सङ्घे शक्तिः महिलारोप्यनाम्नि नगरे एकः विशालः वटवृक्षः आसीत् । एकदा तत्र एकः व्याधः आगच्छत् । सः वटवृक्षस्य अधः एकं जालं प्रासारयत् । तस्य जालस्योपरि ताण्डुलान् प्रक्षिप्य वृक्षात् किञ्चिद् दूरं गत्वा तूष्णीमुपाविशत् । तस्मिन्नेव काले चित्रग्रीवो नामः कपोतराजः स्वपरिवारेण सह तत्रागच्छत् । तस्य परिवारे सहस्रं कपोताः आसन् । सर्वे कपोताः प्रक्षिप्तान् तण्डुलान् भक्षियितुं नीचैः आगच्छन् जाले च बद्धाः अभवन् । बद्धकपोतान् दृष्ट्वा सः व्याधः अतीव प्रसन्नोऽभवत् जालस्य च समीपमागच्छत् । आयान्तं तं व्याधं दृष्ट्वा चित्रग्रीवः कपोतान् आदिशत् - "यूयम् सर्वे जालमादाय आकाशे उत्पतत् । "सर्वे कपोताः जालं नीत्वा आकाशे उदपतन् । भूमिस्थोऽपि सः व्याधः जालं नीत्वा गच्छतां तेषां कपोतानां पृष्ठतः अधावत् । उत्पतन्तः कपोताः शीघ्रम् अतिदूरमगच्छन् । परं व्याधः तेषामनुसरणे असमर्थोऽभवत् नैराश्याच्च न्यवर्तत् । तदा चित्रग्रीवेण कपोतान् प्रत्युक्तम् -"हिरण्यको नामः एकः मूषकः मम मित्रमस्ति । सः इदं जालं कर्तिष्यति ।" एतत् श्रुत्वा सर्वे जालबद्धाः कपोताः हिरण्यकस्य सकाश्मागच्छन् । हिरण्यकः तं जालमकृन्तत् । एवं सर्वे कपोताः मुक्ताः अभवन् । एतादृशी शक्तिः सङ्घे एव वर्तते ।