मूर्खः शृगालः कस्मिंश्चित् वने चण्डरवो नाम शृगालः वसति स्म । एकदा सः क्षुधापीडितः इतस्ततः विचरन् नगरान्तरे प्राविशत् । तत्र सः एकस्मिन् महापात्रे अपतत् । तत् पात्रं नीलीरसपूर्णम् आसीत् । यावत् सः तस्मात् पात्रात् बहिः आगच्छत् तावत् पूर्णरूपेण नीलवर्णः अभवत् । तस्याम् एव अवस्थायाम् सः चण्डरवः वनम् अव्रजत् । तत्र तथाविधम् तं चण्डरवम् अवलोक्य सर्वे सिंह-व्याघ्र-गज-वानर-प्रभृतयः पशवः भयभीताः पलायितुं च तत्पराः अभवन् । तेषां भयाकुलानां पशूनां समीपे गत्वा चण्डरवः अभणत्- "यूयम् मां दृष्ट्वा मा त्रस्यत । अहं वनदेवतया एतस्य वनस्य नृपतिरूपेण नियुक्तः अस्मि । सा माम् आदिशत् यत् एतस्मिन् वने पशूनां कः अपि नृपः न अस्ति । तत्र गत्वा त्वं तान् सर्वान् पशून् परिपालय । अत एव अहम् अत्र आगतः अस्मि । " एतत् श्रुत्वा सर्वे पशवः तम् चण्डरवम् प्रणम्य अकथयन्- "य आज्ञापयति देवः । " तत् अनन्तरम् तेन शृगालेन सिंह-व्याघ्र-गजआदयः अमात्यआदिरूपेण विविधकार्येषु नियुक्ताः । परम् अन्यैः आत्मीयैः शृगालैः सह सः आलापमात्रम् अपि न अकरोत् सर्वे च ते शृगालाः तेन दूरीकृताः । किञ्चित् कालानन्तरम् एकदा संध्यासमये चण्डरवः शृगालसमूहस्य कोलाहलम् आकर्णयत् । तम् शृगालरवं श्रुत्वा सः अपि तथा एव शब्दम् अकरोत् । तस्य शृगालसदृशं ध्वनिं श्रुत्वा सिंहआदयोऽपि ‘शृगालोऽयम्’ इति ज्ञात्वा तं खण्डशः अकुर्वन् । उक्तञ्च- आत्मपक्षम् परित्यज्य परपक्षेषु यो रतः । स परैहन्यते मूढो नीलवर्णशृगालवत् ॥