महर्षि रमणः ************************** १८७९ तमे वर्षे दिसम्बरमासस्य नवविंशतितम्यां तारिकायां रात्रौ एकवादनवेलायां तिरुचुलीनाम्नि ग्रामे वेंकटरमणस्य जन्म अभवत् । श्रीसुन्दरम् अय्यरमहोदयः तस्य पिता अलगम्मलमहोदया च तस्य माता आसीत्। यदा वेंकटरमणः षड्वर्षीयः आसीत् तदा असौ पत्रचिल्लस्य पत्रतरणेश्च निर्माणे विधिव्यवहारपत्राणां गुच्छकस्य उपयोगं कृतवान् । एतस्य क्रीडाकृत्यस्य कृते स मातृपितृभ्यां तर्जितः। दुःखितः सन् सः श्रीसहायवल्लीमन्दिरे प्रतिमान्तरितो भूत्वा अतिष्ठत्। न कोऽपि तमन्वेष्टुं सफलोऽभवत् । संध्यासमये यदा मन्दिरे आरात्रिकम् अभवत् तदा दीपस्य प्रकाशे पूजकाः प्रतिमायाः समीपे तमपश्यन् । नूनं वेंकटरमणेन स्वदुःखहरणाय जगज्जननी प्रार्थिता । यदा वेंकटरमणो द्वादशवर्षीयः आसीत् तदा तस्य पिता सुन्दरम् अय्यरमहोदयः दिवंगतः । स मदुरईनगरे स्वपितृव्यस्य श्रीसुब्बा -अय्यरमहोदयस्य गृहमगच्छत् । एकदा सप्तदशवर्शीयो वेंकटरमणः गृहस्य प्रथमे तले आस्त । तदा स अकस्मात् मृत्युभयेन आक्रान्तोऽभवत्। अन्तर्मुखो भूत्वा असौ अचिन्तयत्-"अधुना मृत्युः आगतः। अस्य कोऽर्थः? शरीरमेव मियते। " तदा मृत्युमभिनीय स शववत् भूमौ अशेत अचिन्तयच्च-"मृतशरीरं श्मशानं नीयते तत्र अस्य अग्नि संस्कारः क्रियते । किमहमपि शरीरेण सह मृत्युं प्राप्स्यामि?" तदा सः अन्वभवत् यत् सः शरीरात् पृथक् आत्मरूपेण वर्तते । एतस्माद् अनुभवात् अनन्तरं वेंकटरमणः आत्मचिन्तनमकरोत् । सप्तदशवर्षीयः वेंकटरमणः गृहाद् निष्क्रम्य तिरुवन्नमलाईप्रदेशे अरुणाचलम् अगच्छत् । तत्र अरुणाचलेश्वरमन्दिरे भगवतः अरुणाचलेश्वरस्य समक्षं सः सर्वं त्यक्तवान्। आत्मचिन्तनं कुर्वन् मौनं धारयन् साधकानां च आत्मविषयकप्रश्नान् समादधन् असौ ओंकारकारायां विरूपाक्षगुहायां सप्तदशवर्षाणि अवसत् । अत्रैव मुनिः काव्यकण्ठगणपतिः नयन इति अपरनामा तस्य सान्निध्यं प्राप्नोत्। भगवान् महर्षिरमण इति वेंकटरमणस्य नूतनं नामकरणं नयनमुनिना कृतम्। अत्रैव तस्य माता अलगम्मलमहोदया तेन सह वस्तुम् अगच्छत्। १९१६ तमवर्षतः १९२२ तमवर्षपर्यन्तं भगवान् महर्षिरमणः अरुणाचलस्य दक्षिणपूर्वभागे स्कन्दस्वामिना निर्मिते स्कन्दाश्रमे स्व मात्रा सह न्यवसत्। १९२२ तमे वर्षे मईमासस्य एकोनविंशतितमे दिवसे तस्य माता रुग्णा अभवत् महासमाधिं च अलभत । प्रातःकाले तस्याः अस्थिशेषाः अरुणाचलस्य दक्षिणभागवर्तिन्याम् उपत्यकायाम् आनीताः। अधुना अत्रैव महर्षिरमणस्य आश्रमो विद्यते । अप्रैल मासस्य चतुर्दश्यां तारिकाआं १९५० तमे वर्षे भगवान् महर्षिरमणः महासमाधौ प्राविशत्। भगवतो महर्षेः रमणस्य उपदेशः आसीत् यत् वयं सर्वे ’कोऽहम्’ इति प्रश्नस्य चिन्तनं समाधानं च कुर्याम । एतदेव चिन्तनम् अन्तःकरणस्य शुद्धिं कुर्वत् आत्मनः साक्षात्कारं कारयति। भयदुःखसंकुलेऽस्मिन् जगति महर्षिरमणस्य उपदेशः अस्मभ्यं सर्वेभ्यः शान्तिं वितरति। तिरुवन्नमलाईप्रदेशे महर्षिरमणस्य आश्रमः, विरूपाक्षगुहा, स्कन्दाश्रमः, अरुणाचलेश्वरमन्दिरश्च एतादृशानि स्थानानि सन्ति यत्र स्थित्वा जनाः मनसि शान्तिमनुभवन्ति । ओम् नमो भगवते श्रीरमणाय ।