पञ्चदशः पाठः स्वतन्त्रता-दिवसः स्वतन्त्रता-दिवसः भारतवर्षस्य राष्ट्रियः उत्सवः अस्ति । अयम् उत्सवः अगस्त-मासस्य पञ्चदश्याम् तिथौ भवति । पूर्वम् भारत-देशः पराधीनः आसीत् । अस्मिन् एव दिवसे १९४७ तमे वर्षे अस्माकम् देशः स्वतन्त्रः अभवत् । अतः एव भारतीयाः प्रति-वर्षम् एतस्मिन् एच्व दिवसे इमम् उत्सवम् समायोजयन्ति । लोकमान्यः बालगङाधरतिलकः, महात्म गान्धी, जवाहरलालः नेहरूःएते अन्ये च अनेके महापुरुषाः भारतदेशस्य स्वतन्त्रतायै महान्तम् प्रयत्नम् अकुर्वन् । भारतस्य स्वतन्त्रतायाः कृते भगतसिंह-सुखदेव-आदयः अनेके देश-भक्ताः स्व-प्राणान् अत्यजन् । दिल्ली-नगरे एतस्य उत्सवस्य शोभा अतीव रमणीया भवति । एतस्मिन् दिवसे प्रातः रक्त-दुर्गस्य प्राकारे देशस्य प्रधानमन्त्री ध्वज-आरोहणम् करोति । ध्वज-आरोहण-अनन्तरम् प्रधानमन्त्री देशम् प्रति सन्दिशति । गृहेषु स्थिताः जनाः अपि इमम् कार्यक्रमम् दूरदर्शने अवलोकयन्ति । रात्रौ विद्युद्दीपकैः सर्वाणि राष्ट्रिय-भवनानि शोभन्ते । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । एतस्मिन् एव दिवसे वयम् प्रतिज्ञाम् कुर्मः यत् वयम् श्रेष्ठाः नागरिकाः भविष्यामः, भारतस्य सर्व-विध-विकासाय प्रयत्नशीलाः भविष्यामः अस्य च स्वतन्त्रताम् प्राणपणेन रक्षिष्यामः ।