**काश्मीरप्रदेशम्** को न जानाति काश्मीरप्रदेशम् ? एतत् भारतवर्षस्य गौरवम् अस्ति । अस्य उत्तरपूर्वभागे 'लद्दाख' अस्ति । एषः देशस्य सीमाप्रदेशः । भारतीयसैनिकाः अत्र साहसेन सीमां रक्षन्ति । हिमालयः अपि सैनिकः इव अस्य रक्षां करोति । काश्मीरस्य रमणीयं सौन्दर्यं कस्य चित्तं न हरति । अत्र मधुरं जलं, स्वास्थ्यकरः वायुः, स्वादूनि फलानि, नानावर्णानि पुष्पाणि, सुन्दराणि उद्यानानि जनानाम् चित्तं मोहयन्ति । उद्यानेषु 'शालीमार-निशात' इति द्वे उद्याने प्रसिद्धे मनोरमे च स्तः । काश्मीरप्रदेशे 'जम्मू' प्राचीनं नगरम् अस्ति । एषः काश्मीरस्य शीतकालीना राजधानी अस्ति । श्रीनगरम् तु ग्रीष्मकालीना राजधानी । वितस्ता-नद्याः तटे शोभते इदं नगरम् । 'डललेक' इति विशालः तडागः अस्ति । अत्र जनाः 'शिकारा' इति नौकया जलविहारं कुर्वन्ति प्रसन्नाः च भवन्ति । अत्र अनेकानि तीर्थस्थानानि सन्ति । अमरनाथ-मन्दिरम् तु संसारे प्रसिद्धम् । रक्षाबन्धनदिवसे तत्र हिमस्य शिवलिङ्गं जनाः पश्यन्ति धन्याः च भवन्ति । काश्मीरस्य जनाः गौरवर्णाः सुन्दराः कोमलाः च भवन्ति । ते विविधासु कलासु कुशलाः सन्ति । ते हस्तकौशलैः वस्त्राणि काष्ठवस्तूनि च चित्रमयानि कुर्वन्ति । भारते सर्वाधिकं 'केसरम्' अत्र एव भवति । अत्र जनाः केसरचायम् अपि पिबन्ति । मंगलकार्येषु केसरतिलकम् अपि महत्त्वपूर्णम् अस्ति । अतः न अस्ति कः अपि सन्देहः यत् काश्मीरं नूनम् स्वर्गतुल्यम् एव । पर्यटकाः अत्र आगच्छन्ति स्वयात्रां च सफलां कुर्वन्ति ।