एहि हसाम ! फाल्गुनमासः-२००५ १. द्वौ उन्मत्तौ आम्रवृक्षम् आरुह्य तस्य शाखायां लम्बमानौ आस्ताम् । किञ्चित् काल अनन्तरं तयोः अन्यतरः अधः न्यपतत् । तदा अपरः तम् अपृच्छत्- " किं भवान् श्रान्तः जातः...?" " न हि भ्रातः! पक्वः जातः ...."अपरः उत्तरम् उक्तवान् । २.अध्यापकः - सप्ताहः व्यतीतः ,त्वं विद्यालयं न आगतः। किमर्थम्? छात्र:- श्रीमन् ! मम स्वास्थ्यं सम्यक् न आसीत् । अध्यापकः - अस्तु । किन्तु श्वः चिकित्सकात् प्रमाणपत्रम् आनयतु। छात्रः- श्रीमन्! भवान् तस्य स्थाने पञ्च रुप्यकाणि अर्थदण्डम् एव स्वीकरोतु। चिकित्सकः तु वैद्यकीयप्रमाणपत्रस्य कृते पञ्चाशत् रुप्यकाणि गृह्णाति...। ३.रमेशः-भोः वयस्य! वदतु, विवाह-अवसरे वरःकिमर्थम् अश्वस्य उपरि उपविशति,गर्दभस्य उपरि न? सुरेशः-भोः मित्र! भवान् न जानाति यत् वरः यदि गर्दभस्य उपरि उपविशति तर्हि वधूः गर्दभद्वयं दृष्ट्वा भयम् अनुभूय पलायनं करोति....। ४.लता- सखि! भवती जानाति किं सीता रामेण सह किमर्थं वनं गतवती? शान्ता -आम्, यतः सा पतिव्रता। पतिसेवायै सहधर्मनिर्वाहाय सा गतवती। लता- न हि , न हि । कारणं तु अन्यत् अस्ति। चिन्तयतु, इदानीम् एका एव श्वश्रुः भवति चेत् अपि जीवनं दुष्करं भवति, तस्याः तु तिस्रः श्वश्रव: आसन्! का स्थितिः स्यात् तस्याः!! ५.पतिः पत्नी तयोः पुत्रः च वार्तालापं कुर्वन्तः आसन्। पुत्रः पितरम् अपृच्छत्- पितः! भवतः जीवने अतीव रमणीयाः दिवसाः के? पिता- प्रथमः दिवसः सः यदा अहं सर्वकारीयसेवां प्राप्तवान्। द्वितीय: दिवसः यदा भवान् जन्म प्राप्तवान्। माता मध्ये उक्तवती- किन्तु आवयोः विवाहदिवसः...? पिता झटिति अवदत्- अहं तु जीवनस्य सुखपूर्णान् रमणीयदिवसान् एव वदन् अस्मि इदानीम्...। ६.न्यायाधीशः- त्वया कथं चौर्यं कृतं? चोरः न्यायाधीशमहाशय ! भवान् तत् शिक्षित्वा किं करिष्यति? ७.अस्य वातायनस्य काचकः केन भग्नः? मीरा- मम पत्या....। गौरी- तत् कथम्? मीरा-मया तं प्रति चषकः क्षिप्तः। किन्तु सः किञ्चित् अपसृतवान् । अतः चषकः काचक उपरि पतितः। ८.कश्चित् रुग्णः स्वस्य उदरस्य शस्त्रक्रियार्थं निर्दिष्टे दिने यथासमयं चिकित्सालयं सम्प्राप्तः। शल्यप्रकोष्ठे प्रवेशात् प्राक् सः स्वस्य कोषे स्थितं धनं निष्कास्य गणयितुम् आरब्धवान् । एतत् दृश्यं पश्यन्ती शुभ्रवस्त्रधारिणी कापि परिचारिका तम् अवदत् -"शुल्कप्रदानस्य चिन्तां सम्प्रति मा करोतु । शस्त्रक्रियायाः पश्चात् देयपत्रानुसारं वयं शुल्कं स्वीकुर्मः।" तदा रुग्णः अवदत्- " भोः महोदये! न मे चिन्ता यथा भवती वदति। शस्त्रक्रियार्थं संमोहनवायुदानात् प्राक् अहं सकृत धनं गणयितुम् इच्छामि।" ९.विजय:-श्रीमन्! रोटिका-चपेटिकयोः कः भेदः ? सुधीष्टः- किमर्थं व्यर्थमेव बुद्धिव्ययं करोति भवान्? सकृत् द्वयम् अपि खादित्वा पश्यतु , स्वयम् एव भेदं जानाति। वदतु, इदानिम् एव ददानि किम्...? १०.पतिः प्राणवल्लभे! अहं तु विवाहात् पूर्वं अतीव दुष्टः आसम्। किन्तु भवती वदतु ,कथम् आसीत्? पत्नी-(लज्जया) प्रिय! यावद् वधूवरयोः गुणमेलनं न भवति तावत्तु विवाहः न भवति खलु...! ॥इति शम्॥