्या अतीव महत्त्वपूर्णः अस्ति । अनेन एव कारणेन अस्माअकम् सुरक्षा-सैनिकाः अस्स्य रक्षायई तत्पराः भवन्ति ।