गङ्गा गङ्गा पर्वतराजहिमालयात् प्रभवति । एषा सर्वासु नदीषु श्रेष्ठा पवित्रतमा च अस्ति । गङ्गायाः उद्भवविषये एका कथा अस्ति । भगीरथः नाम नृपः पूर्वजानाम् उद्धाराय तपस्याम् अकरोत् तपस्यायाः च प्रभावेण सः गङ्गां स्वर्गात् धरायाम् अवतारयितुं समर्थः अभवत् । अतः एव इमां जनाः भागीरथी इति अपि कथयन्ति । ते अस्याः जलम् अत्यधिकं पावनं मन्यन्ते । बहवः श्रद्धालुजनाः प्रतिदिनम् अस्यां स्नानं कुर्वन्ति इमां च पूजयन्ति । अस्याः तटे हरिद्वार-ऋषिकेष-प्रयाग-वाराणसी-इत्यादीनि अनेकानि तीर्थस्थानानि सन्ति । प्रतिवर्षं पुण्येषु पर्वसु लक्षाणि जनाः एषु तीर्थस्थानेषु आगत्य अस्याः पावनजलेन स्नानं कृत्वा दुरितानि दूरीकुर्वन्ति । यन्त्रकाराः अस्याः जलमवरुद्ध्य सेतुं बद्ध्वा महाजलाषयेषु जलसञ्चयं कुर्वन्ति । एवं प्रकारेण सञ्चितं जलं क्षेत्राणां सिञ्चनाय उपयुज्यते । अनेन भूमिः उर्वरा भवति प्रभूतं च अन्नम् उत्पादयति । एवं गङ्गायाः जलं कृषेः महान्तम् उपकारं करोति । अस्याः जलेन विद्युत् अपि उत्पन्ना भवति । इयं दूरदर्शन-ध्वनिविक्षेपक-शीतकैत्यादीनि यन्त्राणि सञ्चालयति विविधानां च पण्यानां वस्तूनां निर्माणे सहायिका भवति । एवं गङ्गा लोकं परलोकं च उभयम् अपि उपकरोति ।