मत्स्यत्रय -कथा कस्मिंश्चित् जलाशये अनागतविधाता, प्रत्युपन्नमतिः यद्भविष्यश्चेति त्रयः मत्स्याः अवसन् । कदाचित् तं जलाशयम् अवलोक्य धीवराः परस्परम् अवदन् - "अस्मिन् जलाशये बहवः मत्स्याः अस्न्ति । प्रभाते अस्माभिः अत्र अवश्यम् एव आगन्तव्यम् ।" "एतादृशं निश्चयं कृत्वा ते अगच्छन् । तदनन्तरं तेषां वचनं श्रुत्वा तेषु मत्स्येषु अनागतविधाता नाम मत्स्यः अकथयत् - "श्वः प्रभातसमये ते धीवराः अत्र आगमिष्यन्ति सर्वान् च मत्स्यान् जाले बद्ध्वा नेष्यन्ति । अतः अहम् अन्यत्र गमिष्यामि ।" एतत् आकर्ण्य प्रत्युत्पन्नमतिः नाम मत्स्यः अवदत् - "त्वया सम्यग् आलोचितम् । अहम् अपि त्वया सह गमिष्यामि । " तस्य वचनं श्रुत्वा यद्भविष्यः नाम मत्स्यः उच्चैः विहस्य अकथयत् -" न् सम्यगेतत् यतः तेषां धीवराणां कथनमात्रेण एतस्मात् जलाशयात् अन्यत्र गन्तुमिच्छतः । अहं तु अत्र एव स्थास्यामि ।" अथ यद्भविष्यस्य निश्चयं ज्ञात्वा अनागत्यविधाता प्रत्युपन्नमतिः च अन्यत्र अगच्छताम् । प्रभाते धीवराः तत्र आगच्छन् यद्भविष्यम् अन्यान् च सर्वान् मत्स्यान् जाले बद्ध्वा अनयन् । तथा च उक्तम् - अनागतविधाता च प्रतुत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनष्यति ॥