गृध्रमार्जारकथा एकस्मिन् पर्वते एकः विशालः शाल्मलीवृक्षः आसीत् । तत्र एको जरद्गवो नाम वृद्धः गृध्रः वसति स्म । अन्य खगाः तस्मै जरद्गवाय स्वाहारात् किञ्चित् यच्छन्ति स्म । सोऽपि खगशिशूनां रक्षणं करोति स्म । एकदा दीर्घकर्णो नाम एकः मार्जारः खगशिशून् खादितुं तत्रागतवान् । तं दृष्ट्वा शिशवः भयेन कोलाहलं कृतवन्तः । तत् श्रुत्वा जरद्गवः मार्जारं पृष्टवान्- " कः त्वम् ? अत्र कथम् आगतवान् ?" सोऽवदत्- "अहं मार्जारः ।" गृध्रोऽवदत्-"मार्जाराः मांसप्रियाः भवन्ति। अत्र पक्षिशावकाः निवसन्ति । अतः दूरं गच्छ , अन्यथा त्वां मारयिष्यामि ।" मार्जारोऽवदत्-"अहं गङ्गायां नित्यं स्नात्वा अहिंसाव्रतम् आचरामि । ब्झवान् अतीव धर्मपरायणः इति जानामि । अतोऽत्र धर्मवार्तां श्रोतुम् आगतवान् अस्मि । अस्ति मम विचारः- अहिंसा परमो धर्मः ।" गृध्रस्य मनसि विश्वासः जातः । ततः सः मार्जारः प्रतिदिनं खगशिशून् कोटरं नीत्वा खदति स्म । क्रमशः शिशूनाम् अभावेन चिन्तिताः खगाः इतस्ततः अन्वेषणं कृतवन्तः । ते वृक्षकोटरे अस्थीनि दृष्टवन्तः । ते चिन्तितवन्तः यत् जरद्गवः एव शिशून् खदितवान् । अतः मिलित्वा ते तं जरद्गवं हतवन्तः । अत एव कथ्यते- अज्ञातकुशिलस्य वासो देयो न कस्यचित् ।