एकादशः पाठः त्रयो धूर्ताः कस्मिंश्चिद् नगरे मित्रशर्मा नाम एकः ब्राह्मणः अवसत् । सः एकदा एकम् अजं स्कन्धे कृत्वा गृहं प्रति अगच्छत् । तदा त्रयो धूर्ताः मार्गे तं ब्राह्मणम् अपश्यनचिन्तयन् च- “एतस्मात् ब्राह्मणात् एषः अजः अस्माभिः येन केन उपायेन प्राप्तव्यः ।” अथ तेषु धूर्तेषु एकः धूर्तः वेषपरिवर्तनं कृत्वा तस्य ब्राह्मणस्य सम्मुखे आगच्छत् अपृच्छत् अच्- “भो ब्राह्मण ! त्वं एतें कुक्कुरं किमर्थं वहसि ?” तस्य वचनं श्रित्वा मित्रशर्मा अवदत्- “एषः कुक्कुरः न अस्ति । एषः तु अजः अस्ति ।” अथ किञ्चिद् दूरं गत्वा तं ब्राह्मणं द्वितीयः धूर्तः अमिलत् अभणत् च- “भो ब्राह्मण ! त्वं किमर्थं एतं अपवित्रं कुक्कुरं स्कन्धे कृत्वा नयसि ?” तदा सः ब्राह्मणः कृद्धोऽभवत् अकथयत् च- “हे मूर्ख ! किं त्वं अन्धः असि यद् अजं कुक्कुरम् अवगच्छसि ?” अथ किञ्चिद् दूरं गत्वा तृतीयः धूर्तः तं ब्राह्मणम् अमिलत् तथैव च अवदत् । तस्य तादृशं वचनमाकर्ण्य मित्रशर्मा अजम् ‘अयं कुक्कुरः’ इति मत्वा भूमौ अक्षिपत् अगच्छत् च त्रयो धूर्ताः तम् अजम् अनयन् अपचन् अभक्षयन् च ।