दुर्गापूजा दुर्गापूजा हिन्दूनां महोत्सवोऽस्ति । शरत्काले आश्विनमासे इयं पूजा सम्पूर्णे भारते श्रद्धया आनन्देन च सम्पादिता भवति । दुर्गापूजायाः विषये अनेकाः कथाः प्रचलिताः सन्ति । रावणेन सह युद्धात् पूर्वं श्रीरामः दशदिनानि यावत् दुर्गायाः पूजां कृतवान् । तस्याः प्रसादेन सः रावणं हतवान् लङ्कायां विजयं प्राप्तवान् च । तस्य विजयस्य स्मरणाय प्रतिवर्षम् इयं दुर्गापूजा अनुष्ठिता भवति । अनेकेषु स्थानेषु प्रतिवर्षम् अस्मिन्नवसरे रामलीलायाः प्रदर्शनं "विजयादशमी" कथ्यते । अपरे वदन्ति यत् अस्यां दशम्यां तिथौ देवी दुर्गा महिषासुरनामकं राक्षसं हतवती । अतः सर्वत्र दुर्गायाः महिषमर्दिनी प्रतिमा प्रतिष्ठिता पूजिता च भवति । देवीप्रतिमाः पूजास्थलानि चोत्तमरीत्या सज्जितानि भवन्ति । जनाः दुर्गायाः स्तवान् पठन्ति हवनं कुर्वन्ति च । बहुषु स्थलेषु संगीतनृत्यादयः मनोरञ्जकाः कार्यक्रमाः आयोजिताः भवन्ति । जनाः नूतनानि वस्त्राणि धारयन्ति । विविधानि मधुराणि खादन्ति खादयन्ति च । दशम्यामेव दुर्गायाः प्रतिमाः जले विसर्जिताः भवन्ति । हिन्दूनां मतेन दुर्गा आदिशक्तिः जगज्जननी चास्ति । तस्याह् प्रसादेन अधर्मः नश्यति धर्मः जय्ति च । एतया पूजया जनेषु धार्मिकभावना, आत्मविश्वासः, उत्साहः भ्रातृभावश्च संवर्धिताः भवन्ति । देवी दुर्गा विजयस्य प्रतीकम् अस्ति ।