षोडषः पाठः मत्स्य-त्रय-कथा कस्मिन्-चित् जलाशये अनागतविधाता, प्रत्युपन्नमतिः यद्भविष्यश्चेति त्रयः मत्स्याः अवसन् । कदा-चित् तम् जलाशयम् अवलोक्य धीवराः परस्परम् अवदन्- “अस्मिन् जलाशये बहवः मत्स्याः अस्न्ति । प्रभाते अस्माभिः अत्र अवश्यम् एव आगन्तव्यम् ।” एतादृशम् निश्चयम् कृत्वा ते अगच्छन् । तदनन्तरम् तेषाम् वचनम् श्रुत्वा तेषु मत्स्येषु अनागतविधाता नाम मत्स्यः अकथयत्- “श्वः प्रभात-समये ते धीवराः अत्र आगमिष्यन्ति सर्वान् च मत्स्यान् जाले बद्ध्वा नेश्यन्ति । अतः अहम् अन्यत्र गमिष्यामि ।” एतत् आकर्ण्य प्रत्युत्पन्नमतिः नाम मत्स्यः अवदत्- “त्वया सम्यक् आलोचितम् । अहम् अपि त्वया सह गमिष्यामि ” तस्य वचनम् श्रुत्वा यद्भविष्यः नाम मत्स्यः उच्चैः विहस्य अकथयत्-“ अन् सम्यक् एतत् यतः तेषाम् धीवराणाम् कथन-मात्रेण एतस्मात् जलाशयात् अन्यत्र गन्तुम् इच्छतः । अहम् तु अत्र एव स्थास्यामि ।” अथ यद्भविष्यस्य निश्चयम् ज्ञात्वा अनागत्यविधाता प्रत्युपन्नमतिः च अन्यत्र अगच्छताम् । प्रभाते धीवराः तत्र आगच्छन् यद्भविष्यम् अन्यान् च सर्वान् मत्स्यान् जाले बद्ध्वा अनयन् । तथा च उक्तम्- अनागतविधाता च प्रतुत्पन्नमतिः तथा । द्वौ एतौ सुखम् एधेते यद्भविष्यः विनष्यति ॥