***************************************************************************** ४- केवलं कल्पितं सुखम् ****************************************************************************** एकः भिक्षुकः आसीत् । सः प्रतिदिनं भिक्षाटनं करोति स्म । भिक्षया सञ्चितेन धनेन सः गोधूमचूर्णं क्रीणाति स्म । सः अतीव कृपणः आसीत् । अतः तत् चूर्णम् अभुक्त्वा एकस्मिन् मृद्घटे सञ्चिनोति स्म् । एषः घटः तस्य शय्यायाः पार्श्वे एकस्मिन् नागदन्ते लम्बमानः आसीत् । एकदा सः शय्यायां लम्बायमानः अचिन्तयत्-"शीघ्रमेव गोधूमचूर्णेन अहं घटं पूरयिष्यामि । चूर्णपूरितं घटं हट्टं नेष्यामि । तत्र सम्पूर्णं चूर्णं विक्रेष्यामि । तेन प्रभूतं धनम् आगमिष्यति । तेन धनेन एकां धेनुं क्रेष्यामि । धेनोः पर्याप्तं दुग्धं भविष्यति । दुग्धस्य बिन्दुमपि विना मूल्येन कस्मै अपि न दास्यामि । सर्वं दुग्धं विक्रेष्यामि । दुग्धस्य विक्रेयेण यत् धनम् आगमिष्यति तेन एकं सुन्दरं भवनं निर्मास्यामि । ततः विवाहं करिष्यामि । सुखेन निवसिष्यामि ।" भिक्षुकः अग्रे अचिन्तयत्-"कदाचित् मम भार्या स्वपितृगृहं गन्तुं वदिष्यति । अहं निषेधं करिष्यामि । सा अधिकं अनुनयं करिष्यति, वारं वारं तदर्थं वदिष्यति । अहं क्रुद्धः भविष्यामि । क्रोधेन अहं ताम् अबाध्यां पत्नीं पादेन ताडयिष्यामि ।" एवं विचिन्तयन् सः भिक्षुकः तत् चूर्णपूरितं घटमेव पादेन अताडयत् । मृद्घटः भग्नः गोधूमचूर्णं च भूमौ विक्षिप्तम् । काल्पनिकस्य सुखस्य मूलमेव नष्टम् । एवमेव निरूद्यमस्य जनस्य केवलं कल्पितं सुखं दुःखाय एव भवति । उक्तं हि- उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।