सन्देशः युगाब्दः ५१०७ ज्येष्ठमासः जून् २००५ शकरं करुणाकरः म. वि. कोल्हटकरः बाल मोदिनी पुरा राज्ञा सगरेण अश्र्वमेधयज्ञः अनुतिष्ठतः । यज्ञीयः अश्र्वः कपिलमुनेः आश्रमे निबध्दः । सगरस्य सहस्त्रं पुत्राः पृथ्वीम् उदखनन्,अश्र्वं च प्राप्नुवन् । तैः सगरपुत्रैः कपिलमुनौ चौर्यकर्म आरोपितम् । क्रुध्दः कपिलः सगरपुत्रान् शपन् तान् भस्मसात् अकरोत् । पश्र्चात् सगरवंशीयः भगीरथः महता तपोबलेन गङा स्वर्गात् भूलोकम् आनयत् , शापग्रस्तानां भस्मीभूतानां पूर्वगानाम् उध्दारम् असाध्नोत् । गङ्गा आदौ श्रीशङ्करेण जटासु गृहिता । पश्र्चात् विदेशदेशे, उत्तरदेशे ,बङदेशे ,च विहृत्य गङ्गा सागरे आत्मानं विलोपितवती । एषु तेषु प्रेदेशेषु स्वजलेन सा सामान्यानाम् अघनाशनं समपादयत् । सुदूरं दक्षिणाञ्चले सुकेशि नाम राजा आसित् । सः प्रजाहिते दक्षः ,सत्यप्रियः, पराक्रमसम्पन्नश्र्च आसित् । राजा सुकेशी भगवतः शङ्करस्य परमः भक्त आसित् । धोरं तपः तेन आचरितम् । तस्य तपसा भगवान् शङ्करः प्रसन्नः अभवत् । सः राजानम् अपृच्छ्त् - "किं यच्छानि ? " इति । सुकेशी निमिषमात्रं विचिन्त्य भाषितवान् - "पुण्यसलिला भागीरथी भवतः जटासम्भारात् निर्गत्य पाटलीपुत्रपर्यन्तं तीरवासिनां पपनि नाशयति । पश्र्चात् सा वामतः वलति । अनन्तरं पूर्वसागरेण सङ्गच्छते . एवं अघनाशिन्याः गङायाः पावनतीर्थलाभात् वञ्चिताः । अतः अहं प्रार्थये -'गङ्गामातुः पादतीर्थं दक्षिणभारतेऽपि उपलब्धं भवेत्' इति । तेन तीर्थेन वयं सर्वे दक्षिणभारतीयाः अपि पापविमुक्ताः भवेम " इति। शङ्करः भक्तप्रियः । "तथाऽस्तु" इति हस्तम् उध्दत्य स अवदत् । हर्षोत्फ़ुल्लः सुकेशी अभाषत - "गङ्गायाः प्रवाहमार्गः परिवर्तितः भवेत्, समग्रे दक्षिनभारते स प्रसृतः भवेत् च इति अपेक्षे अहम् " इति। "प्रवाहे परिवर्तनम् अशक्यम्" इति अवदत् शङ्करः । यदि नागच्छेत् प्रवाहः ,कथं स्यात् तर्हि तीर्थलाभः ? " इति अपृच्छत् सुकेशी । "गुपतरुपेण आगच्छेत् गङ्गा दक्षिणप्रदेशे "इति शङ्करः उक्तवान् । "अव्यत्तायाः गङ्गायाः आराधनं कथं शक्यं भवेत् ? तीर्थलाभाय कः उपायः ?" इति पृष्टवान् सुकेशी । "अव्यक्तायाः गङ्गायाः आराधनस्य अनन्तरं सा व्यक्ता भवेत्" इति तीर्थलाभोपायं सूचितवान् शङ्करः . "कथं कर्तव्या आराधना?। इति पुनः पुनः पृष्टवान् सुकेशी । शङ्करः एकं फलं स्वहस्तेन् अगृह्णात् । अवदत् च"एतत् फलं मम प्रतीकम् । गृहाण एतत् फलम् । मृत्तिकया मृदुमृदुलां शय्यां कुरु । तस्यां शय्यायां भक्तिभावेन् एतत् फलं संस्थापय । मृत्तिकया तत् आवरय । भक्तिपूरवकं तस्मिन् स्थले जसेचनं कुर् । दिव्यः अङ्कुरः पक्षपात्रेण प्रकटितः भवेत् अङ्कुरस्य सेवां निष्ठया कुरु । आकाशम् आलिङ्गितुं समुत्सुकः इव तरुः तत्र महता वेगेन वर्धेत । यथाकालं वृक्षस्य मस्तकप्रदेशे सुन्दरं फलं आविर्भवेत् । फलानां समुच्चयह् चः प्रकटिभवेत् । तत् द्दश्य नयनानन्दमहोत्सवाय भवेत् । रे वत्स, तत् फलं न तत् फलं मम अंशः एव । अंशमात्रेण स्वयम् अहम् एव उच्चस्थाने आत्मानं प्रकटिकरिष्यामि ।" "किं भवेत् भवतः स्वरुपस्य दर्शनम् ?"। इति पृष्टवान् सुकेशी ।"रे, तत् फलं मम एव प्रतिकृतिः । यथा मे मस्तके जटासम्भारः तथा फलस्य मस्तके जटासम्भारः । यथा मे त्रीणि नेत्राणि तथैव तस्यापि भविष्यन्ति त्रीणि नेत्राणि मे जटाभ्यः गङ्गा यथा स्त्रुता तथा पलमध्ये जटाभ्यः स्त्रुतं भवेत् गङ्गाजलम् । अरे यथा गङ्गाजलं शुध्दं ,पवित्रं ,स्वादयुतं तथैव फलस्य अन्तर्भागे शुध्दं ,पवित्रं, स्वाद्यक्तं जलम् । एतस्य फलस्य उपयोगः उपासनायाम् अनिवार्यः भवेत्" इति शङ्करः विशदीकृतवान् । हर्षभरितः राजा सुकेशी शङ्गकरस्य प्रसादस्वरुपं तत् दिव्यं फलं हस्तेन् अहृह्णात् । शङ्करः कृपालुः सः अवदत् - "चिन्तां मा कुरु । एतस्य फलस्य वंशः वेगेन वर्धेत । सागरतटे तेषां सम्मर्दः सर्वत्र द्दश्येत । मस्तके तीर्थकुम्भान् धृत्वा एते वृक्षाः पुण्यशीलानां प्रतीक्षां कुर्युः तस्यः वृक्षस्य दर्शनं कल्याणकारकम् । शुभकार्यारम्भे तस्य उपस्थितिः अनिवार्या भवेत्" इति। सुकेशी भावमग्नः अभवत् । शङ्करस्य वाणीं श्रुत्वा तृप्ति न अविन्दत । सः इच्छति स्म यत् प्रभोः वाक् निरन्तरं शब्दामृतं स्त्रावयेत् इति "भवतः एतस्य अवतारविशेषस्य रहस्यं कृपया विशदीकरोतु" इति प्रार्थयत् सुकेशी ।"कथयामि रहस्यम् एतस्य फलस्य । एतस्मिन् जगति जलेन सह तैलस्य मिश्रणं कदापि न शक्यम् । तथापि र्तस्मिन् प्रसादफले तैलं जलं च सुखेन अभिन्नरुपेण् निवासं करिष्यतः " इति । "किमस्ति साधकानां कृते भवतः सन्देशः ?" "यथा फले जलं तैलं च सुखेन वसतः तथा मानवः अपि संसारे निवसेत् संसारे वसन् अपि संसारे अवसन् इव व्यवहरेत् सः । संसारे लिप्तः द्दस्येत् ,मनसा तु अलिप्तं भवेत् । एषह् एव पन्थाः विद्यते अयनाय। एषः एव मार्गः आनन्दस्य लाभाय " इति । एवम् उक्त्वा शङ्करः सुकेशिनः हस्ते तत् दिव्यं फलम् अयच्छत्, अन्तर्हितश्च अभवत् । तदेव नारिकेलफलं प्रसादस्वरुपं शङ्कस्य ,यस्मिन् च वर्तते पावनं साक्षात् गङ्गायाः तीर्थजलम् । सन्देशः युगाब्दः ५१०७ ज्येष्ठमासः जून् २००५ सर्व भवन्तु सुखिनः बाल मोदिनी सर्वे भवन्तु सुखिनः सम्राजः अशोकस्य जन्मदिनम् आचार्यमाणम् आसीत् । तत्र अधीनाः नृपाः भागं गृहीतवन्तः आसन् । तदा राजा अशोकः एकाम् घोषणां कारितवान् -"अत्युत्तमस्य राज्ञः सम्माननं करिष्यते " इति । इति एकैकम् अपि नृपम् आहुय तत्तद्राज्यस्य विषयम् अपृच्छत् । तदा नृपाह् स्वीयस्य राज्यस्य प्रगतिम् उत्साहेन वर्णितवन्तः । उत्तराज्यस्य राजा गर्वेण अवदत् -"प्रभो अस्मिन् वर्षे मम राज्ये वृष्टिः , सस्यसमृध्दिश्र्च सम्यक् अस्ति । अतः जनेभ्यः अत्यधिकं करशुक्लं स्वीकर्तुं श्क्यते । एतस्मात् कारणात् मम राज्यस्य आयः त्रिगुणितः भविष्यति" इति। अनन्तरं दक्षिणराज्यस्य नृपः - मम राज्ये अहं कशुल्कस्य संग्रहणं सुवर्नरुपेण कृतवान् । अस्मिन् वर्षे मम राज्ये भाण्डारे द्विगुणितं सुवर्णं सङ्गृहीतम् अस्ति" इति अवदत् । पूर्वराज्यस्य राजा - " अस्माकं राज्यस्य सीमायाः समीपे केचन दुष्टाः जनेभ्यः कष्टं यच्छ्न्ति स्म । ते दुष्टाः मया सह कोऽपि युध्दं न करिष्यति" इत्युक्तवान् । पश्र्चिमराज्यस्य राजा गर्वेण -" मया कर्मकराणां वेतनं न्युनं कृतम् । जनुषु अधिकं करशुल्कम् आरोप्य अधिकं धनं सङ्गहितं । एतस्मात् मम आयः अधिकः जातः। अग्रिमे वर्षे अधिकम् आयं सम्पादयितुं कः मार्गः आश्रयणियः इति मन्त्रिनः प्रुष्टवान् अस्मि" इति उक्तवान् एवं एकैकोऽपि राजा 'मम राज्यस्य आयह् द्विगुणितः जातः,' त्रिगुणित्ः जातः इति अभिमानेन् अवदत् । सर्वेषां कथनं समाप्तम् । तदा मगधराजः अशोकं नमस्कृत्य विनयेन् अवदत् - "महाप्रभो कृपया अहं क्षन्तव्यः । मम धनागारे गतवर्षे यावत् आसित् तस्य अर्धम् अपि नास्ति इति वक्तुं लज्जाम् अनुभवामि" इति "तत् कथं सञ्जातम् ?" इति पृष्टम् अशोकेन । "गते वर्षे अस्माकम् आस्थान्स्य कर्मकेभ्यः कानिचन आनुकूल्यानि मया कल्पितानि । एतस्मात् कारणात् ते अधुना निष्कपटतया ,निष्टाया,परिश्र्मेन च कार्यं कुर्वन्ति प्रजाः पुत्राः इव । तदर्थ तासां कष्टं मा भूदिति धिया मया करशुल्कं न्यूनीकृतम् । यात्रिकेभ्यः वसतिशालानां निर्माणं कारितं , यत्र तेभ्यः निश्शुल्कभोजनव्यवस्था अपि अस्ति । चिकित्साल्याः निर्मिताः निश्शुल्कं चिकित्सं कर्तुं व्यवस्था च कल्पिता अस्ति । बहूनां कूपानां खननं कारयित्वा जलव्यवस्था उपकल्पिता । पाटशालाः आर्ब्ढा:, येन विद्यार्थिनाम् अध्ययनार्थं योग्या व्यवस्था स्यात् । एतस्मात् कारणात् जनेषु धर्मश्रध्दा प्रवृध्दा अस्ति मम दृष्टया धनात् ऎश्र्वर्यात् चापि प्रजानाम् हितमेव प्रमुखम् एतस्मात् कारणात् धनागारे धनं न्यूनं जातम्" इति विवरीतवान् मगधराजः ।एतत् श्रुत्वा सम्राट अशोकः आनन्दितः । स तं राजानं आलिङ्गय अवदत् - जनानां रक्षणार्थं , तेषां सुकदु:खानि अवगन्तुं च देवः अस्मभ्यम् एकम् उत्तमम् अवसरं कल्पितवान् अस्ति । नृपेण कथं शासनं करणीयं इति मगद्गराजः दर्शितवान् अस्ति । यदि प्रजाः सुखेन जीवन्ति तर्हि एव राज्यं संरक्षितं भवति अस्माकं जन्म सफलीक्रतुं किं करणीयं इति मगद्गराजः दर्शितवान् अस्ति । भवन्तः सर्वे एतं मार्गं अनुसृत्य धर्मं, राज्यं ,प्रजाः च रक्षन्तु " इति । ततः सः - "एष एव श्रेष्ठः राजा इति मया निर्णितम् अस्ति" इत्युक्त्वा स्वस्य धनागारात् लक्षं सुवर्णनाणकानि मगधराजाय उपायनीकृत्य तस्य सम्माननं कृतवान् । सन्देशः युगाब्दः ५१०७ कार्त्तिकमासः अक्टुबरः २००५ कथा अर्धाङ्गिनी "अहं तेन सह सम्भाषणं कर्तुम् इच्छामि" इति वध्वा माधुर्या उक्तं श्रुत्वा सर्वे आश्र्चर्य प्राप्तवन्तः । मम न कोऽपि प्रतिरोधः वर्तते "इति उक्तवान् वर्तते "। इति उक्तवान् वरः चन्द्रः । उभौ अपि अन्यस्मिन् प्रकोष्ठे उपविष्टवन्तौ चन्द्रः प्राप्तस्नातकपदवीकः । अग्रे अध्ययनं न कृतं तेन कस्याञ्चित् स्वायत्तसंस्थायां सः नियुक्तं सम्पादितवान् । तस्य पिता सामान्य ः उद्योगी । एकं गृहं कष्टेन निर्मितम् आसीत् तेन । किन्तु तदपि पुत्र्योः विवाहानन्तरम् अदृश्यम् अभवत् । पुत्र्योः विवाहावसरे वरशुल्कं दातुं पिता कियत् कष्टम् अनुभूतवान् इति प्रत्यक्षं दृष्टवान् अस्ति चन्द्रः । अतः एव वरशुल्कविषये चन्द्रस्य महान् अनादरः । तं पितरम् अपि उक्तवान् । "यथेष्टं करोतु । भवतः वरशुल्कधनेन किमपि करणीयम् इति मम कापि अपेक्क्षा नास्ति " इति उक्तवान् पिता । वह्वयः कन्याः दृष्टाः । 'वरः स्वयं शुल्कं मास्तु इति वदति ,तस्मिन् कापि न्यूनता स्यात्' इति केचन चिन्तितवानः । इतोऽपि उन्नतां नियुक्तिं दापयिष्यामः । पितरौ विहाय अस्माकं कन्यया सह आगच्छ्तु ' इति अन्ये केचन उक्तवन्तः । केचन एतं न इष्टवन्तः । काश्र्चन एषः न इष्टवान् । परन्तु इदानीं यः सम्बन्धप्र्स्तावः आगतः सः तु उभयपक्षाभ्याम् अपि अरोचत । कन्यावीक्षणसमारोपस्य अभिप्रायविनिमयः प्रचलति स्म । "अहं भवन्तं किञ्चित् वदामि । अन्यथा न चिन्तनीयम् । भवान् वरशुल्कं नीराकृतवान् । भवान् वरशुल्कं निराकृतवान् । किमर्थं ?" इति पृषवती वधूः माधुरी । तस्याः नीस्सङ्कोचवार्तालापं श्रुत्वा चन्द्रः आश्र्चर्यचकितः । " भवतां सम्पति ः कियदस्ति ? विस्तरेण वदतु" इति उक्तवती माधुरी । " वेगेन प्रयुक्तः शरः इअव आगतवतः प्रश्र्नस्य उतरं धैर्येण उक्तवान् सः - "विशिष्टा सम्पत् कापि नास्ति । अभिमानेन सानन्दं पित्रोः संरक्षणमेव महत् इति अहं भवयामि ।" "भाविनि काले कापि आर्थिकसमस्या भविष्यति चेत् ... " पृष्टवति माअधुरी । चन्द्रः मौनम् आश्रितवान् । "पश्यतु वरशुल्कस्वीकरणम् अपराधः एव न इति अहं न वदामि । परन्तु प्र्याप्तमात्रम् आर्थिकसामर्थ्यमपि भवतां नस्ति । ये वरशुल्कं दातुं समर्थाः तेभ्यः तस्य स्विकरणं न दोषाय । स्वस्य अपेक्षाणां पूरणायान्यत्र हस्तप्रसारणं न भवेत् खलु । तथापि एतावत् दातव्याम् इति अभियाचनं न करणीयं । मम पिता वरश्ल्करुओएण धनं दातुं समर्थः अस्ति । स्वीकृत्य सञ्चयं करोतु" इति उक्तवती । "निषेधः कर्तव्यः 'इति चिन्तनं करोति चन्द्रः गतान् अनुभवान् स्मरन्.... उभयोदेशयोः वित्तमन्त्रिणो सुदीर्घायाः चर्चायाः अनन्तरं पत्रे हस्ताक्षरं यथा क्रियते तथा एताभ्याम् अपि कथमपि एकाभिप्रायः समालम्बितः । तद्दिने रात्रौ शनयात् पूर्व -'मम निर्णय श्रुत्वा मित्राणि परिहासं कुर्वन्ति किम्?'इति चिन्तनं सकृत् प्राप्तं चन्द्रेण । तथापि 'हा॑... दानं ग्रहणं इत्यादयः सामान्याः विषयाः एव । अत्र किमस्ति 'इति मनसः सात्वनं कृत्वा सः निद्रां कृत्वान् । 'पर्याप्तमात्रेण जलं भवति चेदेव नौका विना क्लेशं याति । आदर्शान् गृहित्वा जीवनं , जानुभ्यां जले तरणम् इव क्लेशकरम् । कदाचित् तत् असाध्यम् अपि ' इति चिन्तयन्ति , वर्षेभ्यः विद्यमानं क्षणान्तरे परिवर्तितवन्तं चन्द्रमपि मनसि स्मरन्ति 'अयं निश्र्चयेन अस्ति उक्तग्राहि ' इति निश्र्चित्य ' सुखेन निद्रां कृतवती माधुरी । ववाहः सुसम्पन्नः । नवोढयोः प्रथमा रात्रिः । पुष्पाणां मिग्धमनोहरपरिमलैः आकृष्टः चन्द्रः माधुर्याः निरीक्षणे अस्ति ।माधुरी स्वोद्योगः , धनसञ्चयनं ,वाहनक्रयणम्, अप्त्यानि, तेषाम् अध्ययनम् देशस्य आर्थिकि स्थितिः इत्यादीनां विषये दशाधिपृष्ठानि लिखित्वा चन्द्रस्य पुरतः पठितवती । समिपे उतपीठिकायां विद्यमानां क्षीरचषकं निस्सहायः सन् दृष्टवान् चन्द्रः । "अद्य ति निद्रा करोतु । महती निद्रा मां बाधते । स्वगृहनिर्माणविश्षये तन्निमितं वैत्तकोशात् कियत् ॠणं स्वीकरणीयं इति विष्ये ,अन्यान् विष्यान् अधिकृत्य च श्र्वः वार्तालापं करिष्यामः " इति जृम्भणं कुर्वती उक्तवती माधुरी । 'अबला, अर्धाङ्गिनि इत्यादीनां किम् अयम् एव अर्थः ?" इति चिन्तयन् अन्यत्र मुखं कृत्वा मदुरखण्ड्मेकं मुखे निक्षिप्य लिखितानि पत्राण्येव पुनः परिशीलयन्तीं माधुरीं स्मरन् , आस्तरणम् आकृष्य शयनं कृतवान् असहायः चन्द्रः । सन्देशः युगाब्दः ५९०७ कार्त्तिकमासः अक्तोबर्-२००५ अपरा यशोधरा डा. गोपबन्धुमिश्रः कथा प्रवाचकः, संस्कृतविभागः काशीहिन्दूविश्र्वविद्यालयः, वाराणासी "किं बहिरेव स्थास्यसि ? अन्तः आगच्छा, अखाआश ।" वसुधायाः उकत्या अवधान् मे भग्नम् । अतिथिप्रकोष्ठे माम् उपवेश्य 'एषा अहम् आगच्छामि ' इइत् उक्त्वा अन्तः प्राविशत् वसुधा । गते सोमवासरे रेलस्थानके अक्स्मात् वसुधायाः मेलनं जातम् आसीत् । यस्माद् रेलयानाद् अहम् अवतरामि स्म तेनैव गच्छन्तं पुत्रंअ आप्रष्टुं तत्र उपस्थिता आसीत् सा । विंशतिवर्षेभ्यः प्राक् समामे वर्गे उपविश्य आवं सहाध्ययनं कुर्वन्तौः आस्व ।दर्शनमात्रेण एव आवाभ्यां परस्परपरिचयं प्राप्तः । सा स्वपुत्रस्य ' आलोकस्य परिचयं कारितवती । आलोकः ग्वालियर्नगरे चिकित्साशास्त्रम् अधिते । रेलयानं प्रस्थितम् । वसुधा दृष्टाः तस्याः वैयक्तिकजीवनेविषये इत्तरान् प्रश्र्नान् प्रष्टुकां मं सा उक्तवति - " रेलस्थानके कियान् वा संवादः स्यात् आकाश ? मया किझ्चित् त्वरया कुत्रचित् गन्तव्यम् अस्ति, मन्ये त्वरया कुत्रचित् गन्तव्यम् अस्ति ,मन्ये त्वयापि तथा र्व । मम आवासः बहादुरपुरवीथ्यां गृहसंख्या क ३७/४५ अस्ति लब्धेऽवसरे आगच्छ, कुटुम्बिन्या सुतादिभिश्र्च सह ।" "अहमस्मिन् नगरे सद्य ः स्थानपिवर्तनद्वारा आगतः ,एकाकि एवाऽस्मि । अतः एकाकि एव आगमिष्यामि " इति उक्त्तवान् आसम्।तस्मात् दिनात् अद्यह रविवासरे एव अवसरं लब्ध्वा आगतोऽस्मि । " आकाश कथमसि त्वम् ? पूर्वं बहुकृशकाय ः आसीः इदानीं स्वस्थः इव कक्ष्येसे " -आत्मना सह आनीतानि मिष्टानि सुपिष्टकानि चायं च पात्राद् आदाय उत्पीठिकायां स्थापयन्ती पृष्टवती वसुधा । वर्गे सर्वदा प्रथमं स्थानम् अधिकुर्वती प्रगल्भवाग् वसुधा इदानीमतीव मितभाषिणी इव प्रतीयते स्म । " तव पुत्रं तु अहं दृष्टवान् । पतिः किं करोति ? सः कुत्र गतवान् ? किं नगरे अस्ति सः ? महाविद्यालयपठनकाले एव तव विवाहः अभवत् इति अस्माभिः ग्ङातम् । जानासि वसुधे ? त्वं प्रस्थितेति कारणेन एव अहं वर्गे प्रथमं स्थानं लब्धवान् । त्वयि स्थितायां तु तत् अशक्यम् आसीत् खु ?" किञ्चित् विहस्य उक्तवान् अहम् । "चायं स्वीकुरु आकाश, आहं न पिबामि' - वसुधायाः वचनम् आदेशविशेषं मत्वा अहं यन्त्रवत् चायपात्रम् उन्नीतवान् ।हुँ हुँ तत् मिश्टामपि स्वीकुरु।" अधिकार्णी शिक्षिकेव प्रतीयते स्म वसुधा । "स्वविषये तु त्वं किमपि उक्तवनेव नहि । कदा कस्मिन् विभागे अत्र तव नियुक्तिः ? आवासः कुत्र ? कुटुम्बजनाः कुत्र इदानीम् ? कदा आगमिष्यन्ति ते ? " इति विविधान् प्रश्र्नान् पृष्टवती सा । युगपत् प्राप्तैः तैः अहं काञ्चित् असहञ्सताम् अनुगतवान् । अत्र आयकरविभागे अधिकारिरुपेण गते मासे एव आगतः अस्मि । इतः पूर्वं लखनऊनगरे आसम् । कन्या द्वादशे च वर्गे तत्र पठतः । अन्तिमं वर्षं तयोः । अतः तत्रैव परीक्षां यावत् मात्रा सह वसतः । परीक्षानन्तरम् अत्र आगमिष्यन्ति सर्वे । अहमेव यथावसरं लखनऊं गच्छामि । तव किं स आलोकः एक एव पुत्रः ?" 'आम् '-एकेनैव शब्देन् उत्तरं दत्व वसुधा क्रमशः अहस्यमयि इव जाता । किं वा स्याद् र्हस्यम् एतस्याः जीवने ? सुन्दरि शिक्षिता एषा । अतीव मेधाविनी अपि । भाग्यवतः जजस्य खलु एतादृशी काचित् गृहिणी भवति । पट्ःअनकालेऽपि एषा इतरसहपाठिनीनां कृते ईर्ष्यायाः विषयः आसीद् एव ।' "आकाश त्वं यशोधरायाः कथां स्मर्सि ? क्रोडे बालः राहुलः । एकस्यां रात्रौ गौतमस्य प्रव्रज्या; स्मरसि खलु ?" अकस्मात् इतिहासस्य पुरातनानि पृष्ठानि स्मारयन्ति आसीत् वसुधा । 'किन्तु कथनत्र भगवतो बुध्दस्य कथा ? केनापि र्हस्येन भवितव्यमेव ।' "स्मरामि वसुधे । किन्तु अत्र ...?" मम वाक्यम् अश्रृण्वतीव सा कथनम् आरभत - "एषोऽपि तथैव गतवान् । पुत्रम् एतम् आलोकं मं च प्रित्यज्य । " " गतवान् नाम ? कुत्र ? केकारणेन /" विस्मौएन तावदेव वक्तुम् अपारयम् ।"कारणं तदेव - प्रव्रज्या । मम अध्ययनकाले एव मम विवाहः इति त्वं तु जानास्येव । वरः उच्चशिक्षितः ,विनयी,सर्वकारियोद्योगि च इति मत्वा पिता मम विवाअहं निर्वर्तितवान् । मम पुत्रोऽपि जातः । गृहे वृध्दा श्र्वश्रूरेव । पतिः स्वाभावतः किञ्चित् अन्तर्मुखी , बहु न भाषते । एतत् सर्व मम क्रमषः अभ्यासगतम् अभवत् । परन्तु क्रमशः सः अधिकाधिकं मौनम् आहरितवान् । सदा प्रायः ध्यानमग्ना स्थितिः तस्य । कि~ःचित् पृष्टे सति संसारोऽयम् असारः बन्धनाय एव ' इति दार्शनिकानि वाक्यानि वाक्यानि श्रावयति स्म सः ।" "कश्र्चित् मनश्र्चिकित्सकः किं न दृष्टः ? "'दृष्टः । सर्वा मनःस्थितिः सामान्या । तस्य आन्तः किमपि नित्यः कथदिव आसीत् । एअकस्यां रत्रौ स एव इतिहासः पुनरावृत्तः मम जीवने ।कमपि किमपि अनुक्त्वा गृहात् सः निर्गतः " इति वदन्ती दीर्घं निःश्र्वसितवती वसुधा । "अन्वेषणं तु कृतं स्यात् ?" "अन्वेषणं बहुधा कृतम् । कदाचित् वर्षानन्तरं कनखले साधूनां सङ्गमे सः दॄष्टः आसीत् इति केचन उक्तवन्तः । पुनस्तत्र अन्विष्टे सति ततोऽन्यत्र गतवान् आसित् सः । " "पुत्रः आलोकः ? " - पृष्टवान् अहं तस्य प्रतिपोषणविषये प्रष्टुम् इच्छन् ।"मम तु संसारः असारः नासित् खलु ? क्रोडे द्विवर्षीयः बालः आलोकः । वृध्दा च श्र्वश्रूः । पिता माम् उक्तवान् -मम निकटे निवसतु इति किन्तु मम कुटुम्बे एतौ द्वौ तु आस्ताम् । य्त्त्रे वयसि पुत्रं स्मृत्वा स्मृत्वा वृध्दा गतवर्षषट्कात् पूर्वं दिवं गता । " "आलोकस्य शिक्शणम् ? " अत्रैव कारितवती अहम् । श्र्व्श्र्वाः प्रयाणात् परम् एकस्मिन् विद्यालये शिक्षिकत्वम् आश्रितं मया । आलोकं तु त्वं दृष्टवान् एव । पितरि स्थितेऽपि पितृरहितः बालकः सः । मां परित्यज्य कुत्रापि गन्तु नेच्छति स्म सः । किन्तु चिकित्साप्रवेशपरिक्षायायाम् उत्तिर्णंः युवा किं मातृसेवायै गृहे बन्धव्य आसित् ?" - किञ्चित् हसन्ती इव उक्तवती वसुधा । एतावत् कष्टजातम् अनुभूयाऽपि वसुधा मुखे हासं न त्यक्तवती अस्ति । " तदा सर्वे नगरमिदम् आगमिष्यन्ति तदा तान् सर्वान् आदाय आगच्छ ,आकाश" मम विलम्बिताम् उपस्थितिं स्मारयन्तीव अवदत् वसुधा । अवश्यम् आगमिष्यामि ।इदानीं गन्तुकामोऽस्मि " उत्थाय प्रस्थितवान् अहम् । आमार्गं चिन्तयन् आसम् । 'गौतमस्य तपस्या एव बलीयसी ,उत यशोधरायाः ? गौतमः बुध्द्त्वम् आप्त्वा संसारे प्रतिष्ठितः सर्वविदितश्र्च अभवतः । किन्तु सा यशोधरा ? एषा वसुधा ? क्शणं क्षणं या संसारे तप आचरन्ती अस्ति ,तस्याः का प्रतिष्ठा स्यात् परिवारे ,स्वजनेषु,संसारे च ? को वा प्रतिष्ठां दद्यात् ? प्रतिष्ठायास्तु अन्या कथा ,प्रतिश्र्वसनम् एषा कथं जीवति, पुत्रं जीवयति, कथम् आत्मानं रक्षति इति चिन्तनमात्रेण एव मम शरिरे कश्र्चन कम्पः सहत्वं साक्षात्कृतमिव अनुभुतवान् अहम् । अकस्मात् मम मुखात् निःसृतम्- 'धन्या त्वं वसुधे तुभ्यं कोटिशः नमः ।' मम कारयानचालकः आकस्मात् मम ध्वनिं श्रुत्वा समम्भ्रं पृष्टवान् - 'किं स्वामिन् ? ' मया उक्तं _'नहि किञ्चित् । चलतु अग्रे । ' सन्देशः युगाब्दः ५१०७ वैशाखमासः मे - २००५ गतिरोधक् खेमराज नेपालः कथा बुढीगाड, असम् - ६८४१७६ क्रिं.......क्रिम् इति डुरभाषशब्देन उपमण्डलाधिकारिणः प्रकोष्ठः शब्दायमानः जातः । अभ्यासबलेन दक्षिणेन हस्तेन अधिकारी ध्वनिग्राहिकाम् उत्थाप्य उक्तवान् _ "हरिः ओम अहम् उपमण्डलाधिकारी वदन् अस्मि" इति । "श्रीमन् नमस्कारः अहम् राजकीय महाविद्यालयस्य शिक्षककर्मकरसङ्स्य सचिवः वदन् अस्मि" - प्रतिपक्षतः उत्तरम् आयाति । " "नमस्कारः ,वदतु ..." - उपमण्डलाधिकारी अभाषतः । "महाशय दुःखेन भवन्तं सूचयामि यत् सः बालकः मृतः अस्ति । "श्रुतम् ...।अस्ति किं भवतः अस्मिन् विषये कथनीयम् ?" "श्रीमन् न खलु अहं किमपि वक्तुम् इच्छामि ।..... भवान् एव चिन्तयतु अस्मिन् विषये भवता करणियम् अस्ति न वा इति ।" "मया करणियम्....? "आम्" "मया किं करणियम् अस्ति ? भवान् किं वक्तुम् इच्छति ? को वा भवतः अभिप्राय? " "महाशय भवतः कार्यानेन प्राप्ताघातः बालकः यदा मृतः अस्ति तदा भवता किमपि करणियम् अस्ति न वा इति भवानेव विचारयतु " "मम कार्यानस्य आघातः एव बालकस्य मृत्योः कारणम् इति कथं भवता उच्यते ? अपि दृष्टं भवता ?... "न खलु " "तर्हि ?..... श्रृणोतु याथातथ्यम् । यानभयात् पलायनं कुर्वन् सः बालकः पतितः जातः । तस्य चिकित्सार्थम् अहमेव तम् उत्थाप्य चिकित्सालयं नीतवान् आसम् । तत्र वैद्याः तं परीक्षितवन्तः । यदा ते 'न खलु गुरुतरुपेण आहतः अस्ति' इति उक्तवन्तः तदा एव अहं ततः प्रस्थितवान् । तदनन्तरं यदि सः मरिष्यति तत्र मया वा किं करणियं भवति ? भवान् कस्य पुरतः एतत् सर्वं वदन् अस्ति ? यदि मम कार्यानेने एव मारितः इति भवतः विचारः विश्र्वासः वा तर्हि यथेच्छम् गच्छतु वा...." "श्रीमन् क्षतव्यः मम अपराधः ...... भवान् प्रशासकः ,अस्मकं पालकः । अस्माकं विपत्तौ भवानेव सहायकः । अतः भवानेव अस्माकं कृते न्यायालयः इति तु अस्माभिः स्वप्नेऽपि न चिन्तनीयः विषयः । भवतः यानम् एव तस्य बालकस्य मृत्योः कारणम् इति यदि भवान् न स्विकरोति तर्हि न्यायालयेन वा किम् ? अलं विवादेन । अलं साक्षिप्रमाणादिभिः श्रीमन् न एषः समयः तर्कस्य । न च मम एषः अनुरिधः यत् कृपया भवान् अत्र आगमनस्य कष्टं स्वीकरोतु ...। पुत्र षोकसन्तप्तं द्वारपालकं समवेदना ज्ञापयामः इति । दुर्घटना किल दुर्घटना एव । यत् भवितव्यं आसित् तदेव अभवत् ।.... नास्ति उपायः....।" "किम् उक्तं भवता ? मया द्वारपालकस्य गृहं गन्तव्यं इति ?.... भवान् माम् किं वा भावयति ..? ... स्थगयतु भवतः भाषणम् । " "महाशय उद्विग्नः मा भवतु । भवानेव यदि अनेन प्रकारेण उत्तेजितः भवतिः तर्हि सामान्यजनस्य का दशा भवेत् ? वयं तु भवतः प्रजा एव । प्रजापालनम् एव भवतः कर्तव्यं । अतः एव पालकरुपेण अपि भवान् तत्र गन्तुम् अर्हति । भवतः पदार्पणेन पुत्रशोकानलदग्धस्य तस्य ह्रदयं नूनम् उपशान्तं भवति इति अस्माकम् आशयः । तदेव भवतु वैद्यस्य प्रतिवेदनं ,तस्य ह्र्दये तु कार्यानस्य आघातः एव पुत्रस्य मृत्योः कारणम् इति भावना दृढतरा जाता अस्ति । इयमेव भावना लोकापवादस्य हेतुः अपि भवति । अतः मानवियदृष्ट्या अपि समवेदनां ज्ञापयितुं भवतः आगमनम् उचितम् इति अस्माकं विचारः ।" "सचिवमहोदय नाहं भवतः मानवतायाः पाटम् अपेक्षे । अन्यं कञ्चित् उद्दिश्य करोतु मानवतायाः मानवीयमूल्यबोधस्य व पाटनम् । न माम् । हं.. यदि भवान् इच्छति तर्हि मृतकस्य संस्कारार्थम् आर्थिकानुदानं याचतु । तदुचितम् । तत्र अःअं विचारयिष्यामि । न चेत् न्यायालयं गच्छतु, उत मौनं तिष्ठतु....।" इति उक्त्वा उपमण्डलाधिकारी रोषेण दूरवाणीं स्थापितवान् । अनन्तरं सः आकारिकाशब्दं कॄतवान् । द्वारपाकः समायातः । तं जलम् आनेतुम् आदिष्टवान् । सः प्रस्थितः । अधिकारिण मुखमण्डलं रक्तं जातम् । तस्य रोषारुणे नेत्रे ज्वलिते इव स्तः । सर्वशरीरं स्वेदसिक्तं जातम् । उपरि भ्रमत् विद्युद्व्यजनमपि तस्य कृते उल्मुकः इव आसित् ।द्वारपालेन आनीतं जलपात्रं तेन रिक्तं कृतं । ततः सः पादौ प्रसार्य सुखेन उपविष्टवान् । तस्य दृष्टेः पुरतः तद्दिवसीया घटना शनैः शनैः समायाति स्म । 'महरं दिनं तद् । 'ताजिया ' प्रदर्शनं द्रष्टुं जनाः समवेताः आसन् । तेषं नृत्यकौशलं प्रत्यक्षीकर्तुं बालाः विषेषेण उत्सुकाः आसन् । तेषां नृत्यकौशलम् प्रत्यक्षिकर्तुं बाला विशेषेण उत्सुकाः आसन् । दलं परितः ते इतस्ततः धानन्ति स्म । एतावता कालेन एव स्वस्य कार्यानं जनसमुद्रं प्रति अगच्छ्त् । अहो दौर्भाग्यम्...। कार्यानेन घट्टितः सन् भूमौ पतितः द्वारपालकस्य पुत्रः पञ्चवर्षदेशीयः लघुबालकः । कार्यानस्य अन्तः पृष्टतः आसने उपविष्टः सः किञ्कर्त्व्यतामुढ जातः । 'ताजिया' तः जनस्त्रोतः कार्यान्ं प्रति सरति स्म । चालकं दॄष्ट्वा प्रहर्तुं ते जना उद्युक्ताः आसन् । परन्तु ये केचन तम् अपिज्ञातवन्तः ते चालकं प्रति गच्छतः जनान् निवारयन्ति स्म । तदनन्तरं केचन पुरुषाः तः बालकम् उन्निय मार्गमध्ये स्थापितवन्तः । पञ्चवर्षिय ः पुष्टः सः बालकः दर्शनेन एव स्नेहास्पदं भवति स्म । यद्यपि तस्य केशाः अप्रसाधिताः ,वस्त्राणि च आसन्, तथापि सः शोभितः आसित् । कष्टेन सः 'अन्ब अम्ब इति उच्चार्य मर्गे निपतितः आसीत् । जलात् उन्नीतस्य मत्स्यस्य इव तस्य विलुण्ठनं जनानां कृते दुस्सहनीयम् अभवत् । केचन तं बाल्ं चिकित्सालयं प्रति नेतुं सूचितवन्तः । यत्ः करणियम् इति मत्वा सः बालं चिकित्सालयं नेतुम् अङ्गिकृतवान् । अधुनापि बालस्य मुखमण्डलस्य । चित्रं दृष्टेः पुरतः स्पष्टरुपेण अस्ति । असह्यवेदनाक्लिष्टस्य तस्य मुखात् कष्टेन निर्नतः 'अम्ब ' इति श्ब्दः तस्य ह्रदयं दुनोति स्म । सः चिन्तितवान् -'अबोध चञ्चलबालक । चञ्चलता एव तव कालः अपि जन्म मृत्युं च अधिकृत्य कवितां लिखितवान् आसीत् । सत्यमेव ।' स अपि जन्म मृत्युं च अधिकृत्य कवितां लिखितवान कदाचित् सः अपि जन्म मृत्युं च अधिकृत्य कवितां लिखितवान् आसित् । बाल्यकाले एव अनुभुतं मृत्युना कृतं ताण्डवनृत्यं तस्य मनसि अद्यापि स्पष्टम् अस्ति । क्रमशः स तस्य बालकस्य विषये स्नेहार्द्रचित्तः अभवत् । वात्सल्यभावेन व्याकुलितः सः तत्र गन्तुकामः अभवत् । घातकत्वरुपेण कलङ्केन आत्मनः जीवनं मलिनीकर्तुं स न इष्टवान् । पुत्रहिनस्य तस्य द्वारपालकस्य गृहं गत्वा निजाश्रुपातेन मनः निर्मलीकर्तुं सः उद्यतः जातः । परन्तु... एकतः मानवीया दृष्टि ः ,अन्यतः उच्चात्मिकायाः अहमिकायाः वा भावनायाः अन्तरे एव सः 'न ययौ न तस्थौ' अभवत् । किङ्चित पुर्वं शिक्षिककर्मकर्मकरसङ्घस्य सचिवम् उद्द्शिय उक्तं निजवचनं प्रति सः स्वयमेव धिक्कारयुक्तं अभवत् । मा कुरु धनजनयौवनगर्वम् ... इति स्म्तवतः तस्य जीवने अनास्था समुत्पन्ना । सर्वेन्द्रियाणि संयम्य ,मान_सम्मानाहग्ङ्कारादिन् पदतले कृत्वा स्थिरमनसा सः द्वारपालकस्य गृहं गन्तुं तस्य अश्रु मार्जयितुं च निश्र्चयम् अकरोत् । परन्तु तस्य पादौ न प्रसरतः । प्रकोष्ठस्य चतुर्भित्तितः सः प्रतिध्वनिं श्रुत्वान् -"किम् उक्तं भवता ? मया द्वारपालकस्य गृहं गन्तव्यम् इति ? ....भवान् मां किं वा भावयति ...? नाहं भवतः मानवतायाः पाठम् अपेक्षे । अन्यं कञ्चित् उद्दिश्य करोतु मानवतायाः मानवीयमूल्यबोधस्य वा पाठनम् । न माम् ।" निर्मलायमानाः तस्यः भावनाः पुनः मलिना जाता । अहमिकायाः तमसा सः पुनः पराजीतः अभवत् । तथा सत्यपि तस्य अभ्यनत्रे स्थिता श्रद्धाञलिम् अर्पयितुं तं प्रेरयन्ती आसीत् । अनायासेन तेन पुनः आकारिका वादिता । द्वारपालकः प्राविशत् । कार्चालकम् आह्वातुं तं सः सूचितवान् । द्वारपालः प्रस्थितः । सः पत्रम् एकम् अलिखत् 'सचिवमहोदय मृतक्स्य संस्काराय सहाय्यरुपेण सहस्त्रं रुप्यकाणि प्रेषयन् अस्मि । कृपया गृह्णातु ।' चालकः यदा समायातः तदा पत्रं धनञ्च दत्वा तम् आदिष्टवान् -"तेन सचिवेन सह म्रुतबालकस्य गृहं प्रति गत्वा आगच्छ्तु " इति चालकः गतवान् । स तस्य प्रत्यागमनमेव प्रतीक्षमाणः अतिष्ठत् । चालकः प्रत्यागतः एकेन पत्रेण सह नीतं धनपोटलकमपि अधिकारिणे समर्पितवान् । अधिकारी पत्रं पठितवान् -"धर्मावतारेण उपमण्डलाधिकारीमहोदयेन दत्तं धनं स्वीकृतम् । परन्तु अनेने धनेन महाविद्यालयस्य पुरतः गतिरोधकस्य निर्माणार्थं भवतः समक्षम् अस्य अधमस्य हार्दिकः अनुरोधः अस्ति इति । अलं विस्तरेण । भवतः कृपाभिलाषी "- द्वारपालकः । तस्य हस्ततः पत्रं पतितम् । नयने उद्वेगस्तिमिते आस्ताम् सन्देशः युगाब्दः ५७०७ कार्त्तिकमासः अक्टोबर् - २००५ न नीयते सूची अपि दिबन्धुः बाल मोदिनी लाहोरनगरे पूर्वं दुलीचन्दः नाम कोट्यधिपतिः धनिकः निवसति स्म । स्वस्य धनिकत्वस्य विषये महान् गर्वः तस्य । तस्य सम्पत्तिः विंशतिकोटिमिता आसीत् । एतत् द्योतयितुं सः स्वस्य गृहस्य पुरतः विंशतिं पताकाः उड्डाययति स्म । कदाचित् तेन श्रुतं यत् गुरुनानकः लाहोर नगरम् आगत्य धर्मशालायां कस्याञ्चित् वसति इति । दुलीचन्दः तस्य दर्शनार्थं गतवान् । तस्य पुरतः सुवर्णमुद्राग्रन्थिं कञ्चित् संस्थाप्य सः अवदत् -""गुरुवर्य का अन्या सेवा मया करणिया ? आदेष्टव्यः अहम् " इति । गुरुनानकः दर्शनमात्रेण एव अवगतवान् यत् एतस्य धनमदः अधिकः अस्ति इति । अतः सः एकां सूचीम् आनाय्य तस्मै द्त्त्व अवदत् - "अग्रिमे जन्मनि एअतत् प्र्त्यर्पणियं भवता" इति । दिलिचन्दः तां सूचीं गुरुप्रसादं भावयन् स्वगृहं प्रत्यागतवान् , तां सूचीं पूजागृहे भक्तया स्थापितवान् च । किञ्चित्त् कालानन्तरं तस्य मनसि विचारः आगतः 'अग्रिमे जन्मनि सूची प्रत्यर्पणीया इति गुरुणा सूचितम् । कथम् एतत् शक्येत् ? मरण समये किं कोऽपि आत्मना सह सूच्यादि वस्तु नेतुम् अर्हेत् ? न खलु ' इति । अतः सः तस्मिन् एव क्षणे गुरुनानकसमीपम् आगत्य अवदत् -"किञ्चित् कालात् पुर्वं भवता मह्यम् एकां सूचीं दत्त्वा उक्तम् आसित् यत् एषा अग्रिमे जन्मनि प्रत्यर्पणीया इति । एतत् कथं वा शक्येत् ? मरण समये कोऽपि किमपि नेतुं न शक्नोति खलु ? इति । तदा गुरुनान्कः अपृच्छत् -"दुलीचन्दः मरणसमये येन एका सूची अपि नेतुण् न शक्यते सः भवान् स्वस्य समग्रां सन्पत्तिं किं नेतुं न शक्नुयात् ? " इति । एतानि वचानानि श्रुतवति दुलीचन्दे ज्ञानस्य उदयः जातः । सः गृहं प्रत्यागत्य स्वस्य सम्पतेः दानम् आरब्धवान् । अर्हेभ्यः धनकनकादिकं दत्वा सः गुरुनानकस्य परमभक्तः जातः । सन्देशः युगाब्दः ५१०७ वैशाखमासः मे - २००५ वणिजःबुध्दिमत्ता शुध्दात्मप्रकाशःजैनः बालमोदिनी कस्मिंश्रित् ग्रामे कश्र्चन वणिक् निवसति स्म । सः अत्यन्तं चतुरः । कदाचित् सः गृहे उपवैश्य नाणकानिगणयन् आसीत् । तदा एव मार्गे गच्ग्छन् कश्र्चन चोरः तद् दृष्टवान् । सः मनसि एव चिन्तितवान् यत् -'एतस्य वणिजः समिपे बहु धनम् अस्ति ।अद्य रात्रौ मया एतस्मात् गृहात् एव चोरणीयम् ' इति । मार्गे स्थित्वा चिन्तयन्तं चोरम् अकस्मात् वणिक् अपि दृष्टवान् । तस्य मनसि संशयः उत्पन्नः । एषः मनुष्यः चोरः एव स्यात् । अद्य रात्रौ एषः मम गृहमेव आगचछति' इति दृडं निश्र्चित्य स पत्नीम् आहूय शनैः उक्तवान् -"भवती अद्य रात्रौ उच्च स्वरेण मां -"भवान् धनं सर्वं कुत्र स्थापितवान् अस्ति ? नगरे इदानीं चोरभीतिः वर्धमाना अस्ति इति वदतु "इति । ततः वणिक् एकस्मिन् घते कांश्र्चित् वृश्र्चिकान् स्थापयित्वा घटस्य मुखं वस्त्रेण पिधाय घटं गृहस्य पार्श्र्वे विद्यमानस्य निन्बवृक्षस्य शाखानां मध्ये स्थापितवान् । रात्रिः जाता । वणिक् भोजनादिकं समाप्य शयनम् अकरोत् । तावता सः चोरः चौर्यं कर्तुं तद्गृहसमीपम् आगत्य बहिः आत्मानं गोपयित्वा स्थितवान् । किञ्चित् काल अनन्तरं वणिजः पत्नी उच्च स्वरेण तं - "भोः भवान् धनं सर्वं कुत्र स्थापितवान् अस्ति ? अहं तु भीता अस्मि । प्रतिदिनं चौर्यवार्ता श्रूयते । नगरे चोरभीतिः अधिका जाता अस्ति" इति उक्त्वती । तदा वणिक् - "प्रिये ! मास्तु किञ्चित् अपि भयम् । अस्माकं धनं सुरक्षितम् अस्ति । चोरः आगच्छति चेत् सः गृहे किमपि न प्राप्नोति । यतः अहं धनं सर्वं घटे संस्थाप्य तं घटं निम्बवृक्षस्य उपरि स्थापितवान् । गृहात् बहिः स्थितः चोरः तयोः सम्भाषणं पुर्णं श्रुतवान् । सः मनसि एव चिन्तितवान् - "एषः वणिक् बुध्दिमान् अस्ति । गृहात् बहिः धण गोपितवान् अस्ति । किन्तु अहं तदपेक्षया बुध्दिमान् अस्मि । सर्वं चोरयामि ' इति । सः घटिति ततः निम्बवृक्षसमिपं गतवाम् । वृक्षम् आरुह्य शाखानां मध्ये स्थितस्य घटस्य आवरणं निष्कासितवान् । अन्तः हस्तं प्रसारितवान् च । अनुक्षणमेव तत्रत्याः वृक्षिकाः तम् अदशन् । सः उच्चैः विलपन् अधः पतित्वा ततः पलायनं कृतनान् । सन्देशः युगाब्दः ५१०७ कार्त्तिकमासः अक्टोबर् - २००५ प्रकृतिं यान्ति भूतानि.. हसबनीस सुरेशहरी बाल मोदिनी एकदा बिरबलः अकबरश्र्च संलपन्तौ आस्ताम् । तदा मार्जारविषये वदन् बीरबलः अवदत् - "महाराज, अस्मिन् जगति मार्जारः एकः प्राणिविशेषः यं कोऽपि शिक्षियितुं न प्रभवति । क्रिडाचक्रिणः व्याघ्रं, सिंहं,हस्तिनम्,उष्ट्र, भल्लूकं ,शकुं चापि शिक्षयित्वा तैः मनोरञ्जन कार्यक्रम कारयन्ति । किन्तु क्रिडाचक्रे मार्जारः क्रिडन् न कदापि दृश्यते शक्यः । किन्तु न तथा मार्जारः " इति । तदा अकबर् महाराजः उवाच - "सत्यं तव वचनम् । किन्तु नास्ति अशक्यं किमपि । प्रयत्नात् सर्वं साधयितुं शक्यम् इति मे भाति" इति । तदनन्तरं तौः उभौ अपि कार्यमग्नौ स्वालयं गतौ । अकबरः मनसि निश्र्चयं कृतवान् यत् केनापि उपायेन अहं माअर्जारं शिक्षयेयं , बीरबलं च पराजयेय ' इति । अन्येद्युः महाराजेन षड् श्र्वेत मार्जारं समानीताः । सेवकस्य साहाय्येन गुप्तरुपेण मार्जार प्रशिक्ष्ण कार्यक्रमः तेन समारब्धः । सेवकः तान् आनयति स्म । अर्धवर्तुलाकारम् उपवेशयितुं प्रयतते स्म । तालिकावादनं कृत्वा प्रियभक्ष्यं दुग्धं च दर्शयित्वा स तान् समाह्वयति स्म । यदा तालिकावादनं भवति तदा भक्ष्यं प्राप्यते इति अभ्यासेन मार्जाराः अपि अवगतवन्तः । ततः सेवकः उपविष्टानां मार्जाराणां मस्तकेषु ज्वालितान् दिपान् स्थापयति स्म । अकबरः तद्दिपप्रकाशे भोजनं करोति स्म । प्रायः षण्मासपर्यन्तम् एषः उपक्रमः अनुतिष्ठितः तेन । विना प्रमाद मार्जाराः यथाशिक्षितं समाचरन्ति इति अवलोक्य कदाचित् अकबरेण बीरबलः स्वीयभोजनसमये समाहूतः । आसनस्थं बीरबलम् अकबरः अवदत् - "बीरबल पश्य मे मार्जार क्रिडारङ्गम्" इति । मार्जाराः यथानुशासितं तथैव अन्वतिष्ठन् । व्यवस्थितान् स्थिरोपविष्ठान् मार्जारान् दृष्ट्वा बीरबलः अपि विस्मितः । सर्वं मार्जारकार्यं प्रशंस्य राजानं संस्तुत्य बीरबलः यदा गृहं प्रतिनिवर्तितुम् उद्युक्तः तदा अकबरेण उक्तं - "किं अशक्या मार्जार शिक्षा ? किम् प्रतिदिनं एवमेव अहं मार्जारमस्तक स्थापित दीपप्रकाशे भोजनं करोमि । पुनः कदापि आगच्छ " इति । बीरबलः परेद्यु ः एव रात्रौ राज्ञः अकबरस्य भोजनसमये अगच्छत् । राज्ञः अकबरस्य आज्ञानुसारं सेवकेन प्रज्वलिताः दीपाः तन्मस्तकेषु स्थापिताः । यदा राज्ञाभोजनम् आरब्धं तदा बीरबलेन एकः मूषकः कोषात् निष्कास्य मुक्तः । मार्जारैः पलायमानः मूषकः दृष्टः झटिति एव उत्प्लुत्य तैः सः आक्रान्तः, भक्षितः च । तेषां मस्तके स्थापिताः दीपाः परिभ्रष्टाः । एतस्मात् अकबरः संक्रुध्दः । तदा बीरबलः अकबरं सान्त्वयन् उवाच - "मूषकप्रियाः एते मार्जाराः । यावत् मूषकः न दृष्टः तावदेव एतेषां स्थिरता । प्रकृतिं यान्ति भुतानि निग्रहः किं करिष्यति इत्येतत् सत्यं गीतावचनम् " इति । सन्देशः युगाब्दः ५१०७ कार्त्तिकमासः अक्टोबर् - २००५ पश्य मे रुपाणि म. वि. कोल्हटकरः, महाराष्ट्रम् बाल मोदिनी अस्ति कश्र्चन ग्रामः । तस्मिन् ग्रामे श्रीपतिः नाम कृषीवलः वसति स्म । ग्रामे वर्तते श्रीविठ्ठलस्य मन्दिरम् । श्रीपतिः श्रीविठ्ठलः परमभक्तः अस्ति । सः प्रतिदिनं श्रीविठ्ठलस्य पूजनं करोति, भजनं करोति च । स प्रतिदिनं वदति - " श्रीविठलः मम चिन्तां कुर्यात् मम क्षेमं साधयेत् । मया किमपि कर्त्तव्यं न विद्यते । श्रीविठ्ठलः एव मम त्राता रक्षणकर्ता च" इति । अथ कदाचित् तस्मिन् ग्रामे अतिवृष्टिः सञ्जाता । समिपवर्तिनी नदी मर्यादाम् उल्ल्ङ्घितवती । अतः नद्याः जलं ग्रामं प्राविशत् । ततः भिताः जनाः पलायन्तः । सर्वत्र हाहाकारः प्रावर्तत । तथापि श्रीपतिह् ग्रामं न अत्यजत् । गृहम् अपि न अत्यजत् । स चिन्तयति 'विठ्ठलः एव मां रक्षिष्यति, मया चिन्ता करणीया नास्ति' इति । अकस्मात् एकं जीपयानम् आगतम् । ग्रामजनाः सर्वे त्वरया तस्मिन् याने उपविष्टवन्तः । जीप्यानं श्रीपतेः ग्रुहस्य पुरतः अतिष्ठत् । यानचालकः श्रीपतिं प्रार्थयत - "शीघ्रं प्रस्थीयताम् । विलम्बः विनाशाय भवेत् ।" श्रीपतिः तु यानचलकस्य प्रार्थनां तिरस्कुर्वन् अवदत् -"श्रीविठ्ठलः मम रक्षणकर्ता । सः मां निश्र्चयेन रक्षिष्यति" इति । यानचालकः निरुपायः सन् ततः अगच्चत् । जलस्तरः अवर्धत । श्रीपते गृहम् आप्लावितम् अधुना श्रीपतिः गृहस्य उपरि तिष्ठति । अकस्मात् एका नौका तत्र आगता । अवशिष्टान् जनान् नेतुं नौका प्रायतत । नौकाचालकह् कौशलेन नौकां श्रीपतेः पुरतः अथगयित्वा उच्चैह् अवदत्-"त्वरां कुरु । उद्गत्ः अस्ति जलनिधिः । प्रवृध्दः दृश्यते प्रवाह वेगः । प्रमतः वायुः । आगच्च, नौकाम् आरोह ।" "ष्रीविठ्ठलः एव मां रक्षिष्यति । अनया नौकाया किं प्रयोजनम् ?" इति अवदत् श्रीपतिः । नौका प्रतिन्यवर्तत । जलस्तरः अवर्धत । उद्गच्छन्ति वीचयः । ग्रामः आप्लुतः जातः । सर्वत्र भीषणं दृश्यम् । श्रीपतिः आत्मरक्षणार्थं वृक्षम् आरोहत् । वृक्षः अपि जलेन आक्रान्तः । कम्पमानः श्रीपतिः वृक्षस्य अग्रम् अगच्छत्, श्रीविठ्ठलस्य नाम अजपत् च । तस्मिन् क्षणे आकाशे घुई... घुई ... इति ध्वनिः प्रासरत् लघुवातयानं आकाशे भ्रमणम् अकरोत् । तत् लघुयातयानम् अधः आगतम् । यानचालकः अभणत् - "रज्जुश्रेणीम् अवलम्ब्य शीघ्रम् आगच्च । अन्यथा मरणम् अपरिहार्यं स्यात्" इति । पुनः इपि श्रीपतिना यानचालकस्य प्रार्थना अवगणिता । स पूर्वोक्तमेव वचनं पुनः अश्रावयत् । सः अवदत् - "साक्षात् श्रीविठ्ठलः आगमिष्यति । सः मां रक्षष्यति । रे यानचालक तव सेवा न आवश्यकि" इति । यानम् ऊध्र्वदेशं गच्छत् ड्रूष्टिपथात् अपागच्छत् । ततः वृक्षः अपि आप्लुतः जातः । श्रीपतिः जले न्यमज्जत्, पञ्चत्वं गतः च । परलोकं गतः श्रीपतिः श्रीविठ्ठलेन सह कलहम् अकरोत् । सः कोपेन अवदत् -"हे विठ्ठल व्य्था कृता त्वयि भक्तिः मया ।वृथा एव विश्र्वासः त्वयि निहितः । अहं वञ्चितः अभवम् । मम रक्षणं त्वया न कृतम् । अयं घोरः विश्र्वासघातः" इति । श्रीविठ्ठलः श्रीपतेः वचनं श्रुत्वा स्मयमानः अवदत् - "प्रियभक्त ,ध्वन् धावन् तव रक्षणार्थम् अहम् आगतवान् एव ।" "कथं ? कदा " -अपृच्छत् श्रीपतिः । "न एकवारम्, अपि तु त्रिवार्म् " इति अवदत् श्रीविठ्ठलः । "कथं मया भवान् न दृष्टः ?" "एकदा जीपयानं गृहीत्वा, पश्र्चात् नौकाम् आनीय, अनन्तरं लघुवातयानेन च सह अहम् आगतवान् ।" "कथं न ज्ञातं मया?" "भक्त न ते दृष्टिः उचिता । अहं केनापि रुपेण आगच्छामि । भवता अहं ज्ञातव्यः,द्रष्टव्यः,श्रोतव्यः च ।" एतत् श्रुत्वा श्रीपतिः अनुतापम् अकरोत् । अतः विद्यते महाभारते श्लोकः - न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुध्दया संयोजयन्ति तम् ॥ सन्देशः युगाब्दः ५७०७ कार्त्तिकमासः अक्टोबर्-२००५ सर्वकारेण संस्कृतस्य संवर्धनं करणीयम् इति आदिदेश उच्चन्यायालयः डा.सौ माधवी दीपक जोशी, चिपल्लूण "महाविद्यालय संस्कृतं प्रमुखविषये त्वेन पठतां छात्राणाम् संख्या प्रतिवर्षं न्युना भवति । एतम् एव अंशं निमित्तीकृत्य महाविद्यालये संस्कृत विभागस्य पिधानं छात्राणां, शिक्षिकाणां, समाजस्य वा हिताय न भवेत्" इति मुम्बयीयस्य उच्चन्यायालयस्य न्यायमुर्तिः डा. धनञ्जय चन्द्रचूडवर्यः सूवीयं निर्णयम् श्रावित-वान् एषु दिनेषु । महाविद्यालय स्नातकक्ष्यायां प्रथमे वर्षे संस्कृतं मुख्यविषये त्वेन पठन्तः पञ्चदश छात्राः भवेयुः । यदि छात्राणां सङ्खया ततोऽपि न्युनाः भवति तर्हि संस्कृत प्राध्यापकस्य वेतनस्य कृते कृते महाविद्यालयः सर्वकारीयं अनुदानं न प्राप्नोति । अतः तादृशे प्रसङ्गे महाविद्यालयः सर्वकारीयंस्य अनुदानस्य अभावात्,वेतनं दातुं महाविद्यालयस्य अनिच्छातः च संस्कृत अध्यापकः पदात् च्युतः भवति । ग्राम परीसरे तु पञ्चषाः एव संस्कृतानुरागिणः संस्कृते पठितुम् इच्छन्ति । सर्वकार्स्य नियमात् महाविद्यालयास्य असहकारात् च तादृशे स्थले संस्कृतशिक्षिणाय व्यवस्था न भवति । प्रायः एषा एव स्थितिः जागर्ति समग्रे देशे । मुम्बापुर्याः विल्सन् महाविद्यालये अपि एषा एव स्थिति कदाचित् उपस्थिता । वैशाली दाबके, तस्मिन् महाविद्यालये १९९६ तमे वर्षे व्याख्यात्री रुपेण नियुक्ता जाता । किन्तु अग्रे छात्रसङ्खयायाः न्यूनतां निमित्तीकृत्य तस्याः स्थिरनियुक्तिः निराकृता महाविद्यालयेन । महाविद्यायीयेन न्यायाधिकरेन छात्रसङ्खया न्युनतां मनसि कुर्वता महाविद्यालयीयः पक्षः एव समर्थितः । ततः विषयोऽयम् उच्च न्यायालयं प्रति नीतः । "एतादृश्यां स्थितौ सर्वकारः एव संस्कृत विषये उदारवादी भवेत्" इति मुम्बयीरेन उच्चन्यायालयेन स्वाभिप्रायः प्रकटितः । 'धनं सर्वकारसमिपे नास्ति । सर्वेषां विषयाणां साहाय्यं सर्वकारः कर्तुं न शक्नोति । जनाः यस्य विषयस्य अनुधावनं कुर्वन्ति तस्मै विषयाय एव अनुदानं दीयते' इति एतं सर्वकारस्य युक्तिवादं खण्डयता खण्डपीठेन उक्तम् - "उत्तमाना वैद्यानाम् अभियन्तॄणां च निर्माणम् आवश्यकम् एव । किन्तु तेषाम् एव निर्मणं सर्वकारस्य लक्ष्यं न स्यात् । आधुनिकतास्पर्धायां भागवहनं चिन्तयता सर्वकारेण भारतस्य प्राचीनायाः परम्परायाः संरक्षणाय सर्वकारेण एव प्रयत्न करणीयः । सर्वः अत्याधुनिकः अपि देशः स्वस्य इतिहासस्य रक्षणं करोति । प्राचीनां परम्परां संस्कृतिं च कोऽपि न परित्यजति । संस्कृतं भारतीयसंस्कृतेः अविभाज्यम् अङ्गम् अस्ति । अतः तस्य रक्षणस्य विषये उपेक्षा सर्वथा न शोभते" इति । "संस्कृतशिक्षणार्थं सपपिर्तजीवनाः ध्येयवादिनः प्राद्यापकाः विरलाः तेषां विषये सर्वकारस्य उपेक्षा न स्यात् । तेषां वेतनार्थम् अनुदान दानस्य व्यवस्थायाः स्थगनं यथा न स्यात् तथा सर्वाकारेण सामञ्जस्य प्रवृत्तिः दर्शनीया" इति तेन खण्डपीठेन सर्वकारः बोधितः अस्ति ।