परिहासिकाः ********************** चिकित्सकः- मन्ये ,त्वम् अलर्करोगेण आक्रान्तोऽसि । रोगी- यद्येवं तहि भवान् मह्यम् एकं कगलं यच्छतु । चिकित्सकः- किं त्वं इच्छापत्रं लेखितुम् इच्छसि? रोगी- न, अहं तु तेषां नामानि लेखितुम् इच्छमि यान् अहं दङ्क्ष्यामि। (त्रीणि मित्राणि परस्परं वार्तालापं कुर्वन्ति ईश्वरं प्रार्थयन्ते) प्रथमं मित्रं-हे ईश्वर ! मह्यं त्वं स्वर्णपूर्णं गृहं यच्छ । द्वितीयं मित्रं- हे भगवन् ! त्वं मे रत्नैः पूर्णं गृहं यच्छ। तृतीयं मित्रं- हे प्रभो ! तादृशं गृहम् उद्घातयितुम्ं कुञ्चिकां मह्यं देहि। अध्यापकः- (शिष्यं प्रति) रोहित ! त्वम् अति दुष्टोऽसि । श्वः स्वपित्रा सह अत्र आगन्तव्यम् । रोहितः- श्रीमन्तः ! यद्येवम् अस्ति तहि शतं रुप्यकणि भवद्भिः मह्यं देयानि। अध्यापकः - किमर्थम् ? रोहितः- मम पिता तु चिकित्सकोऽस्ति । शतरुप्यकाणि शुल्कं बिना नासौ कुत्रापि गच्छति । (न्यायालये न्यायाधीशम् अपराधिनं च अन्तरा वार्तालापो भवति ) न्यायाधीशः- यदि त्वं मृषा वदिष्यति तहि कुत्र गमिष्यसि ? अपराधी- ननु नरकमेव गमिष्यामि । न्यायाधीशः - यदि त्वं सत्यं वदिष्यसि तदा कुत्र ? अपराधी- कारागारम् । (मोहनः विनायकं पूजयति । पूजया प्रसन्नो भूत्वा विनायकः आविर्भवति) विनायकः -वत्स ! वद किमिच्छसि? मोहितः- मारुतिकारयानं मे स्यादिति वाञ्छामि। विनायकः- मम वाहनं मूषको वर्तते । कथमहं तुभ्यं कारयानं दास्यामि? इयमेका श्लोकरूपा प्रसिद्धा परिहासिका- कमले कमला शेते हरः शेते हिमालये । क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया॥