महात्मा गान्धी महात्मनः गान्धिनः जन्म १८६९ तमे वर्षे अक्तूबरमासस्य द्वितीयायां तारिकायाम् गुजरातप्रदेशे पोरबन्दरनाम्नि नगरेऽभवत् । अस्य पितुः नाम "करमचन्दगान्धी" मातुः च नाम "पुतलीबाई" आसीत् । बाल्यकाले स अतीव सरलः सत्यवादी चासीत् । स पोरबन्दरे एव प्राथमिकीं शिक्षाम् अलभत् । एकदा तस्य विद्यालये एकः निरीक्षकः आगच्छत् । सः छात्रान् परीक्षितुं "कैटल" इति आंग्लभाषायाः शब्दं लेखितुमादिशत् । मोहनदासः तं शब्दमशुद्धम् अलिखत् । तदा तस्य अद्यापकः अन्यस्य समीपस्थस्य छात्रस्य पुस्तिकां दृष्ट्वा तस्य शब्दस्य वर्णविन्यासम् अनुकर्तुं तं संकेतेनाकथयत् । परं तेन एतद् नाचरितम् । यदा स उच्चशिक्षायै इंग्लैण्ड-देशमगच्छत् तदा सः प्रतिज्ञात्रयमकरोत् - १. अहं कदापि मदिरां न सेविष्ये । २. अहं मासं न भक्षयिष्यामि । ३. परनारीं मातृतुल्यामवगमिष्यामि । सः जीवनपर्यन्तम् एतानि प्रतिज्ञावचनानि अक्षरशः अपालयत् । इंगलैण्ड-देशे "बैरिस्टर" इत्युपाधिं प्राप्य स्वदेशं प्रत्यागच्छत् । भारतमागत्य सः अहिंसामवलम्ब्य स्वदेशस्य स्वतन्त्रतायै प्रयत्नशीलोऽभवत् । एतदर्थं सः असहयोग-आन्दोलनं प्रावर्तयत् । सः अनेकवारं सत्याग्रहमकरोत् । "आंग्लीयाः ! भारतं त्यजत् ।" इति आन्दोलनमपि प्रारभत । आंग्लीयाः बहुवारं तं कारागारे अक्षिपन् । अस्य महापुरुषस्य प्रयत्नैः भारतं स्वतन्त्रमभवत् । महात्मना गान्धिना धर्मविषये आचारविषये च बहु लिखितम् । परं "सत्यस्य मम प्रयोगः" इति शीर्षकेण आत्मकथा श्रीमदभगवद्गीतायाश्च अनासक्तिनामकं भाष्यम् इति रचनाद्वयं महत्त्वपूर्णमस्ति । एषः महापुरूषः "राष्त्रपिता" इतिभिधानमपि प्राप्तवान् । १९४७ तमे वर्षे जनवरीमासस्य त्रिंशत्तम्यां तारिकायां एकस्य घातकस्य गुलिकया आहतो भूत्वा "हे राम" इत्युच्चारयन् सः स्वदेहम् अत्यजत् ।