किम् न साध्यम् अभ्यासेन चैत्रमासः-२००५ मिथिलानगरे हरिसिंहदेवः नाम महाराज आसीत् । सः उत्तमः प्रशासक: इति प्रसिद्धः आसीत्। हरिसिंहदेवः कलानां पोषकः अपिः। स: कदाचित् किञ्चित् वीअता प्रदर्शन कार्यक्रमम् आयोजितवान् तं कार्यक्रमं द्रष्टुं राज्यस्य सुदूरेभ्य: अपि स्थानेभ्यः बहवः जनाः मिथिलानगरं सम्प्राप्ता:। मिथिलाया: समीपे एव हनुमत्पुरं नाम ग्राम आसीत् । तत्र पाल: नाम ब्राह्मणः निवसति स्म। तस्य चतस्रः पुत्र्यः आसन्। पालः चतसृभि: अपि पुत्रीभि: सह कार्यक्रमं द्र्ष्टुं मिथिलानगरं आगतवान्। कार्यक्रमदिने नगरं विशेषतया अलङ्कृतम् आसीत्। राजभवनस्य प्राङ्गणे विशालं वितानं कल्पितं आसीत् । प्रदर्शनं द्रुष्टुम् उत्सुका: सहस्राधिकाः जना: तत्र सम्मिलिता:। निश्चिते समये महाराजः हरिसिंहदेवः समागत्य आसने उपविष्टवान् । तस्मिन् दिने किशोरचौधरीनामकस्य मल्लस्य वीरताप्रदर्शनं निश्चितं आसीत् । सः पुरतःआगत्य: महाराजं नमस्कृत्य स्थितवान्। तदा चत्वार: राजभटा: महता कष्टेन महान्तम् एकम् लोहदण्डं तत्र आनीय स्थापितवन्त:। तत्पश्चात् किशोरचौधरी लीलया एव तम् लोहदण्डम् उत्थाप्य स्कन्ध उपरि निधाय तद् क्षेत्रं पतित: चतुर्वारं धावितवान्। सर्वे अपि प्रेक्षकाः तस्य तादृशं सामर्थ्यं दृष्ट्वा विस्मिता: अभवन्। महाराजः अपि तं साधुवादै: अभिनन्दितवान्। ततः तस्मै उपायनरुपेण भूरि धनमपि दत्त्वा उक्तवान्- "भोः मल्ल! भवान् प्रतिवर्षम् अत्र आगत्य एतादृशं साहसप्रदर्श्नं करोतु" इति। महाराजस्य वचनं श्रुत्वा प्रेक्षकगणे उपविष्टा अष्टवर्षीया पालस्य कनिष्ठा पुत्री उत्थाय उक्तवती -" भोः महाराज! तादृशं महत् कार्यं किं कृतम् अनेन? एतत् तु अभ्यास्य विषयः। अभ्यासेन मानवः किमपि साधयितुं शक्नोति" इति"। बालिकायाः वचनं श्रुत्वा महाराजः नितरां क्रुद्धः अभवत्। सः आज्ञां कॄतवान यत् -"एषा बालिका राज्यात् निष्कासनीया" इति। पालः एतेन नितरां दु:खितः अभवत् । परन्तु सा बालिका पितरं सन्तोषयन्ती उक्तवती- " तात! एष: मूढः महाराजः अद्य मम वचनं न अङ्गीकरोति । मा अस्तु चिन्ता। अहं प्रतिज्ञां करोमि यत् एकदा स्वकीयेन अभ्यासबलेन अस्मिन् एव क्षेत्रे महत् बलप्रदर्शनं कृत्वा महाराजम् आश्चर्यचकितं करिष्यामि" इति। सा ततः मिथिलानगरं परित्यज्य पाटलिपुत्रं गतवती । तत्र नगरात् बहि: एकं लघुकुटीरं निर्माय भिक्षावृत्त्या जीवनं करोति। कालान्तरे सा भिक्षया प्राप्तेन धनेन एकां महिषीं क्रीत्वा आनीतवती । तस्यै प्रतिदिनं तृण आदिकम् आहारं ददाति । सायङ्काले दुग्धदोहनं कृत्वा नगरे विक्रयणं करोति। तेन एव जीवनयापनं च करोति। गच्छता कालेन सा महिषी पुत्रं एकम् अजनयत्। तत: आरभ्य सा बालिका प्रतिदिनमपि तं बालमहिषं स्कन्धे निधाय धावनस्य अभ्यासं करोति। वर्षत्रयानन्तरं सः विशालकायः महिष: अभवत्। इदानीम् अपि बालिका विना आयासं तं स्कन्धे निधाय धावति। पुनः कदाचित् सा महिषम् आदाय मिथिलानगरम् आगतवती तस्मिन् अवसरे एव तत्र प्रतिवर्षम् इव वीरताप्रदर्शनम् आयोजितम् आसीत्। बालिका कथम् अपि तत्र स्वीयबलप्रदर्शनाय अनुमतिं प्राप्तवति उपस्थिते जनसमूहे उपस्थिते च राजपरिवारे बालिका अग्रे आगत्य झटिति तं महामहिषम् उत्थाप्य स्कंधे निधाय तत् क्षेत्रं परितः पञ्चवारं धावितवती । तथा अपि तस्य मुखे श्रान्तेः चिन्हम् अपि न दृष्टम् । एतद् दृष्ट्वा नितरां विस्मृतः महाराजः हरिसिंहदेवः आसनात् उत्थाय उक्तवान् " अहो आश्चर्यम् अति आश्चर्यं प्रदर्शनम् इदम्। अद्यावधि मया इदृशं प्रदर्शनं कदापि नैव दृष्टम् । अतः निश्चितरुपेण अपि इयं बालिका सम्माननीया " इति। ततः सः सममहिषभारेण धनेन तस्याः बालिकायाः सम्मानम् अकरोत्। बालिका अपि स्वप्रतिज्ञापूर्त्या सन्तुष्टा अभवत्। ॥ इति शम्॥