पादकन्दुकक्रीडायाः विश्वप्रतियोगिता ******************************************************************************** पादकन्दुकक्रीडायाः विकासः इंगलैण्डदेशेऽभवत् । अस्याः क्रीडायाः वर्तमानं स्वरूपं १८६३ तमे वर्षे निश्चितम् अभूत् । उभयोः पक्षयोः प्रत्येकं पक्षे एकादश क्रीडकाः भवन्तीत्येतत् तु १८७० तमे वर्षे निर्धारितम् अभवत् । एतत्सम्बन्धिनी अन्ताराष्ट्रियसंस्था १९०४ तमे वर्षे प्रतिष्ठापिता । अद्यत्वे एषा क्रीडा विश्वे अत्यन्तम् लोकप्रिया वर्तते । पादकन्दुकक्रीडायाः विश्वप्रतियोगिता १९३० तमे वर्षे प्रारब्धा । १९८८ तमस्य वर्षस्य जून जुलाईमासयोः फ्रांसदेशस्य राजधान्यां पैरिसनगरे पादकन्दुकक्रीडायाः या विश्व प्रतियोगिता अभवत् तस्याः संक्षिप्तं विवरणम् अत्र प्रस्तूयते । पादकन्दुकक्रीडायाः अस्यां प्रतियोगितायां द्वात्रिंशद् देशा भागं गृहीतवन्तः । तेषु देशेषु जर्मनी -इटली -अर्जेन्टीना- डेनमार्क -इत्येतान् देशान् क्रमशः पराजित्य क्रोशिया -फ्रांस -हालैण्ड -ब्राजील इत्येते चत्वारो देशाः विश्वप्रतियोगिताया उपान्तिमचरणे प्रविष्टा अभवन् । द्वितीया स्पर्धा ब्राजील-हालैण्ड देशयोः मध्ये अभवत् । प्रथमायां स्पर्धायां क्रोशिया- देशस्य - डेवर- सूका- नामकेन क्रीडकेन पूर्वम् एकं गोलं कृतम् । एतदनन्तरं क्रोशिया देशस्य दलेन आत्मरक्षायै महान् प्रयत्नः कृताः । अस्मिन् प्रयत्ने क्रोशिया देशस्य क्रीडकाः फ्रांसदेशीयान् क्रीडकान् वारयितुं मध्यान्तरं यावत् सफला अभवन् द्वितीये कालार्धे लिलियन-थुरम्-नामकेन फ्रांस-देशस्य क्रीडकेन गोलाद्वयं कृतम्। एवं फ्रांदेशीयक्रीडादलेन क्रोशियादेशस्य क्रीडादलं पराजितम्। द्वितीयायां स्पर्धायां ब्राजील -हालैण्ड- देशौ निर्धारितसमये एकैकं गोलं कृत्वा तुल्यौ आस्ताम् । हालैण्द- क्रीडादलतः पैट्रिक-क्लूवरनामकेन क्रीडकेन ब्राजील देशस्य च रोनैल्डो नामकेन प्रसिद्धेन क्रीडकेन एकैकं गोलं कृतम्। अतिरिक्त-समयेऽपि उभयोः कोऽपि पक्षो न पराजितः । पैनल्टी -पादाघातेषु ब्राजील-देशीयेन क्रीडादलेन हालैण्डदेशस्य क्रीडादलं पराजितम् । प्रतियोगितायाः अन्तिमचरणे फ्रांस- ब्राजीलदेशयोः मध्ये स्पर्धा अभवत् । स्पर्धायाः प्रागेव ब्राजीलदेशस्य प्रसिद्धः रोनैल्डोनामा क्रीडकः ’आकर्षेण’ आक्रान्तोऽभवत् । अस्य एकस्मिन् पादे पीडाऽपि आसीत् । परमेतस्यामपि अवस्थायां ब्राजीलदेशस्य क्रीडादलस्य नेता तं स्वकीये दले विधृतवान् । एष निर्णयः युक्तो नासीत् । अस्वस्थतायाः हेतोः रोनैल्डो स्पर्धासमये क्रीडाक्षेत्रात् गमनागमनमकरोत् । गोलकरणस्य च स्वर्णावसरमपि प्राप्य गोलं कर्तुं नाशक्नोत् । एतेन ब्राजीलदेशस्य क्रीडकानाम् एकाग्रता भग्ना संजाता आत्मविश्वासश्च व्यनश्यत् । फ्रांसदेशस्य क्रीडकाः एतादृशीं स्थितिं वीक्ष्य ध्यानेन कौशलेन च ब्राजीलदेशस्य क्रीडादलस्य अभिभवितुं समर्था अभवन् । फ्रांसदेशीयदलस्य नेता जिंदेनमहोदयः शिरसा गोलद्वयं कृतवान् । अवशिष्टेषु क्षणेषु इमैनुअल -पैटिट-नामकेन क्रीडकेन कुशलतया तृतीयमपि गोलं कृतम् । फ्रांसदेशेन त्रीणि गोलानि कृतानि । ब्राजीलदेशस्य उपलब्धिस्तु शून्या आसीत् । एवं पूर्व विजेतारं ब्राजीलदेशं पराजित्य फ्रांसदेशः पादकन्दुकविश्वप्रतियोगितायां विजेता अभवत् ।