मल्लेश्वरी सिडनीनगरे २००० तमे वर्षे ओलम्पिकप्रतिस्पर्धासु सितम्बरमासस्य विंशतिततम्यां तारिकायां भारोत्तोलने कांस्यपदकम् अलभत् । अस्मिन् अवसरे भारतदेशस्य प्रधानमन्त्री श्री अतलबिहारी वाजपयी दूरभाषेण सिडनीनगरे मल्लेश्वरीमकथयत् - "त्वमसि भारतदेशस्य गौरवम् ।" एतत् श्रुत्वा कस्य जनस्य रोमहर्षणं न संजायते ? इयं भारतीया नारी १९७५ तमे वर्षे जूनमासस्य प्रथमतारिकायाम् आन्ध्रप्रदेशे नन्दलूर्नामके स्थाने अजायत । अस्याः पितुः नाम करनमनोहरः मातुश्च नाम श्यामला अस्ति । माता श्यामला अस्याः सदैव उत्साहसंवर्धनमकरोत् । यदा इयं भारोत्तोलनस्य अभ्यासं करोति स्म तदा सा स्वसुतायाः भोजनस्य समुचितां व्यवस्थामकरोत् । यदा मल्लेश्वरी नववर्षीया आसीत् तदा प्रभृति एषा अमूदवलासानगरे उसावनीपेराग्रामे भारोत्तोलनस्य अभ्यासं प्रारभत । नीलमसेट्टी आपन्ना अस्याः प्रशिक्षकः आसीत् । रूसदेशीयः अस्याः अपरः प्रशिक्षकः रियाबोंको भारोत्तोलने अस्याः रुचिम् एकाग्रतां च भृशं प्राशंसत् । एकदा सा भारोत्तोलनप्रसंगे जवाहरलालनेहरूक्रीडाप्राङ्गणमगच्छत् । तत्र तस्या परिचयः एकेन् भारोत्तोलकेन राजेशत्यागी नामकेन युवकेन सह अभवत् । तेन् सह अस्याः परिणयः अभवत् । इत्थम् आन्द्रप्रदेशस्य सुता हरियाणा-प्रदेश्स्य वधूः संजाता । १९९० तमे वर्षे उदयपुरे युवककनिष्ठराष्ट्रियस्पर्धासु सा रजतपदकं लब्धवती । १९९२ तमे वर्षे तुर्कीदेशे विश्वचैम्पियनप्रतिस्पर्धासु द्वौ स्वर्णपदकौ एकं च रजतपदकंलब्धवती । १९९४ तमे वर्षे सा चीनदेशे त्रीन् स्वर्णपदकान् लब्धवती । अस्मिन्नेव वर्षे कोरियादेशेऽपि सा त्रीन् स्वर्णपदकान् अलभत् । अधुना सा भार्तीयखाद्यनिगमे उपप्रबन्धकलङ्करोति । २००० तमे वर्षे सिडनीनगरे ओलम्पिकक्रीडासु कांस्यपदकं लब्ध्वा एषा एतादृशी प्रथमा भारतीयमहिला संजाता । वयमपि एतामनुकुर्वन्तः देशस्य गौरवं संवर्धयितुं प्रयतेमहि ।