जयतु भारतम् भारतम् अस्माकं देशः अस्ति । अस्य उत्तरदिशायां पर्वतराजः हिमालयः मुकुटमणिः इवास्ति । दक्षिणदिशायां हिन्दमहासागरः भारतस्य चरणौ प्रक्षालयति । पूर्वदिशायां बङ्गोपसागरः पश्चिमदिशायाम् अरबसागरः स्तः । अत्र गंगा, यमुना, नर्मदादयः नद्यः प्रवहन्ति । हरितानि कृषिक्षेत्राणि, सुदीर्घाः पर्वतमालाः, विशालानि वनानि प्रभूताः खनिजपदार्थाः चास्य देशस्य समृद्धि प्रकटयन्ति । भारतं बहुप्राचीनः देशः अस्ति । अत्र हि विश्वप्रसिद्धाः वेदाः, पुराणानि, रामायणम्, महाभारतम्, आयुर्वेदादयः ग्रन्थाः रचिताः आसन् । अस्मिन् देशे वाल्मीकि कालिदासादयः महाकवयः आसन् । पद्मिनी-लक्ष्मीबाईसमानाः वीराङ्गनाः गान्धी-सुभाषादयः राष्ट्रनायकाः चासन् । आर्यभट्ट-जगदीशचन्द्रबसु सदृशाः वैज्ञानिकाः, विवेकानन्द-दयानन्दतुल्याः संस्कारकाः अपि अत्रैव अभवन् । इदानीम् अपि भारतीयाः विविधेषु क्षेत्रेषु अग्रेसराः सन्ति । भारते अनेके मुनयः अभवन् । तेषां मुनीनाम् अध्यात्मविद्यायां निविष्टं ज्ञानम् आसीत् । 'सत्यमेव जयते' भारतस्य आदर्शवाक्यम् अस्ति । अस्य राष्ट्रियः ध्वजः 'त्रिरङ्गम्' अस्ति । 'जनगणमन' एतस्य राष्ट्रगानम् 'वन्दे मातरम्' राष्ट्रगीतम् च अस्ति । भारतस्य राजधानी 'दिल्ली' अस्ति । भारते अनेकतायाम् एकता अस्ति । एतत् भारतवर्षं विश्वे जयतु ।