कालियदमनम् *********************** (ततः प्रविशन्ति गोपकन्यकाः) सर्वाः - (दामोदरं प्रति ) मा खलु मा खलु भर्तः ! एतं जलाशयं प्रवेष्टुम् । एष खलु दुष्टमहोरगकुलावासः। दामोदरः -न खलु न खलु विषादः कार्यः। पश्यन्तु भवत्यः। सर्वाः -भर्तः ! संकर्षण ! वारय वारय भर्तृदामोदरम्। (प्रविश्य) संकर्षण - अलमलं भयविषादाभ्याम्। दर्शितोऽनुरागः। पश्यन्तु भवत्यः। सर्वाः - हं भर्तृदामोदरोऽपि तादृश एव। दामोदरः - सर्वप्रजाहितार्थं द्रुततरं नागं मे वशं करोमि। (इति ह्रदं प्रविष्टः) सर्वाः - हा हा धूम उत्थितः। दामोदरः -अहो ह्रदस्य गाम्भीर्यम्(इत्युक्त्वा निष्क्रान्तः) (ततः प्रविशति वृद्धगोपालकः) वृद्धगोपालकः - हा भर्तः! एष कन्यकाभिः वार्यमाणो यमुनाह्रदं प्रविष्टः । मा खलु मा खलु साहसं कृत्वा प्रवेष्टुम् । अत्र व्याघ्रा वराहा हस्तिनः पानीयं पीत्वा तत्रैव म्रियन्ते । कथं न दृश्यते? किमिदानीं करोमि? भवतु, इमं तावत् कुम्भपलाशमारूह्य निध्यायामि। हा हा धूम उत्थितः। संकर्षणः - पश्यन्तु भवत्यः - दामोदरोऽयं परिगृह्य नागं विक्षोभ्य तोयं च समूलमस्य। भोगे स्थितो नीलभुजङ्गमस्य मेघे स्थितः शक्र इवाभाति॥ वृद्धगोपालकः- ही ही साधु भर्तः! साधु! (ततः प्रविशति कालीयं गृहीत्वा दामोदरः) सर्वाः - आश्चर्यं भर्तः। आश्चर्यम्। कालियस्य पञ्च फणान् आक्रामन् हल्लीसकं प्रक्रीडति। दामोदरः -कालिय! ते शक्तिरस्ति , दह्यतां ममैको भुजः। कालियः - हं तिष्ठ इदानीम्, एष त्वां भस्मीकरोमि। (विषाग्निं मुञ्चति) दामोदरः -हन्त दर्शितं ते बलम्। कालियः -प्रसीदतु प्रसीदतु भगवान् नारायणः। दामोदरः -अनेन बलेन भवान् गर्वितः। कालियः -प्रसीदतु भगवन् ! अज्ञानाद् अतिक्रान्तवान् , सान्तःपुरः शरणागतोऽस्मि। दामोदरः-कालिय! किमर्थमिदानीं यमुनाहृदं कालियः - भगवतो वरवाहनाद् गरुङाद् भीतोऽहमस्मि प्रविष्टोऽस्मि। तदिच्छामि गरुङादभयं भगवत्प्रसादात्। दामोदरः -भवतु भवतु। मम पादेन नागेनद्र! चिन्हितं तव मूर्धनि। सुपर्ण एव दृष्ट्वेदमभयं ते प्रदास्यति॥ कालियः - अनुगृहीतोऽमि। दामोदरः - प्रविशतु भवान्। कालियः -यदाज्ञाप्यति भगवान् नारायणः। दामोदरः - अथवा एहि तावत्। कालियः -भगवन्! मद्विषदूषितम् इदं जलं। तदिदानीमेव विषं संह्रत्य यमुनाह्रदाद् निष्क्रामामि। दामोदरः -प्रतिनिवर्ततां भवन्। कालियः - यदाज्ञापयति भगवान् नारायण (सपरिजनो निष्क्रान्तः) \\