सन्देशः युगाब्दः ५१०७ वैशाखमासः मे - २००५ गतिरोधक् खेमराज नेपालः कथा बुढीगाड, असम् - ६८४१७६ क्रिं.......क्रिम् इति डुरभाषशब्देन उपमण्डलाधिकारिणः प्रकोष्ठः शब्दायमानः जातः । अभ्यासबलेन दक्षिणेन हस्तेन अधिकारी ध्वनिग्राहिकाम् उत्थाप्य उक्तवान् _ "हरिः ओम अहम् उपमण्डलाधिकारी वदन् अस्मि" इति । "श्रीमन् नमस्कारः अहम् राजकीय महाविद्यालयस्य शिक्षककर्मकरसङ्स्य सचिवः वदन् अस्मि" - प्रतिपक्षतः उत्तरम् आयाति । " "नमस्कारः ,वदतु ..." - उपमण्डलाधिकारी अभाषतः । "महाशय दुःखेन भवन्तं सूचयामि यत् सः बालकः मृतः अस्ति । "श्रुतम् ...।अस्ति किं भवतः अस्मिन् विषये कथनीयम् ?" "श्रीमन् न खलु अहं किमपि वक्तुम् इच्छामि ।..... भवान् एव चिन्तयतु अस्मिन् विषये भवता करणियम् अस्ति न वा इति ।" "मया करणियम्....? "आम्" "मया किं करणियम् अस्ति ? भवान् किं वक्तुम् इच्छति ? को वा भवतः अभिप्राय? " "महाशय भवतः कार्यानेन प्राप्ताघातः बालकः यदा मृतः अस्ति तदा भवता किमपि करणियम् अस्ति न वा इति भवानेव विचारयतु " "मम कार्यानस्य आघातः एव बालकस्य मृत्योः कारणम् इति कथं भवता उच्यते ? अपि दृष्टं भवता ?... "न खलु " "तर्हि ?..... श्रृणोतु याथातथ्यम् । यानभयात् पलायनं कुर्वन् सः बालकः पतितः जातः । तस्य चिकित्सार्थम् अहमेव तम् उत्थाप्य चिकित्सालयं नीतवान् आसम् । तत्र वैद्याः तं परीक्षितवन्तः । यदा ते 'न खलु गुरुतरुपेण आहतः अस्ति' इति उक्तवन्तः तदा एव अहं ततः प्रस्थितवान् । तदनन्तरं यदि सः मरिष्यति तत्र मया वा किं करणियं भवति ? भवान् कस्य पुरतः एतत् सर्वं वदन् अस्ति ? यदि मम कार्यानेने एव मारितः इति भवतः विचारः विश्र्वासः वा तर्हि यथेच्छम् गच्छतु वा...." "श्रीमन् क्षतव्यः मम अपराधः ...... भवान् प्रशासकः ,अस्मकं पालकः । अस्माकं विपत्तौ भवानेव सहायकः । अतः भवानेव अस्माकं कृते न्यायालयः इति तु अस्माभिः स्वप्नेऽपि न चिन्तनीयः विषयः । भवतः यानम् एव तस्य बालकस्य मृत्योः कारणम् इति यदि भवान् न स्विकरोति तर्हि न्यायालयेन वा किम् ? अलं विवादेन । अलं साक्षिप्रमाणादिभिः श्रीमन् न एषः समयः तर्कस्य । न च मम एषः अनुरिधः यत् कृपया भवान् अत्र आगमनस्य कष्टं स्वीकरोतु ...। पुत्र षोकसन्तप्तं द्वारपालकं समवेदना ज्ञापयामः इति । दुर्घटना किल दुर्घटना एव । यत् भवितव्यं आसित् तदेव अभवत् ।.... नास्ति उपायः....।" "किम् उक्तं भवता ? मया द्वारपालकस्य गृहं गन्तव्यं इति ?.... भवान् माम् किं वा भावयति ..? ... स्थगयतु भवतः भाषणम् । " "महाशय उद्विग्नः मा भवतु । भवानेव यदि अनेन प्रकारेण उत्तेजितः भवतिः तर्हि सामान्यजनस्य का दशा भवेत् ? वयं तु भवतः प्रजा एव । प्रजापालनम् एव भवतः कर्तव्यं । अतः एव पालकरुपेण अपि भवान् तत्र गन्तुम् अर्हति । भवतः पदार्पणेन पुत्रशोकानलदग्धस्य तस्य ह्रदयं नूनम् उपशान्तं भवति इति अस्माकम् आशयः । तदेव भवतु वैद्यस्य प्रतिवेदनं ,तस्य ह्र्दये तु कार्यानस्य आघातः एव पुत्रस्य मृत्योः कारणम् इति भावना दृढतरा जाता अस्ति । इयमेव भावना लोकापवादस्य हेतुः अपि भवति । अतः मानवियदृष्ट्या अपि समवेदनां ज्ञापयितुं भवतः आगमनम् उचितम् इति अस्माकं विचारः ।" "सचिवमहोदय नाहं भवतः मानवतायाः पाटम् अपेक्षे । अन्यं कञ्चित् उद्दिश्य करोतु मानवतायाः मानवीयमूल्यबोधस्य व पाटनम् । न माम् । हं.. यदि भवान् इच्छति तर्हि मृतकस्य संस्कारार्थम् आर्थिकानुदानं याचतु । तदुचितम् । तत्र अःअं विचारयिष्यामि । न चेत् न्यायालयं गच्छतु, उत मौनं तिष्ठतु....।" इति उक्त्वा उपमण्डलाधिकारी रोषेण दूरवाणीं स्थापितवान् । अनन्तरं सः आकारिकाशब्दं कॄतवान् । द्वारपाकः समायातः । तं जलम् आनेतुम् आदिष्टवान् । सः प्रस्थितः । अधिकारिण मुखमण्डलं रक्तं जातम् । तस्य रोषारुणे नेत्रे ज्वलिते इव स्तः । सर्वशरीरं स्वेदसिक्तं जातम् । उपरि भ्रमत् विद्युद्व्यजनमपि तस्य कृते उल्मुकः इव आसित् ।द्वारपालेन आनीतं जलपात्रं तेन रिक्तं कृतं । ततः सः पादौ प्रसार्य सुखेन उपविष्टवान् । तस्य दृष्टेः पुरतः तद्दिवसीया घटना शनैः शनैः समायाति स्म । 'महरं दिनं तद् । 'ताजिया ' प्रदर्शनं द्रष्टुं जनाः समवेताः आसन् । तेषं नृत्यकौशलं प्रत्यक्षीकर्तुं बालाः विषेषेण उत्सुकाः आसन् । तेषां नृत्यकौशलम् प्रत्यक्षिकर्तुं बाला विशेषेण उत्सुकाः आसन् । दलं परितः ते इतस्ततः धानन्ति स्म । एतावता कालेन एव स्वस्य कार्यानं जनसमुद्रं प्रति अगच्छ्त् । अहो दौर्भाग्यम्...। कार्यानेन घट्टितः सन् भूमौ पतितः द्वारपालकस्य पुत्रः पञ्चवर्षदेशीयः लघुबालकः । कार्यानस्य अन्तः पृष्टतः आसने उपविष्टः सः किञ्कर्त्व्यतामुढ जातः । 'ताजिया' तः जनस्त्रोतः कार्यान्ं प्रति सरति स्म । चालकं दॄष्ट्वा प्रहर्तुं ते जना उद्युक्ताः आसन् । परन्तु ये केचन तम् अपिज्ञातवन्तः ते चालकं प्रति गच्छतः जनान् निवारयन्ति स्म । तदनन्तरं केचन पुरुषाः तः बालकम् उन्निय मार्गमध्ये स्थापितवन्तः । पञ्चवर्षिय ः पुष्टः सः बालकः दर्शनेन एव स्नेहास्पदं भवति स्म । यद्यपि तस्य केशाः अप्रसाधिताः ,वस्त्राणि च आसन्, तथापि सः शोभितः आसित् । कष्टेन सः 'अन्ब अम्ब इति उच्चार्य मर्गे निपतितः आसीत् । जलात् उन्नीतस्य मत्स्यस्य इव तस्य विलुण्ठनं जनानां कृते दुस्सहनीयम् अभवत् । केचन तं बाल्ं चिकित्सालयं प्रति नेतुं सूचितवन्तः । यत्ः करणियम् इति मत्वा सः बालं चिकित्सालयं नेतुम् अङ्गिकृतवान् । अधुनापि बालस्य मुखमण्डलस्य । चित्रं दृष्टेः पुरतः स्पष्टरुपेण अस्ति । असह्यवेदनाक्लिष्टस्य तस्य मुखात् कष्टेन निर्नतः 'अम्ब ' इति श्ब्दः तस्य ह्रदयं दुनोति स्म । सः चिन्तितवान् -'अबोध चञ्चलबालक । चञ्चलता एव तव कालः अपि जन्म मृत्युं च अधिकृत्य कवितां लिखितवान् आसीत् । सत्यमेव ।' स अपि जन्म मृत्युं च अधिकृत्य कवितां लिखितवान कदाचित् सः अपि जन्म मृत्युं च अधिकृत्य कवितां लिखितवान् आसित् । बाल्यकाले एव अनुभुतं मृत्युना कृतं ताण्डवनृत्यं तस्य मनसि अद्यापि स्पष्टम् अस्ति । क्रमशः स तस्य बालकस्य विषये स्नेहार्द्रचित्तः अभवत् । वात्सल्यभावेन व्याकुलितः सः तत्र गन्तुकामः अभवत् । घातकत्वरुपेण कलङ्केन आत्मनः जीवनं मलिनीकर्तुं स न इष्टवान् । पुत्रहिनस्य तस्य द्वारपालकस्य गृहं गत्वा निजाश्रुपातेन मनः निर्मलीकर्तुं सः उद्यतः जातः । परन्तु... एकतः मानवीया दृष्टि ः ,अन्यतः उच्चात्मिकायाः अहमिकायाः वा भावनायाः अन्तरे एव सः 'न ययौ न तस्थौ' अभवत् । किङ्चित पुर्वं शिक्षिककर्मकर्मकरसङ्घस्य सचिवम् उद्द्शिय उक्तं निजवचनं प्रति सः स्वयमेव धिक्कारयुक्तं अभवत् । मा कुरु धनजनयौवनगर्वम् ... इति स्म्तवतः तस्य जीवने अनास्था समुत्पन्ना । सर्वेन्द्रियाणि संयम्य ,मान_सम्मानाहग्ङ्कारादिन् पदतले कृत्वा स्थिरमनसा सः द्वारपालकस्य गृहं गन्तुं तस्य अश्रु मार्जयितुं च निश्र्चयम् अकरोत् । परन्तु तस्य पादौ न प्रसरतः । प्रकोष्ठस्य चतुर्भित्तितः सः प्रतिध्वनिं श्रुत्वान् -"किम् उक्तं भवता ? मया द्वारपालकस्य गृहं गन्तव्यम् इति ? ....भवान् मां किं वा भावयति ...? नाहं भवतः मानवतायाः पाठम् अपेक्षे । अन्यं कञ्चित् उद्दिश्य करोतु मानवतायाः मानवीयमूल्यबोधस्य वा पाठनम् । न माम् ।" निर्मलायमानाः तस्यः भावनाः पुनः मलिना जाता । अहमिकायाः तमसा सः पुनः पराजीतः अभवत् । तथा सत्यपि तस्य अभ्यनत्रे स्थिता श्रद्धाञलिम् अर्पयितुं तं प्रेरयन्ती आसीत् । अनायासेन तेन पुनः आकारिका वादिता । द्वारपालकः प्राविशत् । कार्चालकम् आह्वातुं तं सः सूचितवान् । द्वारपालः प्रस्थितः । सः पत्रम् एकम् अलिखत् 'सचिवमहोदय मृतक्स्य संस्काराय सहाय्यरुपेण सहस्त्रं रुप्यकाणि प्रेषयन् अस्मि । कृपया गृह्णातु ।' चालकः यदा समायातः तदा पत्रं धनञ्च दत्वा तम् आदिष्टवान् -"तेन सचिवेन सह म्रुतबालकस्य गृहं प्रति गत्वा आगच्छ्तु " इति चालकः गतवान् । स तस्य प्रत्यागमनमेव प्रतीक्षमाणः अतिष्ठत् । चालकः प्रत्यागतः एकेन पत्रेण सह नीतं धनपोटलकमपि अधिकारिणे समर्पितवान् । अधिकारी पत्रं पठितवान् -"धर्मावतारेण उपमण्डलाधिकारीमहोदयेन दत्तं धनं स्वीकृतम् । परन्तु अनेने धनेन महाविद्यालयस्य पुरतः गतिरोधकस्य निर्माणार्थं भवतः समक्षम् अस्य अधमस्य हार्दिकः अनुरोधः अस्ति इति । अलं विस्तरेण । भवतः कृपाभिलाषी "- द्वारपालकः । तस्य हस्ततः पत्रं पतितम् । नयने उद्वेगस्तिमिते आस्ताम्