पेंग्विननामा जलपक्षी ************************* पॆंग्विननामा जलपक्षी एको विचित्रः पक्षी वर्तते यः केवलं भूगोलस्य दक्षिणे अर्धगोले वसति । अस्य द्वौ जालाकारौ अल्पौ च पादौ भवतः । सान्दौ जलाभेदौ च पक्षौ क्षेपणिफलकवत् अस्य सहायतां कुरुतः । इमौ पक्षौ अग्रभागे श्वेतौ पृष्ठभागे च कृष्णौ वर्तेते । पेंग्विन पक्षिणः आकृतिः विविधा वर्तते । पेंग्विनपक्षिराजस्य शरीरस्य उच्चता द्वौ हस्तौ षोडश च अंङ्गुलयो भवति । अस्य शरीरस्य परिमाणं पञ्चचत्वारिंशत्किलोग्राममितं भवति । एषः पक्षी प्रायः जले एव निवसति । तत्र स मीनान् खादित्वा स्वजीवनं यापयति । परं स्त्री- पेंग्विनपक्षी भूमौ हिमस्य वा उपरि द्वे त्रीणि वा अण्डानि सूते । तत्रैव अण्डेभ्यः पेंग्विनपक्षिशावकाः उत्पद्यन्ते । यदा पेंग्विनपक्षिणः अण्डानि पोषयितुं भूमौ वसन्ति तदा ते विशालान् नीडालयान् रचयन्ति । प्रत्येकं नीडालये प्रायः दशलक्षाणि पेंग्विनपक्षिणो वसन्ति । पेंग्विनपक्षिराजस्य कुलाय व्यवहारोऽद्भुतो वर्तते । तस्य स्त्री हिमस्योपरि केवलम् एकमेव अण्डं सूते सपदि च समुद्रं प्रति निवर्तते । पुमान् पेंग्विनपक्षी स्वशावकस्य उद्भवपर्यन्तमण्डं सेवते । स तदण्डं स्वपादयोः समीपे कृत्वा स्वशरीरस्य अधोभागेन आवृत्य तिष्ठति । तदा सः अन्यः अनेकैः पुंभिः पेंग्विनपक्षिभिः साकं मासद्वयपर्यन्तम् अण्डं सेवमानः तिष्ठति । एतस्मिन् अन्तराले स किञ्चिदपि न खादति । अहो पितृवात्सल्यम्! यदा मासद्वयान्न्तरं पेंग्विनपक्षिशावकः अण्डात् प्रादुर्भवति तदा पुमान् पेंग्विनपक्षी स्वगलपुटात् निःसृतेन दुग्धसदृशेन द्रव्येन स्वशावकं पोषयति । स स्वमुखेन एतत् पोषण कार्यं सम्पादयति । यदा पेंग्विनपक्षिशावकाः प्रादुर्भवन्ति तदा तेषां मातरः स्(स्त्रीपेंग्विनपक्षिणः )नीडालयम् आगच्छन्ति स्वशावकानां च रक्षणे तत्परा भवन्ति । पुमांसः पेंग्विनपक्षिणः समुद्रं प्रति गच्छन्ति। तत्र ते आत्मनः स्वशावकानां च कृते खाद्यम् अन्विष्यन्ति। त्रिभ्यः सप्ताहेभ्यः अनन्तरं ते भोजनमादाय प्रत्यावर्तन्ते । प्रौढाः पेंग्विनपक्षिणः शावकेभ्यः उष्णतां दातुं तान् परितः षड्मासान् तिष्टन्ति । षड्भिः मासैः पेंग्विनपक्षिशावकाः सम्यग् रूपेण पुष्टाः आत्मरक्षां च कर्तुं समर्थाः भवन्ति ।