समाचारपत्रस्य आत्मकथा अहमेकं दैनिकं समाचारपत्रमस्मि । मयि देशस्य विदेशानां च घटनाः सचित्रं लिखिताः सन्ति । संसारे प्रतिदिनं नवीनाः घटनाः घटन्ते । अतः प्रतिदिनं नवीनेन रूपेणाहम् आगच्छामि । पृथिव्याम् असंख्यासु भाषासु मम प्रकाशनमस्ति । सञ्चारमाध्यमेषु मम प्रमुखं स्थानम् । अहं प्रतिदिनं प्रातः बहुषु गृहेषु गच्छामि । नगरं भवतु अथवा ग्रामः, मम सर्वत्र आदरोऽस्ति । सर्वे मयि लिखितान् विषयान् पठन्ति, मम चित्राण्यपि पश्यन्ति । मम हृदये जाति धर्मादीनां भेदविचारः नास्ति । मयि तात्कालिकाः समाचाराः भवन्त्येव । बालानां कृते मनोरमाः बालकथाः चित्राणि चात्र भवन्ति । क्रीडा, विज्ञानं, चलचित्रं, राजनीति इत्यादयः अत्र सर्वं सम्भवति । सुखं भवतु अथवा दुःखम्, कस्यचित् नेतुः सम्मानः भवति अथवा मृत्युः, रमणीयः उत्सवः अथवा भीषणः भूकम्पः, सर्वेष्वेव विषयेषु अहं समानरूपेण व्यवहरामि । मित्राणि ! अहं भवतामेकं मित्रमस्मि । इदानीं भवन्तः एव विचारयेयुः - "मादृशस्य मित्रस्य कथम् उपयोगः भवेत् ? कथम् अशिक्षिताः ग्रामीणाः जना अपि मम माध्यमेन जागरूकाः भवेयुः ? कथं मयि प्रकाशितं विज्ञानं, साहित्यं क्रीडादिकं च संसारस्य हिताय आगच्छेत् ?" सजग-पाठकानाम् एतैः विचारैः एव मम देशसेवायाः मार्गः प्रशस्तः भविष्यति । देशसेवा एव अस्माकं सर्वस्वम् ।