सन्देशः युगाब्दः ५१०७ कार्त्तिकमासः अक्टोबर् - २००५ पश्य मे रुपाणि म. वि. कोल्हटकरः, महाराष्ट्रम् बाल मोदिनी अस्ति कश्र्चन ग्रामः । तस्मिन् ग्रामे श्रीपतिः नाम कृषीवलः वसति स्म । ग्रामे वर्तते श्रीविठ्ठलस्य मन्दिरम् । श्रीपतिः श्रीविठ्ठलः परमभक्तः अस्ति । सः प्रतिदिनं श्रीविठ्ठलस्य पूजनं करोति, भजनं करोति च । स प्रतिदिनं वदति - " श्रीविठलः मम चिन्तां कुर्यात् मम क्षेमं साधयेत् । मया किमपि कर्त्तव्यं न विद्यते । श्रीविठ्ठलः एव मम त्राता रक्षणकर्ता च" इति । अथ कदाचित् तस्मिन् ग्रामे अतिवृष्टिः सञ्जाता । समिपवर्तिनी नदी मर्यादाम् उल्ल्ङ्घितवती । अतः नद्याः जलं ग्रामं प्राविशत् । ततः भिताः जनाः पलायन्तः । सर्वत्र हाहाकारः प्रावर्तत । तथापि श्रीपतिह् ग्रामं न अत्यजत् । गृहम् अपि न अत्यजत् । स चिन्तयति 'विठ्ठलः एव मां रक्षिष्यति, मया चिन्ता करणीया नास्ति' इति । अकस्मात् एकं जीपयानम् आगतम् । ग्रामजनाः सर्वे त्वरया तस्मिन् याने उपविष्टवन्तः । जीप्यानं श्रीपतेः ग्रुहस्य पुरतः अतिष्ठत् । यानचालकः श्रीपतिं प्रार्थयत - "शीघ्रं प्रस्थीयताम् । विलम्बः विनाशाय भवेत् ।" श्रीपतिः तु यानचलकस्य प्रार्थनां तिरस्कुर्वन् अवदत् -"श्रीविठ्ठलः मम रक्षणकर्ता । सः मां निश्र्चयेन रक्षिष्यति" इति । यानचालकः निरुपायः सन् ततः अगच्चत् । जलस्तरः अवर्धत । श्रीपते गृहम् आप्लावितम् अधुना श्रीपतिः गृहस्य उपरि तिष्ठति । अकस्मात् एका नौका तत्र आगता । अवशिष्टान् जनान् नेतुं नौका प्रायतत । नौकाचालकह् कौशलेन नौकां श्रीपतेः पुरतः अथगयित्वा उच्चैह् अवदत्-"त्वरां कुरु । उद्गत्ः अस्ति जलनिधिः । प्रवृध्दः दृश्यते प्रवाह वेगः । प्रमतः वायुः । आगच्च, नौकाम् आरोह ।" "ष्रीविठ्ठलः एव मां रक्षिष्यति । अनया नौकाया किं प्रयोजनम् ?" इति अवदत् श्रीपतिः । नौका प्रतिन्यवर्तत । जलस्तरः अवर्धत । उद्गच्छन्ति वीचयः । ग्रामः आप्लुतः जातः । सर्वत्र भीषणं दृश्यम् । श्रीपतिः आत्मरक्षणार्थं वृक्षम् आरोहत् । वृक्षः अपि जलेन आक्रान्तः । कम्पमानः श्रीपतिः वृक्षस्य अग्रम् अगच्छत्, श्रीविठ्ठलस्य नाम अजपत् च । तस्मिन् क्षणे आकाशे घुई... घुई ... इति ध्वनिः प्रासरत् लघुवातयानं आकाशे भ्रमणम् अकरोत् । तत् लघुयातयानम् अधः आगतम् । यानचालकः अभणत् - "रज्जुश्रेणीम् अवलम्ब्य शीघ्रम् आगच्च । अन्यथा मरणम् अपरिहार्यं स्यात्" इति । पुनः इपि श्रीपतिना यानचालकस्य प्रार्थना अवगणिता । स पूर्वोक्तमेव वचनं पुनः अश्रावयत् । सः अवदत् - "साक्षात् श्रीविठ्ठलः आगमिष्यति । सः मां रक्षष्यति । रे यानचालक तव सेवा न आवश्यकि" इति । यानम् ऊध्र्वदेशं गच्छत् ड्रूष्टिपथात् अपागच्छत् । ततः वृक्षः अपि आप्लुतः जातः । श्रीपतिः जले न्यमज्जत्, पञ्चत्वं गतः च । परलोकं गतः श्रीपतिः श्रीविठ्ठलेन सह कलहम् अकरोत् । सः कोपेन अवदत् -"हे विठ्ठल व्य्था कृता त्वयि भक्तिः मया ।वृथा एव विश्र्वासः त्वयि निहितः । अहं वञ्चितः अभवम् । मम रक्षणं त्वया न कृतम् । अयं घोरः विश्र्वासघातः" इति । श्रीविठ्ठलः श्रीपतेः वचनं श्रुत्वा स्मयमानः अवदत् - "प्रियभक्त ,ध्वन् धावन् तव रक्षणार्थम् अहम् आगतवान् एव ।" "कथं ? कदा " -अपृच्छत् श्रीपतिः । "न एकवारम्, अपि तु त्रिवार्म् " इति अवदत् श्रीविठ्ठलः । "कथं मया भवान् न दृष्टः ?" "एकदा जीपयानं गृहीत्वा, पश्र्चात् नौकाम् आनीय, अनन्तरं लघुवातयानेन च सह अहम् आगतवान् ।" "कथं न ज्ञातं मया?" "भक्त न ते दृष्टिः उचिता । अहं केनापि रुपेण आगच्छामि । भवता अहं ज्ञातव्यः,द्रष्टव्यः,श्रोतव्यः च ।" एतत् श्रुत्वा श्रीपतिः अनुतापम् अकरोत् । अतः विद्यते महाभारते श्लोकः - न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुध्दया संयोजयन्ति तम् ॥