चत्वारि प्रेरणास्रोतांसि ************************* डा. अमर्त्यसेनमहोदयः एकः प्रतिभावान् अर्थशास्त्री वर्तते। एषः षष्ठो भारतीयः अस्ति यः १९९८तमस्य वर्षस्य नोबलपुरस्कारेण सम्मानितोऽभवत्। अस्मात्पूर्वे ये पञ्च भारतीया नोबलपुरस्कारेणसम्मानिता अभवन् तेषां नामानि इमानि सन्ति -रवीन्द्रनाथटैगोरः, सी. वी. रमणः, हरगोविन्दखुराना,मदर-टेरेसा एस चन्द्रशेखरश्च । यदा १९३३ तमस्य वर्षस्य नवम्बरमासे शान्तिनिकेतने डा. अमर्त्यसेनस्य जन्म अभवत् तदा गुरुदेवेन श्रीरवीन्द्रनाथटैगोर-महोदयेन अस्य ’अमर्त्य’इति नामकरणं कृतम् । १९४३ तमे वर्षे बंगालप्रदेशे यद् दुर्भिक्षमापद्यत तेन स अत्यन्तं प्रभावितोऽभवत्। एषः प्रभावः अस्य अनेकासु कृतिषु स्पष्टं दृश्यते । कलकत्तानगरस्थिते प्रैसीडेन्सी-महविद्यालये सः अर्थशास्त्रे स्नातकपरीक्षामुदरत् तदनन्तरं विदेशं गत्वा लन्दननगरस्थे ट्रिनिटीनामके महाविद्यालये अनेन अर्थशास्त्रे एव १९५५ तमे वर्षे स्नात्तकोत्तरपरीक्षा उत्तीर्णा । १९५६ तमे वर्षे जादवपुरविश्वविद्यालयेऽध्यापनं प्रारभत । वर्षद्वयानन्तरं १९५८ तमवर्षतः ‘१९६३ तमवर्षपर्यन्तम् ट्रिनटीनामके स्वमहाविद्यालये आचार्यपदमलमकरोत् । अष्टवर्षाणि (१९६३-७१) यावत् सः दिल्लीविश्वविद्यालयस्य देहली-स्कूल आफ- एकोनामिक्स-नामके महाविद्यालये अध्यापयत् । हार्वर्डनाम्नि विश्वविद्यालये अर्थशास्त्रे दर्शने च संयुक्तरूपेण आचार्यपदे नियुक्तः आसीत् । ट्रिनटीनामके महाविद्यालये ’मास्टर’इति पदमलंकुर्वाण एव सः अर्थशास्त्रम् अधिकृत्य नोबलपुरस्कारेण सम्मानितोऽभवत् । भारतरत्नेन डा. अमर्त्यसेनमहोदयेन अर्थशास्त्रे अनेकानि पुस्तकानि रचितानि । ’दारिद्रयं दुर्भिक्षाणि च ’ इत्यनेन शीर्षकेण या रचना अनेन कृता सा महत्वपूर्णा वर्तते । एतस्यां रचनायां दुभिक्षस्य कारणानि स्वरूपं च दरिद्रतायाः लक्षणं स्वरूपं च इत्येते विषयाः कौशलेन विवेचिताः । एतद् योगदानं समीक्ष्य स्वीडनदेशस्थया राजकीयविज्ञान-परिषदा नोबल -पुरस्कारस्य कृते अस्य चयनं कृतम् श्रीसुन्दरलालबहुगुणः महान् पर्यावरणविद् अस्ति । ग्रामं ग्रामं गत्वा एष हिमालयप्रदेशवासिभ्यः पर्यावरणस्य महत्त्वम् उपादिशत् । १९७३ तमे वर्षे अप्रैलमासस्य द्वाविंशतितम्यां तारिकायां हिमलयप्रदेशस्य चमोलीजनपदे गोपेश्वरनाम्नि ग्रामे यदा नार्यः ’वृक्षान् आश्लिष्य मरिष्यामः’ इत्येताम् उद्घोषणामकुर्वन् तदा वृक्षाणां छेदकाः वृक्षच्छेदनाद् व्यरमन् । ततः ’चिपको’-नामकमान्दोलनं पावर्तत । एष जनान् उदबोध्यत् यद् वृक्षा व्यवसायस्य कृते न सन्ति अपितु ते मृत्तिकायाः रक्षणार्थं, जलस्य अवरोधार्थम् आक्सीजन-नामकस्य च वायोः संरक्षणार्थं विद्यन्ते । भागीरथीनद्याः जलम् अवरोद्धुं भारतसर्वकारेण गढवालप्रदेशे यः टिहरीनामको जलसेतुः निर्मीयते सः सर्वथा हानिकर इति कृत्वा एष आमरण- अनशनमपि अकरोत् । यदा सर्वकारः एतस्य जलसेतोः निर्माणकार्यं पुनः विचारयितुं स्वीकृतवान् तदा एष अनशनं स्थगितवान् । राजनेतॄणाम् अदूरदर्शितायाः हेतोः अस्य आग्रहः सफलीभविष्यति न वेति कथयितुं न शक्यते । परमस्य आग्रहः लोकानां कल्याणाय पर्यावणस्य च रक्षणाय वर्तते इति सर्वैरेव स्वीक्रियते । सामान्यं जीवनं यापयन् श्रीसुन्दरलालबहुगुणः सर्वेभ्यो भारतवासिभ्यः त्रीणि वचनानि उपदेष्टुम् इच्छति । (१) जीवने संयमस्य अत्यधिकं महत्त्वं वर्तते । अस्माभिः स्वकीयाः आवश्यकताः न्यूनीकर्त्तव्याः । (२) वयं येषां वस्तूनाम् उपयोगं कुर्मः तेषां विकल्पान् अन्वेष्टुं तत्परा भवेम । उदाहरणतया विद्युतः स्थाने अस्माभिः सौर-ऊर्जाया उपयोगः कर्त्तव्यः । (३) अस्माभिः वृक्षाणाम् आरोपणं कर्त्तव्यम् । भारतरत्नं डा. ए. पी. जे. अब्दुलकलाम-महोदयः विश्वप्रसिद्धो वैज्ञानिकोऽस्ति । अयं रामेश्वरनाम्नि नगरेसामन्ये मुस्लिमपरिवारे अजायत । परमस्य प्रेरणास्रोतः एको हिन्दू अध्यापकः आसीत् । प्रारम्भिके शिक्षाकाले स्वाध्यापकेन श्रीमता चिदंबरसुब्रह्मण्यम्- महोदयेन विज्ञानविषयं गाम्भीर्येण अध्येतुं प्रेरितोऽभवत् । यदा मद्रास इन्स्टीट्यूटनाम्नि महाविद्यालये प्रवेशार्थम् अस्य चयनम् अभवत् तदा भगिन्याः आर्थिक-साहाय्येन एव स प्रवेशं लब्धुं समर्थोऽभवत् । स्वप्रतिभया परिश्रमेण च एष विज्ञानस्य क्षेत्रे शीघ्रमेव लब्धप्रतिष्ठोऽभवत् । यदा १९७८ तमे वर्षे ’एस.एल. वी.३’ नामकम् उड्डयनपरीक्षणं विफलमभवत् तदा डा. कलाममहोदयः तस्य वैफल्यस्य हेतुमात्मानम् अमन्यत् । १९९८ तमे वर्षे मईमासस्य एकादश्यां त्रयोदश्यां च तारीकयोः पोखरनाम्नि स्थाने ये पञ्च परमाणुविस्फोटाः कृता तेषु डा. कलाममहोदयस्य महत्त्वपूर्णा भूमिका आसीत् । वीणावादनं प्राचीनं च संस्कृतवाङ्गमयम् अस्मै अत्यधिकं रोचेते । स्वनिर्मितेभ्यः प्रक्षेपास्त्रेभ्यः अनेन यानि अग्नि -त्रिशूल-पृथ्वीत्यादीनि नामानि दत्तानि तेभ्यः अस्य जीवने संस्कृत वाङ्गमयस्य प्रभावः स्पष्टमेव लक्ष्यते । यज्ञस्वामिना सुन्दरराजन्- महोदयेन सह अनेन ’भारत-२०२० ’ नामकं पुस्तकं लिखितं यस्मिन् आगमिन्यां सहस्त्राब्द्यं भारतवर्षस्य उज्जवलभविष्यस्य वर्णनं कृतम् । शीमतीकिरनवेदीमहोदया पंजाबविश्वविद्यालयस्य राजनीतिशास्त्रस्य स्नातकोत्तरपरीक्षायां प्रथमं स्थानमलभत् । एतदनन्तरम् अमृतसनगरे खालसानाम्नि महिलामहाविद्यालये वर्षद्वयम् अध्यापयत् । एषा प्रथम महिला या १९७२ तमे वर्षे भारतीय -पुलिस-सेवायां नियुक्ता । पुलिस विभागे श्रीमती किरनबेदी -महोदया धैर्येण, शौर्येण,कौशलेन च स्वकर्तव्यं निरवहत् । अस्याः कर्त्तव्यपरायणतामधिकृत्य राष्ट्रियेण पुरस्कारेण पुरस्कृतं ’कर्त्तव्यम्’ इतिएकं चलचित्रमपि तेलगुभाषायां निर्मितम् ।१९८२तमे वर्षे यदा श्रीमतीबेनीमहोदय यातायात-पुलिस-विभागे आसीत् तदा सा एशिया-क्रीडा-प्रतियोगितावसरे यातायातस्य प्रबन्धं कौशलेन अकरोत् । एतदर्थं सा अभिनन्दिता । मादकद्रव्याणां व्यसनं दूरीकर्तुं सा ’नवज्योति’ नाम्नीं संसथामपि प्रावर्तयत् । एतया संस्थया व्यसनतां गता अनेके जनः लाभान्विताः अभवन् । १९९३ तमे वर्षे यदा सा तिहाड़-नाम्नि-कारागारे महाधीक्षकपदे नियुक्ता तदा तया कारागारवासिनां कृते कतिपये रचनात्मकाः कार्यक्रमाः प्रवर्तिताः । विशेषतः श्रीगोयन्का-महोदयस्य निर्देशने ‘विपश्यना’ नाम्नी ध्यानपद्धतिः प्रारब्धा । १९९४तमे वर्षे अप्रैलमासस्य चतुर्थ्यां तारिकायां सहस्रं तिहाड़कारागारवासिनः विपश्नायां दीक्षिताः अभवन् । इत्थं कर्तव्यबुद्ध्या तिहाड़कारागारे तया यत्कृतं तस्य हेतोः यत्सा १९९४ तमे वर्षे सर्वकारसेवयाः कृते ’रैमन मैग्सेसे’-नामकेन अलंकरेण सम्मानित अभवत् ।