अस्माकं पर्यावरणम् *********************** या भूमिः यज्जलं यश्च वायुः परितः विद्यते तत्सर्वं मिलित्वा अस्माकं पर्यावरणं कथ्यते । विज्ञानस्य विकासेन यानि उपभोगसाधनानि यानि च अन्यानि अनेकानि उपकरणानि प्रकृतेः अनुकम्पया अस्माभिः उपलब्धानि तैः सर्वैः अस्माकं जीवनं सुखसम्पन्नं संजातम् । परमेतस्यां प्रक्रियायाम् अस्माभिः पर्यावरणस्य महती हिंसा कृता । एतदतिरिक्तं स्वावश्यकताः पूरयितुं वनानां स्थाने भवनानि ,यन्त्रशालाः नूतनास्च मार्गाः अस्माभिः निर्मीयन्ते । एतेन ग्रामाणामपि पर्यावरणस्य स्वाभाविकता नष्टा नगराणां तु का कथा । मोटरयानैः यन्त्रशालानां च अवशिष्टैः विषाक्तपदार्थैः भूमिः जलं वायुश्च -सर्वं पर्यावरणं दूषितं संजातम् । वनानां वृक्षाणां च पातनेन जलम् अवशोषयितुं समर्था न भवति । एतेन हेतुना निदाघो वर्धते । एकस्मिन् समये अतिवृष्टिः तया जलाप्लावः तेन च महती हानिः भवति । अपरस्मिन् समये अनावृष्टिः तया च दुर्भिक्षं आपद्यते । समासतः एतत्कथयितुं शक्यते यत् पर्याअवरणस्य एतावती हानिः कृता यया आसन्ने एव भविष्यति काले शुद्धं जलं शुद्धश्च वायुः दुर्लभो भविष्यति । नूतनाः रोगाः आक्रमिष्यन्ति तैश्च मानवानां अस्तित्वमेव संकटापन्नं भविष्यति । तहि अस्माभिः किं कर्तव्यम् ? पर्यावरणस्य सुरक्षा अस्माभिः कर्त्तव्याः । भूमेः, जलस्य, वायोः, प्राणिनां, वनस्पतीनां,वनानां च सुरक्षा अस्माकं परममेव कर्त्तव्यम् । स्वच्छस्य पर्यावरणस्य स्वस्थस्य च जीवनस्य कृते वयं यानि यावन्ति च वस्तूनि उपभोगाय प्रकृतेः प्राप्नुमः तानि सर्वाणि प्रकृतिं प्रत्यावर्तयितुं तत्परा भवेम । वनानामुपभोगेन तेषां या न्यूनता अस्माभिः क्रियते तां पूरयितुं वयं च सावधानाः सन्नद्धाश्च भवेम । एतत्कृते ग्रामेषु नगरेषु च अस्माभिः आशुवर्धनशीलाः पादपाः आरोपणीयाः । उपभोगाय स्वस्था सम्यग् दृष्टिः अस्माभिः तथा विकासयितव्या यथा उपभोगोपयोगीनि वस्तूनि अस्माभिः सम्यगरूपेण उपयुज्येरन् । एतादृशी दृष्टिः सर्वेषां कल्याणाय भविष्यति ।