जयति एकबुद्धिः कस्मिंश्चित् जलाशये द्वौ मीनौ निवसतः स्म- एकः शतबुद्धिः अपरः सहस्रबुद्धिः च । तयोः एकबुद्धिर्नाम मण्डूकः मित्रमासीत् । ते त्रयोऽपि प्रतिदिनं कञ्चित् कालं परस्परं वार्तालापस्य सुखम् अनुभवन्ति स्म । एकदा सूर्यास्तसमये केचन धीवराः जलाशयस्य तटम् आगतवन्तः । तेष्वेकः अवदत्- "अहो! अस्मिन् जलाशये बहवः मीनाः सन्ति जलं स्वल्पं च । अतः प्रभाते आगत्य सर्वान् नेष्यामः ।" एवं विचार्य ते स्वगृहमगच्छन् । एवं श्रुत्वा तानि मित्राणि मिथः विचारमकुर्वन् । मण्डूकोऽवदत्-"भो शतबुद्धे! श्रुतं धीवरोक्तं भवता ? तत् किमत्र करणीयम्- पलायनम् अथवावस्थानम् ? यदुचितं तदद्य एव कर्तव्यम् ।" एतत् श्रुत्वा सहस्रबुद्धिः विहस्योक्तवान्- "भो मित्र ! न भेतव्यम् । अहं जले पलायनस्य बहुविधं कौशलं जानामि । यदा धीवराः आगमिष्यन्ति तदाहं त्वामपि बुद्धिबलेन रक्षयिष्यामि ।" तत् आकर्ण्य शतबुद्धिरकथयत् -"भोः ! साधु उक्तं भवता । जन्मस्थानं विहाय नान्यत्र गन्तव्यम् ।" मण्डूकोऽवदत् -"भद्रौ ! मम तु एका एव बुद्धिः । सा इदानीं पलायनम् इच्छति । अतोऽहम् अद्यैव भार्याया सह अन्यं जलाशयं गच्छामि ।" धीवराः अपि प्रभाते आगतवन्तः । ते मत्स्यान्, कूर्मान्, मण्डूकान् कर्कटादीन् च जलचरान् गृहीतवन्तः । पलायने विफलौ शतबुद्धिः सहस्रबुद्धिश्च धीवराणां जाले पतितौ धृतौ च । इदानीं शतबुद्धिः धीवरस्य मस्तके वर्तते सहस्रबुद्धिः तस्य हस्ते लम्बते च । एतद् दृष्ट्वा एकबुद्धिः मण्डूकः स्वप्रियां वदति- प्रिये ! पश्य पश्य ।